________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । - ननु ‘सगुणौ शब्दाौँ ।' इत्यनेन ‘गुणाभिव्यञ्जको शब्दार्थों काव्ये प्रयोज्या 'वित्यभिप्रायः । इति चेत्, न; गुणाभिव्यञ्जकशब्दार्थवत्त्वस्य काव्य उत्कर्षमात्राधायकत्वम्, न तु स्वरूपाधायकत्वम् । उक्तं हि-काव्यस्य शब्दार्थों शरीरं, रसादिश्चात्मा, गुणाः शौर्यादिवत्, दोषाः काणस्वादिवत् , रीतयोऽवयवसंस्थानविशेषवत् , अलङ्काराः कटककुण्डलादिवत्।' इति । एतेन-अनलङ्कृती पुनः कापि ।' इति यदुक्तं तदपि परास्तम् ।' अस्य ह्यर्थः-'सर्वत्र सालङ्कारी, क्वचित्त्वस्फुटालङ्कारावपि शब्दार्थों काव्य' मिति, तत्र सालङ्कारशब्दार्थयोरपि काव्ये उत्कर्षमात्राधायकत्वात् । एतेन 'वक्रोक्तिः काव्यजीवितम्' इति वक्रोक्तिजीवितकारोक्तमपि परास्तम्, वक्रोक्तेरलङ्काररूपत्वात् ।
माम् । कम्बुकण्ठयाः क्षण कण्ठे कुरु कण्ठातिमुद्धर ॥' इति कथम्, ओजस्वितयेति चेत्, नेहौजो गुणः, प्रकृतरसपरिपन्थित्वात् । तर्हि-प्रसादवत्तयेति चेत्, 'मित्रात्रिपुत्रनेत्राय त्रयीशात्रवशत्रवे । गोत्रारिगोत्रजित्राय गोत्रात्रे ते नमोनमः ॥' इति कथम् । अत एवाहुः पण्डितराजाः-'लक्षणे गुणालङ्कारनिवेशोऽपि न युक्तः, 'उदितं मण्डलं विधोः' इति काव्ये दूत्यभिसारिकाविरहिण्यादिसमुदीरितेऽभिसरणादिविधिनिषेधजीवनाभावादिपरे ‘गतोऽस्तमर्कः' इत्यादौ चाव्याप्त्यापत्तेः । न चेदमकाव्यमिति शक्यं वदितुम् , काव्यतयाऽभिमतस्यास्यापि तथा वक्तुं शक्यत्वात्।' इति ।
नन 'सरसा' विति वक्तव्ये ‘सगुणा' विति नोच्यते, 'किन्तु' गुणाभिव्यञ्जकावित्यभिप्रेत्य ‘सगुणा' वितिः तथाच-'प्राणिमन्तो देशा' इति वक्तव्ये 'शौर्यादिमन्तो देशा' इत्यत्र प्रसिद्धिप्रयोजनाभावान्मा लक्षणा सम्भूत्, सम्भवति पुनस्तत्तथा प्रयोजनानपायादित्याह-नन । 'सगुणौ । शब्दार्थी 'काव्य' मिति शेषः ।' इत्यनेन । गुणाभिव्यचकी। शब्दार्थी। काव्ये । अत्र निमित्ते सप्तमी । 'प्रयोज्यौ।' इत्यभिप्रायः । ‘लक्षणामूल' मिति शेषः । इति । चेत् । न तर्हि युक्त' मिति शेषः । उपपादयति-गुणाभिव्यञ्जकशब्दार्थवत्त्वस्य । काव्ये । अत्र विषये सप्तमी । उत्कर्षमात्राधायकत्वमुत्कर्षों रसादिमत्तया प्रतीतिः, स एवेति, तस्याधायकं स्थापकं तस्य भावस्तत्त्वमिति तथोक्तम् ।
नतु । स्वरूपाधायकत्वम् ‘सङ्घटते' इति शेषः । सम्मतिं दर्शयति हि यतः । उक्तम् । किमित्याहकाव्यस्य रसप्राणितवाक्यात्मकस्येत्यर्थः । शरीरम्। शब्दार्थो । रसादी रसतदाभासादिः । च पुनः । आत्मा । शौर्यादिवच्छौय्यौदाऱ्यादिवत् । 'आत्मन इव रसादेधा' इति शेषः । गुणाः माधुर्योजःप्रसादा इत्यर्थः । काणत्वादिवत् काणत्वखञ्जत्वपङ्गुत्वादिवत् । 'शरारमात्रसम्भावन' इति शेषः । दोषा दुःश्रवत्वाश्लीलत्वादय इत्यर्थः । अवयवसंस्थानविशेषवदवयवानां करचरणादीनां संस्थानविशेषः सङ्घटनविशेषस्तद्वत् । 'शरीरदाढर्यादिप्रत्यायनविश्रामाः ।' इति शेषः । रीतयो वैदाद्याः । कटककुण्डलादिवत् । कटको हस्ताभरणम् । कुण्डलः कर्णाभरणम् । 'शरीरमात्रप्रसाधका' इति शेषः । अलङ्काराः पुनरुक्तवदाभासानुप्रासोपमाप्रभृतय इत्यर्थः । 'मन्तव्याः' इति शेषः । इति । तथा च- रसवत्त्वमन्तरेण शब्दार्थयोर्गुणाभिव्यञ्जकतया प्रयोज्यत्वाङ्गीकारेऽपि न काव्यस्य रसात्मकत्वलाभ इति निष्कृष्टम् । सम्मतेरानुषङ्गिकं फलमाह-एतेन 'काव्यस्य शब्दार्थों शरीरं..., अलङ्काराः कटककुण्डलादिवत् ।' इत्याद्यभिधानेनेत्यर्थः । क्वापि न तु सर्वत्र यत्र रससद्भावस्तत्रैवेति भावः । अनलङ्कती नालङ्कृतिरलङ्कारोऽनुप्रासोपमाऽऽद्यन्यतमो यत्र ताविति तथाभुतौ । अत्रेषदर्थे नत्रः प्रयोगः । पुनः । एतेन 'अदोषत्वे सति सगुणत्वे च सती'त्यवश्यमूडमिति सूचितम् । 'शब्दार्थों काव्यम्' इति पूर्वणान्वयः ।' इतीत्येवम् । यत् । उक्तं 'प्रकाशकारै 'रिति शेषः । तत् । अपि । परास्तं पराभूतम् । कथमित्याह- हि यतः । अस्य ‘अनलाकृती..' इत्यभिधानस्य । अयम् । अर्थः । 'सर्वत्र सति सम्भवे । सालङ्कारौ । शब्दार्थो । काव्यम् । क्वचित सालङ्कारत्वासम्भवेऽपि रसवत्तायाः सम्भव इत्यर्थः । तु पुनः । 'अस्फुटालङ्कारौ न स्फुटोऽलङ्कारो यत्र तौ। अपि । शब्दार्थो। काव्यम् ।' इति । तत्र तस्मिन् । काव्ये । सालङ्कारशब्दार्थयोः सालङ्कारयोः शब्दार्थयोः । अपि किं पुनरनलङ्कारयोः शब्दार्थयोरित्यर्थः । उत्कर्षमात्राधायकत्वात् । मात्रपदेन स्वरूपाधायकत्वं व्यावय॑ते । इदं तत्त्वम्-अवश्यं निर्दोषत्वावच्छिन्नसगुणत्वे सति