________________
साहित्यदर्पणः।
[प्रथमःइति चेत्तथाऽप्ययुक्तम्, तथाहि-तयोः काव्यस्वरूपेणाभिमतयो रसोऽस्ति, न वा; नास्ति चेहुणवत्त्वमपि नास्ति; गुणानां तदन्वयव्यतिरेकानुविधायित्वात् । अस्ति चेत् कथं नोक्तं ' रसवन्ता' विति विशेषणम, 'गुणवत्त्वान्यथाऽनुपपत्यैतल्लभ्यते' इतिचेत ! 'सरसा' वित्येव वक्तं युक्तम्, 'न सगुणा' विति; नहि 'प्राणिमन्तो देशा' इति वक्तव्ये 'शौर्यादिमन्तो देशा' इति केनाप्युच्यते।
अयं भावः-रस आत्मवच्चमत्कारैकवरूपः स च शरीरेणेव शब्दार्थाभ्यामभिव्यज्यते, तदिति आत्मानं प्रत्याययतः शरीरस्य शौर्यादिशालित्वमिव रसं प्रत्याययतोः शब्दार्थयोरपि माधुर्व्यादिशालित्वम् । इति । रसधर्मा गुणा माधुर्य्यायास्तेषामभिव्यञ्जको शब्दार्थाविति तत्त्वेनोपचारेण तयोः सगुणत्वं युज्यते । इति वा । इतीत्येवम् । चेत् । विवक्ष्यते 'तही' ति शेषः । तथाऽपि । अयुक्तं न युक्तम् । तदेवोपपादयति-तथा हि। यथा ह्ययुक्तं तथैवोपपाद्यत इति भावः । तयोः । काव्यस्वरूपेण । अभिमतयोः । तददोषौ शब्दार्थों सगुणावनलङ्कृती पुनः क्वापि ।' इत्युक्तदिशेति शेषः । शब्दार्थयोः । रसो रसादिः । रसपदं रसायुपलक्षकम् । अस्ति । वाऽथवा । न 'अस्ति रस' इति शेषः । अथ पावृत्य प्रश्नाभिप्रायमुद्घाटयति-न । अस्ति । 'रसः शब्दार्थयोरिती' ति शेषः । चेत् । 'ती' ति शेषः । गुणवस्वम् । अपि न अस्ति । कुत इत्याह -गुणानाम् । तदन्वयव्यतिरेकानुविधायित्वात । रसायन्वयव्यतिरेकानुविधायित्वात् । अयं भावः-'आत्माधिष्ठानमन्तरात्मस्वरूपेणाभिमतमपि शरीरमुपचारेणात्मगुणाधिष्ठानं च प्रतीयमा नमपि यथा न खरूपसत् , तथा रसाधिष्ठानमन्तरा रसखरूपेणाभिमतावपि शब्दार्थों गुणवृत्त्या रसगुणाधिष्ठानं प्रतीयमानावपि न रसधर्माधिष्टानभूतौं । इति । अथ-चेत् । अस्ति । 'रसादि' रिति शेषः । तर्हि । 'रसवन्तौ रसादिशालिनौ' । इतीत्येतत् । विशेषणम् । कथं केन हेतुना। न नैव । उक्तम् अथ-गुणवत्त्वान्यथाऽनुपपत्त्या गुणवत्त्वस्यान्यथा रसादिवत्त्वव्यतिरेकेणानुपपत्तिरिति तया । एत 'द्रसादिवन्ता' विति विशेषणम् । 'लभ्यते तात्पर्येणाधिगम्यते ।' इति । चेत् । तर्हि । 'सरसौ रसादिशालिनौ ।' इतीत्येतत् । 'शब्दार्थयोर्विशेषण' मिति शेषः । एव । वक्तुम् । युक्तम् । 'अत्र रूढिप्रयोजनाभावालक्षणाऽप्रसङ्गात् ।' इति शेषः । अत एव-न न तु । 