________________
साहित्यदर्पणः ।
[प्रथमःयच्च क्वचिदस्फुटालङ्कारत्व उदाहतम्
'यः कौमारहरः स एव हि वर,स्ता एव चैत्रक्षपा,स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि, तथाऽपि तत्र सुरतव्यापारलीलाविधी
रंवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥२॥' क्वचिदनलङ्कारत्वेऽपि शब्दार्थों काव्यम् । इति लक्षणं प्रोक्तं प्रकाशकारैः । इदं च 'ये रसस्याङ्गिनो धर्माः..' इत्यायुक्तदिशा रसस्यैवात्मतयाऽमीषामप्यभिमननात् , आत्मभूतं रसं विना च शरीरस्थानापनयोः शब्दार्थयोः शरीरित्वानुपपत्तेः । प्रकारान्तरेण तथा द्योतनं 'प्राणिमन्तो देशाः' इति वक्तव्ये 'शौर्यादिमन्तो देशाः' इत्याधुक्तिवन्न युक्तम् । इति । आनुषङ्गिकं फलं लक्षयति-एतेनालङ्कारस्य काव्यत्वाधायकतानिरसनेनेत्यर्थः । 'वक्रोक्तिर्वका काक्वादिनाऽन्यथाभूततां नीताऽत एव विलक्षणेति यावत्, उक्तिरिति तथोक्ता। काव्यजीवितं काव्यस्य जीवितमात्मेति तथोक्तम् । इति । वक्रोक्तिजीवितकारोक्तं वक्रोक्तिजीवितं तन्नामानं ग्रन्थं करोतीति वक्रोक्तिजीवितकारस्तेन कुन्तकेनोक्तमिति तथोक्तम् । अपि परास्तम् । कुत इत्याह-वक्रोक्तः। अलङ्काररूपत्वादलङ्कारस्वरूपत्वात् । अयं भावः-वक्रोक्तिरलङ्कारविशेषः, असौ च न जीवितम् , रसस्यैव तत्त्वोपपत्तेः । इति ।
आनुषङ्गिकं फलं निर्दिश्य सिंहनिरीक्षणन्यायेन पुनः 'अनलकृती..' इत्यायुक्तं निरस्यति-यच्चेत्यादिना ।
यत् । च । क्वचित् । काव्यप्रकाश इत्यर्थः । नान्नो निर्देशाभावस्तु तदपसिद्धान्तताख्यापनार्थः । अस्फुटालङ्कारत्वे । अत्र विषये सप्तमी। उदाहतम् । ‘पद्य'मिति शेषः ।
'यः । कौमारहरः' कौमारं वाल्यं परमरसिकतया सुरतोत्सवदानेन हृतवानपनीतवानिति तथोक्तः । एतेन नायकस्य 'श्रीमान् सुरतदक्षश्च योषितां सम्मतः पुमान् ।' इत्युक्तं योग्यत्वं, नायिकाविषयश्चानुरागो द्योत्यते । 'हरतेरनुद्यमनेऽच् ।' ३।२।९ इत्यच् । हि यद्यपीत्यर्थः । निपातानामनेकार्थत्वात् । स सुरतोत्सवदानेन हृदयङ्गमः । एव न त्वितरः । एतेनोपपतिसनिध्यभावोऽनुभाव्यते। वरः स्वयंवृतः । वियते प्रियतया स्वयमभिलष्यते इति वरः। एतेन नायिकाया नायकविषयकोऽनुराग आवेद्यते। ताः सुरतोत्सवेन क्षणमिव व्यपनीता इत्यर्थः । एव न वितराः । एतेन तासां नितान्तमुपभुक्तत्वं प्रियत्वं च द्योल्यते । चैत्रक्षपाश्चैत्रस्य क्षपा रात्रय इत्यर्थः । अत्र चैत्रपदं वैशाखस्याप्युपलक्षकम् , तेन चैत्रवैशाखरात्रय इत्यर्थः । 'त्रियामा क्षणदा क्षपा' इत्यमरः । यद्वा-वैशाखे ग्रीष्मस्य सान्निध्येन तदात्रीणामतिसुरतामोदकताऽभावेन यथाश्रुत एवार्थो ज्यायान् । यद्वा-चैत्रस्य क्षपा इव क्षपा विहारयोग्या रात्रय इति तथोक्ताः । एवं चेतरासामपि तदुपमितानां रात्रीणामवगमः । मध्यमपदलोपः । यद्वा-चैत्रस्य चित्रायुक्तस्य चन्द्रमस इति यावत् क्षपा इत्यर्थः । अत्र बहुत्वेन निर्देशः पुनः पुनश्चित्राचन्द्रमसोलुंगे सम्भवन्तीनां सर्वासां रात्रीणां सूचनाय । तथाच- चित्राचन्द्रमसोरिव नायिकानायकयोश्चित्राचन्द्रमसोर्योगे सुरतामोदहेतुभूता रात्रयइति भावः । तासां प्राशस्त्यं च--'चित्राचन्द्रमसोरिव ।' इत्यादिना महाकविभिरुगीतपूर्वम् । ते तदानीन्तनसजातीयाः। च। उम्मीलितमालतीसुरभय उन्मीलिता विकसिता मालतीसुरभयो मालतीसम्बन्धिनः सुगन्धा यत्र येन वेति ते तथोक्ताः । चैत्रमाससम्बन्धिनीनां रात्रीणां सान्निध्ये मालत्या जातेरसम्भवात्तदुपलक्षिता वासन्ती बोध्या। 'मालती युवती काकमाच्यां जातिविशल्ययोः । ज्योत्स्नायां निशि नद्यांचे' ति हैमः । क्वापि 'माधवी'त्येव पाठः । प्रौढाः । कदम्बानिलाः कदम्बानामनिलाः । कदम्बान प्राप्यावरुद्धसञ्चारतया शीतला वायव इत्यर्थः । अत्राहुस्तर्कवागोशाः-"कदम्बानिला धूलीकदम्बवायवः । चैत्रे तस्यैव (धूलिकदम्बस्यैव) सम्भवात् । केचित्तु 'कदम्बानिलाः कदम्बवनानिलाः । वनानिलानां प्रौढत्वे वनबहिर्भूतानां मान्द्योपलम्भादुद्दीपकत्वेनाह प्रौढा इति ।' इति याचक्रुः । तन्न, तथात्वे कदम्बपर्यन्तानुधावनस्य निष्प्रयोजनत्वात् , 'अरण्यानिला' इत्यनेनैव तदर्थलाभात् । नच मालतीसम्बन्धनैवानिलानां सौगन्ध्यलाभात्कदम्बसम्बन्धदर्शनं व्यर्थमिति वाच्यम् । विलक्षणसौगन्ध्यलाभाय तस्य सार्थकत्वात् । यथा 'रमणीकमनीयकपोलतले परिपीतपटीररसैरलसः । अयमञ्चति पञ्चशरानुचरो नवनीपवनीधुवनः पवनः ॥' नवा नवपुष्पितेत्यर्थः । अत्र चन्दनसम्बन्धेन सौगन्ध्यलाभेऽपि विलक्षणतालाभाय कदम्बसम्बन्धदर्शनम् ।” इति । सा तत्तत्सत्त्वे सुरतानन्दैकानुभवित्रीत्यर्थः । एव। च। अस्यहम् । तथाऽपि तत्तदुपभुक्तसकलसामग्रीसत्त्वेऽपि