________________
२०
साहित्यदर्पणः ।
[ प्रथम:
एतेन 'अदोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् । रसान्वितं कविः कुर्वन्कीर्ति प्रीतिं च विन्दति । ' इत्यादीनामपि काव्यलक्षणत्वमपास्तम् । यच्च ध्वनिकारेणोक्तम्- ' काव्यस्यात्मा ध्वनिः ? इति, तत् किं ' वस्त्वलङ्काररसादिलक्षण त्रिविधो ध्वनिः काव्यस्यात्मा' उत 'रसादिमात्रः ' । नाद्यः प्रहेलिकाssदावतिव्याप्तेः, द्वितीयश्चेत् 'ओ' मिति ब्रूमः ।
"
वा । 'अत्र तात्पर्येण कारणकार्यासत्त्वासत्त्वे अधिगम्येते' इति, किं तेनापि कलञ्जभक्षणेन । तथा सति तयोर्व्यङ्ग्यत्वाचगमात्। व्यङ्ग्यत्वे च सहृदये तर विचारेणास्फुटत्वेऽपि कः सहृदयस्तयोरस्फुटत्वं वक्तुमुत्सहेत । यथा - 'तीरे तरुण्या वदनं सहासं, नीरे सरोजं च मिलद्विकासम् । आलोक्य धावत्युभयत्र मुग्धा मरन्दलुब्धाऽलिकिशोरमाला ॥' इत्यत्र व्यज्य मानः स्फुट: सन्देहस्तथा तत्रापि ते स्फुटे । नच व्यज्यमानमात्रत्वे स्फुटत्वाभाव इति सचेतसा केनापि वक्तुं शक्यते, तदा तत्स्फुटतायाः स्वसाक्षिकत्वात् । इति । यच्चोक्तम्- "अत्र हि 'हरो, वरः' इत्याद्यनुप्रासस्य स्फुरस्यापि प्रकृतशृङ्गारप्रतिकूलवर्णघटितत्वेन नालङ्कारता ।” इति, तदपि तथाभूतम् । 'रणौ लघू' इत्युक्तदिशा रेफानुप्रासस्य माधुर्यव्यञ्जकतया प्रतिकूलवर्णात्मकदोषासद्भावस्याक्षतमूर्तित्वात् । किन्तु - व्यङ्गथालङ्कारापेक्षया वाच्यालङ्कारस्येवैतदपेक्षया शब्दालङ्कारस्य न्यूनत्वमिति नात्र निर्देशो ऽस्येति विभावनीयम् ।
एवमन्येषामपि लक्षणान्यवज्ञेयानीत्याह - एतेनेत्यादिना ।
एतेन ‘प्रकाशकारोक्तकाव्यलक्षणनिराकरणेनेति' शेषः । 'अदोष दुःश्रवत्वादिदोषरहितम् । गुणवन्माधुर्य्यादि गुणशालि । अलङ्कारैरनुप्रासादिभिरुपमादिभिश्चेत्यर्थः । बहुवचनमतन्त्रम् । अलङ्कृतं पूर्णम् । रसान्वितं रसवत् । काव्यम् । कुर्वन् 'कवि' रिति शेषः । कीर्त्तिम् । च प्रीतिमामोदम् । विन्दति लभते ॥' इत्यादीनां काव्यलक्षणघटकतयाऽभिमतानां वाक्यानाम् । काव्यलक्षणत्वम् । 'नतु तेषां प्राशस्त्यं तादृशफलहेतुत्वं वे 'ति शेषः । अपास्तमपाकृतम् । इदमभिहितम् - सरसवाक्यत्वमेव काव्यत्वम्, निर्दोषतापुरस्कृतगुणालङ्कारशालिता तु तदुपादेयत्वकृते, गुणदोषालङ्काराणां हानाहानाभ्यां काव्यत्वलाभालाभासम्भवात् । एवं सरसवाक्यताया एव काव्यत्वेनाभिधानौचित्येऽपि भोजराजादीनां तथाऽभिधानं तत्प्राशस्त्यार्थम्, न तु तत्स्वरूपाभिधानार्थम् । एवं च 'अदोषा लक्षणवती सरीतिर्गुणभूषिता । सालङ्काररसानेकत्रृत्तिर्वाक् काव्यनामभाक् ॥' इत्याद्यपि तथाभूतम् । इति ।