'सगुणौ'। इति विशेषण मिति शेषः । उपपादयति-हि यतः- 'प्राणिमन्तः। देशाः।' इति वक्तव्ये 'सती' ति शेषः । शौर्यादिमन्तः 'शौर्यक्रौर्यादिशालिन' इत्यर्थः । देशाः। न नैव । केनापि 'सचेतसे' ति शेषः । उच्यते । अयं भावः-'सगुणौ शब्दार्थों' इति नोपपद्यते, गुणानां रसमात्रधर्मत्वात्तत्रैतेषामसम्भवात् । ननु गुणाभिव्यञ्जको शब्दार्थाविति स्वाभिव्यञ्जकतासम्बन्धेन शब्दार्थनिष्टत्वं गुणानामिति चेदेतदपि न वाच्यम् । तथाऽपि रसवत्तायाः पूर्वमवदयमङ्गीकार्यत्वम् । गुणवृत्त्याऽपि गुणानां शब्दार्थनिष्टत्वस्वीकारे रसवत्ताया अपि तथा शब्दार्थनिष्टत्वमवश्यमभ्युपेतव्यम् । अतः सरसत्वमेव तयोरभिधेयम् । नहि प्राणिमन्तो देशा' इति वक्तव्ये 'शौर्यादिमन्तो देशाः' इति सचेतसा केनाप्यभिधीयते । इति ।
यत्त्वाइष्टिप्पणीकाराः-'अत्रेदमाकूतम्-'निर्गुणेऽतिव्याप्तिवारणाय 'सगुणा' वित्युक्तम् , गुणानां रसैकनिष्ठत्वेऽपि परम्परया तदभिव्यञ्जकशब्दार्थनिष्ठत्वमिति भावः । अत एवाष्टमोल्लासे 'गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता।' इत्यभिहितम् । तथा सत्येव 'मधुरः शब्दः, मधुरोऽर्थः इत्यादिव्यवहारः सङ्गच्छते ।' इति । तत्रेदमालोच्यते-निर्गुणं तावत् काव्यं भवति न वा, भवतीति चेत् ‘सगुणा' विति किमर्थम् । न भवतीति चेत् 'अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि !
-कल्पनीयत्वात् । अत एवोदयनाचार्येणोक्तम् 'आरोपे सति निमित्तानुसरणम् , न तु निमित्तमस्ति ।' इत्यारोपः । यस्तु जपाकुसुमस्य बहिरिन्द्रयप्रत्यक्षत्वेऽपि लोहितः स्फटिक इत्यारोपस्तत्र जपाकुसुसं नेदशपरम्पराघरकं जपाकुसुमस्य स्फाटिकावृत्तित्वात् । किन्तु जपाकुसुमस्य स्वच्छद्रव्यसान्निध्यमेव तद्रहितं पृथगेवारोपनिमित्तमिति सुधीभिरवधेयम् ।' इत्याहुः । तन्न स्थूलजलसंयोगेन शीतो वायुः, अर्कोपलसंयोगेन उष्णं जलमित्यादौ स्थूलजलार्कोपलसंयोगघटितयोः परस्परयोर्मध्यपदार्थयोः स्थूलजलार्कोपलयोर्बहिरिन्द्रियप्रत्यक्षत्वेऽपि विशिष्टधीनियामकत्वेन सम्बन्धत्वाङ्गीकारात् । चिदानन्दचमत्कारमयस्य रसस्य बहिरिन्द्रियप्रत्यक्षाविषयत्वेन तद्धटितपरम्परायाः सम्बन्धत्वाङ्गीकारे बाधाभावाच । वस्तुतस्तु यत्र परम्परया विशिष्टधीनियामकत्वं तत्रैव तस्याः सम्बन्धत्वं कल्प्यते । यत्र तु विशिष्टधीनियामकत्वं, तत्र तु सम्बन्धत्वं न कल्प्यत एव । तेन 'ज्ञानत्ववानात्मा' इत्यादौ स्वसमवायिसमवायस्य न सम्बन्धत्वम् ।' इति ।