________________
परिच्छेदः ]
ननु यदि रसादिमात्रो ध्वनिः काव्यस्यात्मा तदा
रुचिराख्यया व्याख्यया समेतः ।
२१
CL अता एत्थ णिमज्जइ मा पथिअ! रत्तिअंधिअ !
इत्यादौ वस्तुमात्रस्य व्यङ्ग्यत्वे कथं काव्यत्वव्यवहारः, इति चेत् ? अत्रापि रसाभासवत्तयैवेति ब्रूमः ।
एत्थ अहं दिअसए पलोएहि । सेजाए मह णिमज्जहिसिं ॥ ३ ॥ "
अभिहितं द्रढयितुमाशङ्कते - नन्वित्यादिना ।
ननु । यदि । रसादिमात्रो रसादिः प्रमाणमस्येति, मात्रा वा मात्रं वा यस्य यत्र वेति स इति तथोक्तः । 'प्रमाणे द्वयसज्दन्नञ्मात्रचः | ५|२| ३७ इति मात्रच् । 'मात्रा कर्णविभूषायां वित्ते माने परिच्छदे | अक्षरावयवे स्वल्पेली कात्न्यैऽवधारणे ॥' इति मेदिनी । ध्वनिः । काव्यस्य । आत्मा । इति स्वीक्रियते इति शेषः । तदा
'हे पथि ! पथिक । 'पथः ष्कन् ।' ५।१।७५ इति ष्कन् । अत्र पथिकोऽसीति नास्य देशस्याभिज्ञः सञ्चरणश्रमार्त्तश्चेति कुत्रापि पतिष्यसीति गृहस्य दविष्ठतया रमण्या च विरहिततया कियन्तं समयमारिरंससीति प्रत्यायनं द्योत्यते । एत्थात्रास्मिन् स्थाने इति भावः । अत्ता श्वश्रूः । 'माते' त्यन्ये । णिमज्जइ निमज्जति ज़रत्तरतया मृतप्रायानिपततीति यावत् । एतेन तस्यां स्वानुरागाभावः तस्यास्तथात्वे च यथेष्टं मया रमस्व, नात्र तत्प्रतिबन्धकता - भीतिलेश इति द्योत्यते । एत्थ अस्मिन् स्थाने । अहं तव नयनचकोरयोश्चमत्कार प्राणा प्रत्यक्षभूता । 'अवतिष्ठे' इति, 'निमज्जामी' ति वा शेषः । एवं च न मम योग्यतायां त्वया सन्देहः कर्तुं शक्यते इति, समुचितरमणविरहेण न शयने सौमनस्यमिति वा बुध्यतामिति, अहं च त्वया यत् संवदामि तेन तस्या वृद्धहतकाया बधिरत्वान्धत्वासहृदयत्वानि समवबोध्यानीति च द्योत्यते । दिअसर दिवसके । अल्पः कुत्सितो वा दिवसस्तत्र । 'अल्पे ।' ५।३।८५ इति 'कुत्सिते ।' ५।३।७४ इति वा कः । तदानीं सायंकालप्रायत्वेन दिवसस्याल्पता कुत्सितता वा । यद्यपि दिवसेऽपि नात्र रमणे प्रतिबन्धकता, तथाऽपि व्यतीत एवायमिति क्षणं प्रतीक्षणीयमिति द्योतयितुं दिवसस्यात्पत्वं, दिवसे रमणस्य निषिद्धतया तस्य कुत्सितत्वं निर्दिष्टम् । पलोएहि प्रलोकय याथार्थ्येनालोचस्वेति भावः । एतेन अन्यथा विहिते सकलं विपर्येष्यतीति द्योत्यते । है रत्तिअंधिअ ! रात्र्यन्धक । रात्रावन्धक इति तत्सम्बुद्धौ तथोक्त । 'सप्तमी शौण्डैः । ' २।१।४० इत्यत्र 'सप्तमी' ति योगविभागेन समासः । यद्वा सम्बन्धसामान्यविवक्षया ' षष्ठी । ' २।२१८ इत्यनेन 'रात्रेरन्धक' इति षष्ठीतत्पुरुषः । कुत्सितोऽन्ध इत्यन्धकः । एतेन - तव दूरागमनश्रमापेक्षया रात्र्यन्धकताsतिभयावहेति द्योत्यते । यद्वा-अन्ध इवेत्यन्धकः । 'इवे प्रतिकृतौ ।' ५।३।९६ इति कन् । एतेन पश्यन्नपि धूर्त्ततयाऽन्धतां प्रत्याययसीति प्रत्याय्यते । यद्वा काकायितचेष्टितेत्यर्थः । एतेन काकेनेव त्वया मम तालोपभोगः कर्तुमुचितइति द्योतितम् । मह मम न त्वस्माकमिति भावः । एतेन स्वात्मनोऽद्वितीयता द्योतिता । मा नैव सज्जाए शय्यायां पर्यङ्क इति यावत् । एतेन तवाभिलाषयैवैषा शय्या प्रसाधितेत्यवश्यं त्वयाऽलङ्कर्त्तव्येति विपरीतलक्षणया द्योत्यते । णिमज्जहिसि निमक्ष्यसि मृत इव जड इव विकल इव वा केवलं निपतिष्यसीति भावः । एतेन - अत्र रमणमात्रार्थः सङ्गो नौ, न तु वस्तुतया श्रमाद्यपनोदनार्थ इति द्योत्यते । एवं च - अत्र विरामाय वासं प्रार्थयमानं कमपि कमनीयं कामुकं युवानं प्रति कस्या अपि पतिविरहिततया चिरादुत्कण्ठितस्वोपभोगाया यौवनभराक्रान्ततयोन्मत्तमदनायाः स्वयंदूत्या उक्तिरियमिति योत्यते ॥ अत्र गाथा वृत्तम् । तदुक्तं पिङ्गलाचाय्यैः - 'पढमं वारह मत्ता वीए अट्ठारहेहि संजुत्ता । जह पढमं तह तीअं पंचदह विहूसिआगाह ॥ ३ ॥' इति । इत्यादौ । वस्तुमात्रस्य । 'वक्तृबोद्धव्ययोर्वैशिष्टया' दिति शेषः । व्यङ्ग्यत्वे 'इह गृहे श्वद्वितीया sहं, श्वश्रूश्व मृतप्रायेति बाढं मया विहर, अपगमय निखिलामरति ' मित्यात्मना प्रतीयमानत्वे इति भावः । कथम् । काव्यत्वव्यवहारः । इति । चेत् । 'तहीं' ति शेषः । अत्र । अपि । रसाभासवत्तया रसस्य शृङ्गारस्याभास उपपत्तिविषयकतयाऽनुचितत्वात्मना प्रतीतिः सोऽस्मिन्नस्तीति तस्य भावस्तत्ता तया, यद्वा रसस्य चमत्कारस्याभासः किञ्चित्स्फुरणं तद्वत्तयेत्यर्थः । एव ।' इतीत्येवम । ब्रूमः ।
१ ' श्वश्रूत्र निमज्जति अत्राहं दिवसके प्रलोकय । मा पथिक ! रात्र्यन्धक ! शय्यायाम्मम निमङ्क्ष्यसि ॥ ३ ॥ इति संस्कृतम् । २ ' प्रथमं द्वादशमात्रा द्वितीयेऽष्टादशसंयुक्ताः । यथा प्रथमं तथा तृतीयं पञ्चदशविभूषिता गाथा ॥' इति संस्कृतम् ।