________________
परिच्छेदः ]
रुचिराख्यया ध्याख्यया समेतः । किञ्च-शब्दार्थयोःसगुणत्वविशेषणमनुपपन्नम्,गुणानां रसैकधर्मत्वस्य 'ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः।' इत्यादिना तेनैव प्रतिपादितत्त्वात् । 'रसाभिव्यञ्जकत्वेनोपचारत उपपद्यते'
यत्तुक्तं टिप्पणीकारः-'अत्राहोपुरुषिकामात्रमिदम्-दोषाभावसत्तायांतु काव्यता निर्बाधेवैति सदोषेऽतिव्याप्तिवारणाय 'अदोषा वित्यभिहितम् । तत्र दोषात्यन्ताभावस्य दुरुपपादत्वात् काव्यत्वोपमर्दका ये प्रवलतरा दोषास्तद्रहितौ शब्दार्थों काव्य मित्यर्थोऽल्पार्थकनस्वारस्यालभ्यते । एवं च-क्वचिदनित्यदोषसत्त्वेऽपि काव्यत्वमव्याहतमेवेत्यर्थात् सिद्धम् । अत एव-न्यकारो ह्ययमेव में' इत्यादौ विधेयाविमर्शसत्त्वेऽपि ध्वनिकाव्यता जागरूकैव । नहि 'ईषद्दोषा' वित्यनेन निर्दोषयोः काव्यत्वं व्यवच्छिद्यते, सदोषयोर्वा लभ्यते, इति केनापि सचेतसाऽवधारयितुं वार्यते । निर्दोषयोः स्वतः काव्यत्वे सदोषयोर्लक्षणघटकत्वासम्भवे कुत्रचिदीषद्दोषयोरेव तथात्वेन क्रोडीकरणात् ।' इति । तत्र पृच्छयते-'अदोषावित्यनेन निर्दोषयोर्यदि काव्यत्वं प्रतिपाद्यते, तर्हि 'ईषद्दोषयोः केन । नच तद्विधायकं किञ्चित् । 'सति सम्भवे' इति निवेश्यते तर्हि 'सर्वत्र निर्दोषौ क्वचित् पुनरीषद्दोषौ शब्दार्थों काव्य' मिति वक्तव्ये तथाऽभिधानं किम्मूलम् । अन्यथा 'अनलकृती क्वापी' त्यपि किमर्थमुक्तम् । किञ्च एतादृशमपि लक्षणं न सुशोभते । नहि केनापि कीटदशादिशून्यमेव रत्नं, क्वचित् पुनरीषत्कीटदंशादिमदपि रत्नं भवति, न तु सर्वथा कीटदंशादिमत्' इति वक्तुं युज्यते । 'अदोषा' वित्यनेन काव्यत्वोपमर्दकैर्दोषैरेव शून्ययोर्यदि वा काव्यत्वमङ्गीक्रियते । तर्हि किं नाम काव्यम् ? किं तत्र तत्त्वम् ? किं वा तदनभिधाय तदुपमर्दकदोषशून्ययोः काव्यत्वमित्युच्यते ? कथं वा' नात्रान्योऽन्याश्रयापात: ? यदि काव्यत्वोपमर्दकदोषशून्यत्वमेव काव्यत्वमित्युच्येत ? तर्हि के काव्यत्वोपमर्दकाः ? के पुनर्नेति वक्तव्यम् । ननु अपरिहार्य्या नित्या दोषाः काव्यत्वोपमर्दका इति. चेत् ! 'अहो वा हारे वा' इत्यादौ भवद्दर्शितनयेन रसानौचित्यस्य केन परिहार्यत्वं, केन वा काव्यत्वमवस्थाप्यते ? तदिति सर्व मत्तप्रलपितम् ।
नच 'अदोषा' विति विशेषणमेव नायुक्तं, किन्तु-'सगुणा' वित्यपीत्याह-किश्चेत्यादिना ।
