________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
इत्येतञ्चिन्त्यम् । अत्र हि विभावनाविशेषोक्तिमूलस्य सन्देहसङ्करालङ्कारस्य स्फुटत्वम् ।
असकृदुपभुक्तानां भोग्यानां पुनर्भोगोत्कण्ठाया अनुचितत्वेऽसम्भवत्वेऽपि वेति यावत् । तत्रोपभुक्तपरित्यक्तस्य वान्तायितत्वेन पुनर्भोगानर्हे रेवारोधसि नर्मदातटे । 'वर्तमाने' इत्यर्थः । एतेन तत्सलिलसान्निध्ये तत्रत्यानां लताऽऽदीनां निबिडत्वेन सुरतसाधनतौचित्यं द्योत्यते । वेतसीतरुतले वेतसी वेतसलता सैव (विशालतया लतान्तराश्रयतया च ) तरुरिति, वेतस्या ( वेष्टितः ) तरुरिति वा; तस्य तलं तत्र । यद्वा वेतसीनां तरवो वेतसीप्रधाना वृक्षास्तेषां तले तस्मिन्निति वा । सुरतव्यापारलीलाविधौ सुरतानां सुखेन रतानां रमणानां ( रतीनां ) व्यापार उद्यमस्तेन लीलाविधिर्लीलाया वेषविन्यासादेर्विधिः सम्पादनं तत्र तन्निमित्तमित्यर्थः । चेतश्चित्तम् । 'चित्तं तु चेतो हृदयं..' इत्यमरः । ' मदीय' मिति शेषः । समुत्कण्ठते सम्यङ् न तु हठात् मनाग्वोत्कण्ठते । अत्र रेवाकूले कृतकेले: स्वसौभगातिशयं मन्यमानाया असकृदुपभुक्तेष्वपि वरोपकरणादिषु तत्तत्सन्निहिततया पुनः संस्फुरन्त्याः समुत्कण्ठाया उचितत्वं सूचयन्त्याः कस्या अपि स्वाधीननायकाया नायिकाया उक्तिरियम् । पद्यमिदं च शार्ङ्गधरपद्धतिस्थम् । शार्दूलविक्रीडितं चास्य वृत्तम् । तल्लक्ष्म प्रागुक्तम् ॥ २ ॥ इति । एतत् । चिन्त्यं विचारणीयम् । किमिति चिन्त्यमित्याह - अत्रास्मिन्नुदाहृते 'यः कौमारहरः...' इति पद्य इति यावत् । विभावनाविशेषोक्तिमूलस्य विभावना विशेषोक्तिश्च वक्ष्यमाणलक्षणी अलङ्कारविशेषौ, ते एव मूलं यस्य तस्य, तयोर्वा मूलं मूलभूत इति तस्य । सन्देहसङ्करस्य सन्देह प्रधानस्य सङ्करालङ्कारस्येत्यर्थः । स्फुटत्वम् । तेन यत् प्रकाशकृद्भिरस्फुटालङ्कारतयोदाहृतं तत्सदोषतया विचारणीयमिति भावः ।
१९
6
इदमभिहितम्-तत्र तावत् ' कारणमन्तरेण कार्योत्पत्तिनिवेदनं विभावना' इति समुत्कण्ठायाः कारणं तत्तदुपभुक्तताया अभावः प्रियतमैर्वरादिभिर्वा विरहः । नहि नित्यं निषेव्यमाणाः पदार्थाः सरसा उपतिष्ठन्ते । अत एवोक्तं 'कामानामतिसेवया' । इति । प्रकृते तस्याभाव:, तथा सति च तस्याः काय्र्यरूपायाः समुत्कण्ठाया उत्पत्तिरिति विभावना । तथा 'कारणसत्त्वे कार्यानुत्पत्तिर्विशेषोक्तिरिति अनुत्कण्ठायाः कारणं तत्तदुपभुक्तत्वं, तत्सत्त्वे च तस्या अनुत्कण्ठाया उत्पत्त्यभाव इति विशेषोक्तिः । अनयोः पुनरुदाहृते पये केति सन्देहस्तन्मूलकश्चैवं सङ्करः स्पष्टः, तत्र बाधानुत्पत्तेः । यत्तूकं ‘यद्यपि विभावनाविशेषोक्ती तावत्सम्भवतः । तथाहि ... तथाऽपि नते स्फुटे कारणकार्यभावस्या - र्थिकस्य सत्त्वेऽपि तद्वाचकनजादिनाऽनुपात्तत्वात् । यदि चेतोऽनुत्कण्ठितं नेत्यभिधीयेत तदा विशेषोक्तेः स्फुटत्वं भवेदिति बोध्यम् । अनयोरस्फुटत्वेन तन्मूलकः सन्देहसङ्करोऽप्यस्फुट इति, निर्विवादम्' इति, 'विशेषोक्तिविभावने विद्यमाने अपि न स्फुटे । कथमिति चेत् ? इत्थम् - विशेषोक्तिस्तावत्कारणसत्त्वेऽपि कार्याभावकथनम् । अत्र चानुत्कण्ठाकारणं वरोपकारणयोरुपभुक्तता, तत्सत्त्वे यद्यप्यनुत्कण्ठाऽभाव उत्कण्ठारूपो निर्दिष्ट एव, तथाऽपि नानुत्कण्ठाऽभावत्वेन, किन्तूत्कण्ठात्वेनैव । तस्मादस्फुटत्वमस्याः । यदि 'चेतोऽनुत्कण्ठितं ने' त्यभिधीयेत तदा स्फुटत्वं भवेत् । एवं कारणाभावेऽपि कार्योत्पत्तिकथनं विभावना । अत्र चोत्कण्ठाकारणं वरोपकरणयोरतत्ता । तदभावश्च यद्यप्युक्त एव, तथाऽपि नातत्ताविरहत्वेन, किन्तु तत्तारूपेणैव । अभावाभावस्य तत्त्वात् । अतोऽस्या अस्फुटत्वमेव । न च 'स एवे' त्येवकारेणातत्त्वाभावप्रतीतेरतत्ताभावत्वेन प्रतीतौ कथमस्फुटत्वमिति वाच्यम् । विशेषणसङ्गतेनैवकारेण विशेष्ये विशेषणायोगस्य व्यवच्छेदो हि प्रत्याय्यते, नतु विशेषणाभावाभाव एवाहत्य, पर्यवसानं तु तत्रेत्यस्फुटत्यमेव । एवं विशेष्यसङ्गतेनाप्येवकारेण विशेष्यभिन्ने विशेषणाभाव एव नाहत्य प्रत्याय्यते, किन्तु विशेषणयोगाभाव इति द्रष्टव्यम् । अत एव 'शङ्खः पाण्डुर एवे' त्यादौ ' नापाण्डुरः ' 'पार्थ एव धनुर्धरः' इत्यादौ च 'नान्यो धनुर्धर' इत्यादिः कदाचित्स्फुटत्वार्थ प्रयुज्यते । दण्ड्याह- ‘त्वन्मुखं त्वन्मुखेनैव तुल्यं नान्येन केनचित् ।' इति । अन्यथा पुनरुक्तिस्तत्र स्यादिति । अनयोरस्फुटत्वे च सन्देहरूपसङ्करोऽप्यनयोरस्फुट इति विभावनीयम् ।' इति च । तत्सर्वमविचाररमणीयम् । तथाहि - ' यद्यपी' त्यर्थकतया प्रयुक्तं 'ही' ति, 'तथाऽपी' ति तु स्वार्थे प्रयुक्तं तदित्यनयोर्द्वयी विभावनाविशेषोक्त्योर्मूलभूते । नञाऽनुपात्तेऽपि निषेधे तयाऽस्य प्रत्यायितत्वात् । न चात्र नजा साक्षान्निषेधो युक्त:, तथा सति तयोरेकतराया एव सम्भवात्, विरुद्धलक्षणयोरेकत्रासम्भवाच्च । अत एव तत्सङ्करस्य सन्देहपूर्वकत्वमभिमतम् । यद्यपि - 'अहो अहोभिर्महिमा हिमागमेऽप्यभिप्रपेदे प्रति तां स्मरार्दिताम् । तपपूर्त्तावपि मेदसाम्भरा विभावरीभिर्बिभराम्बभूविरे ॥' इत्यादौ विशेषोक्तिविभावनयोरवगम इति वक्तुं शक्यते, तथाऽपि नैकत्रांशे । तस्मात् तयोर्यत्रैकत्र सम्भवस्तत्रेत्थमेवेति निःसंशयितम् । उच्