अथ ध्वनिकारमतमालोचयति यच्चेत्यादिना ।
यत् । च । ध्वनिकारेण ध्वन्यालोक प्रणेत्राऽऽनन्दवर्धनाचार्येणेत्यर्थः । उक्तम् । 'काव्यस्य । ध्वनिः । आत्मा ।' इति । तत् ' कथन' मिति शेषः । किम् । 'वस्त्वलङ्काररसादिलक्षणः । त्रिविधः । ध्वनिः । काव्यस्य । आत्मा ।' ' इत्यात्मक' मिति शेषः । उताथवा 'आहो उताहो किमुत विकल्पे किं किमूत च' इत्यमरः । 'रसादिमात्रो रसादिरेव प्रमाणमस्यासाविति तथोक्तः । ' 'ध्वनिः काव्यस्यात्मा' इति शेषः । 'वे'ति पाठाधिक्यं तु समुच्चययोतनार्थम् । 'वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये ।' इति विश्वः । 'इती 'ति शेषः । तत्र - आद्यो वस्त्वलङ्काररसादिभेदात्रिविधो ध्वनिः काव्यस्यात्मेति पक्ष इत्यर्थः । न 'युक्त' इति शेषः । हेतुमाह-प्रहेलिकाss दौ व्यक्तीकृत्य कमप्यर्थ स्वरूपार्थस्य गोपनात् । यत्र बाह्यार्थसम्बन्धः कथ्यतेऽसौ प्रहेलिका ॥' इत्यादिनो दुर्विज्ञेयप्रश्नादौ । आदिपदेन बहिर्लापिकाsन्तर्लापिकाक्रियागुप्तादेर्ग्रहणम् । अतिव्याप्तेरतिप्रसङ्गात् -' तरुण्याऽऽ लिङ्गितः कण्ठे नितम्बस्थलमाश्रितः । गुरूणां सन्निधानेऽपि कः कूजति मुहुर्मुहुः ॥' इत्यादौ किञ्चिदपूर्णजलघटरूपस्य वस्तुनो ध्वन्यमानत्वेऽपि रसविकलतयाऽकाव्यत्वेऽपि काव्यत्वप्रसक्तेरिति यावत् । अथ द्वितीयो रसादिमात्रो ध्वनिः काव्यस्यात्मेति पक्ष इत्यर्थः । ' इती 'ति शेषः । चेत् । 'तही 'ति शेषः । 'ओं' स्वीकृत इत्यर्थः । 'ओमेवं परमम्मते' इत्यमरः । इति । ब्रूमः । अत्र बहुवचनेन निर्देश:, तेन च सर्वाभिमतवक्तृता द्योत्यते । अयंभावः - वस्त्वलङ्कारयोर्ध्वनौ न रसस्य ( चमत्कारस्य ) व्यभिचारित्वाभावः । अस्ति परं शृङ्गारादौ । अत एव शृङ्गारादे रसपदेन व्यपदेशः । तदिति नाभ्रान्ततया वस्तुव्यङ्गयादीनां काव्यात्मतयाऽभिमननं युक्तं, युक्तं पुना रसादि ( शृंगारादि ) ध्वनेः । तथासति रसादिध्वनिः काव्यस्यात्मेति वाच्यम्, अथ यदि वस्तुव्ययादेरपि रसत्वं रससत्वं वा क्वचित्प्रतीयेत, तर्हि तस्यापि काव्यात्मत्वम् । इति ।