किश्च । शब्दार्थयोः । सम्बन्धसामान्यविवक्षया षष्ठी । सगुणत्वविशेषणं सगुणत्वस्य विशेषणं विशिष्य प्रतिपादन मिति यावत् । 'सगुणा' विति विशेषणमिति भावः । अनुपपन्नं नोपपन्नं युक्तिसिद्धम् । हेतुमाह-गुणानां वक्ष्यमाणानां माधुर्य्यादीनामित्यर्थः । रसैकधर्मत्वस्य रसस्य रसादेरेके मुख्या धमस्तित्स्वरूपभूता इति यावत्, तेषां भावस्तत्त्वं तस्य । रसपदं रसादेरुपलक्षकं तेन तदाभासादीनामप्युपादानम् ।' आत्मनो जीवात्मनो न तु शरीरस्य 'आत्मन एव हि यथा शौर्यादयः, नाकारस्य, तथा रसस्यैव माधुर्य्यादयो गुणाः, न वर्णानाम्' इत्यग्रिमग्रन्थस्वारस्यादिति भावः । एतेनात्रात्मशब्दस्य कलेवरार्थकत्वमपास्तम् । ‘आत्मा कलेवरे यत्ने स्वभावे परमात्मनि । चित्ते धृतौ च बुद्धौ च परव्यावर्तनेऽपि च ॥' इति धरणिः । शौर्यादयः शौर्यक्रौर्य्यादयः । इव यथा तथा । ये। रसस्याङिनः । अत्राभेदेनान्वयः । तेन-प्रधानभूतस्य रसस्येत्यर्थः । 'काव्य' इति शेषः । धर्माः साक्षात्सम्बन्धेन सम्बन्धिनः । इत्यादिना। आदिपदेन 'उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥' इत्यभिधीयते । करणे तृतीया । तेन “येन-'सगुणौ शब्दार्थावित्यभिधीयते।"इति शेषः । एव । प्रतिपादितत्वात् । 'अतः स्वोक्त्यैव विरुद्ध' मिति भावः। रसाभिव्यञ्जकत्वेनोपचारतः। अत्र-रसाभिव्यञ्जकत्वेने' ति 'उपचारत' इति पदद्वयम् । अभेदान्वयः । तथाच-रसाभिव्यञ्जकताऽभिन्नेनोपचारेणेति निष्कृष्टोऽर्थः । अन्ये त्वाहः- रसपदं रसधर्मोपलक्षक, तेन- 'रसधर्माभिव्यञ्जकत्वेने' त्यर्थः । इति । उपपद्यते । 'शब्दार्थयोः सगुणत्वविशेषण' मिति शेषः ।
१ अत्राहुस्तर्कवागीशाः-'केचित्तु.. 'इदं च प्रन्थकृतारोपबीजानवधानादेवोक्तम् । तथाहि-परम्परासम्बन्धघटकस्य मध्यभूतसम्बन्धिनो बहिरिन्द्रियप्रत्यक्षत्वे सत्येव-नैवमारोपः । यत्र तु परम्पराघटकमध्यभूतसम्बन्धी न बहिरिन्द्रियप्रत्यक्षस्तत्र त्वेवमारोपो दृश्यत एव । यथा-'शीतो वायुः, उष्णं जलम् , सुगन्धिर्वायुः' इत्यत्र परम्परासम्बन्धघटकानां मध्यभूतजलाग्निपुष्पावयवानां सूक्ष्मत्वेनाप्रत्यक्षत्वात्तादृशस्वारोपः । प्रकृते तु बहिरिन्द्रियप्रत्यक्षस्य रसादेः परम्परासम्बन्धघटकत्वान्न सम्भवत्येव गुणत्वारोपः शब्दार्थयोरिति, अत एवोच्चैः शब्दत्ववत्तारत्ववदाकाशमिति नारोपः । तत्र परम्परासम्बन्धघटकस्य शब्दस्य बहिरिन्द्रियप्रत्यक्षत्वात् । न चैवं 'ज्ञानत्ववानात्मा' इत्यारोपापत्तिः । तत्र परम्पराघटकस्य मध्यभूतस्य ज्ञानस्य बहिरिन्द्रियाप्रत्यक्षत्वादिति वाच्यम् । यदि च तादृशारोपो नास्ति तदा कारणान्तराभावस्यैव तत्र