________________
२
साहित्यदर्पणः ।
[प्रथमःअन्यथा 'देवदत्तो ग्राम यातीति वाक्ये तभृत्यस्य तदनुसरणरूपव्यङ्ग्यावगतेरपि काव्यत्वं स्यात् 'अस्त्विति चेत् , न; रसवत एव काव्यत्वाङ्गीकारात् । काव्यस्य प्रयोजनं हि 'रसास्वादसुखपिण्डदानद्वारा वेदशास्त्रादिविमुखानां सुकुमारमतीनां राजपुत्रादीनां विनेयानां रामादिवत् प्रवर्तितव्यम्, न रावणादिव' दित्यादिकृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेश इति चिरन्तनैरप्युक्तत्वात् । तथा चाग्नेयपुराणे प्रोक्तम्-'वाग्वैदग्ध्यप्रधानेऽपि रस एवात्र जीवितम् ।' इति, व्यक्तिवि
ककारेण चोक्तम्-'काव्यस्यात्मनि सहिनि रसादिरूपे च न कस्यचिद्धिमतिः ।' इति, ध्वनिकारेणाप्युक्तम्-'न हि कवेरितिवृत्तमात्रनिर्वाहेणात्मपदलाभः, इतिहासादेरेव तत्सिद्धः ।' इत्यादि।
एतदेव द्रढयति-अन्यथा रसविकलत्वेऽपि वस्तुमात्राभिव्यक्त्या काव्यत्वस्वीकारेण । 'देवदत्तस्तदभिधेयः कस्यचित्स्वामीत्यर्थः । ग्रामम् । याति।' इति वाक्ये । 'श्रुते' इति शेषः । तद्भत्यस्य तस्य देवदत्तस्य भृत्यः किङ्करस्तस्य । तदनुसरणरूपव्ययावगतेस्तस्य देवदत्तस्यानुसरणमनुगमनं तद्रूपं यद् व्यङ्गथं तस्यावगतिर्ज्ञानं तस्याः । । अपि । काव्यत्वम् । स्यात् । अथ-अस्तु 'काव्यत्वव्यवहार' इति शेषः । इतीत्येवम् । चेत् । न तर्हि स्वीक्रियता'मिति शेषः । हेतुमाह--रसवतः शृङ्गारादिशालिनश्चमत्कारयुक्तस्येति वा । एव । काव्यत्वाङ्गीकारात् । तदेवोपपादयति-हि यतः। काव्यस्य लक्षणया काव्याध्ययनादेरित्यर्थः । प्रयोजनम् । 'रसास्वादसुखपिण्डदानद्वारा रसस्य चमत्कारस्य शृङ्गारादेवाऽऽस्वादः प्रसादहेतुकोऽनुभवस्तेन यत्सुखं तस्य पिण्डो घनीभूत इवावस्थितः पुञ्जस्तस्य दानं तदेव द्वारुपायस्तया । वेदशास्त्रादिविमुखानां वेदशास्त्रादिभ्यो विमुखाः पराङ्मुखाः लक्षणया तेषामध्ययनाध्यापनाभ्यां निवृत्तरुचयस्तेषाम् । सुकुमारमतीनां मृदुज्ञानानाम् । अत एव- विनेयानां शिक्षणीयानाम् । राजपुत्रादीनाम् । रामादिवत् । प्रवर्तितव्यम् । रावणादिवत् । न । 'प्रवर्तितव्य'मिति शेषः। 'इत्यादिकृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेशः।' इतीत्येवम् । चिरन्तनैः । अपि न त्वर्वाचीनैरेवेति भावः । उक्तत्वात् । अयं भावः-'स्वादुकाव्यरसोन्मिश्रं वाक्यार्थमुपभुञ्जते । प्रथमालीढमधवः पिबन्ति कटुभेषजम् ॥' 'रसास्वादप्रलोभेन प्रवृत्ता मृदुबुद्धयः । साहित्यशास्त्रमासेव्य जायन्ते कृतिनः खलु ॥' इत्याद्यभिहितदिशा रसास्वादेन स्वाभिमुखीकृत्य कर्तव्ये कर्मणि प्रवर्तनमकर्तव्यतः पुनर्निवर्तनं काव्यस्य परं प्रयोजनम् । तथा च-यदि रसास्वाद एव न यतः, तस्य निप्रयोजनतया निस्तत्त्वमेवेति ।
एवं प्रयोजनबलेन काव्यस्य रस एवात्मेति दर्शयित्वाऽऽप्तसम्मत्याऽपि तदेव दर्शयति-तथा चेत्यादिना ।
तथा च। आग्नेयपुराणे। 'वाग्वैदग्ध्यप्रधाने वाचो वैदग्ध्यं यमकानुप्रासादिनिवेशेन वैलक्षण्यं तेन प्रधानं प्रधानभूतमिति तत्र अपि । अत्रास्मिन् काव्य इति यावत् । जीवितं जीवनभूत इत्यर्थः ।' इति प्रोक्तं 'भगवता व्यासेने ति शेषः । व्यक्तिविवेककारेण व्यक्तिविवेकस्तदाख्यो व्यक्तिमनुमानेऽन्तर्भावयितुं प्रणीतो प्रन्थस्तं करोतीति तेनेति तथोक्तेन । 'महिमभट्टेने'ति शेषः । च । 'काव्यस्य । सङ्गिनि प्रसङ्गशालिनि सहधर्मिणीति यावत् रसादिरूपे । 'रसादीन् शङ्गारादिरसतदाभासादीन् रूपयतीति तस्मिन्निति तथोक्ते। चमत्कार इति भावः । यद्वा-रसादयः शृङ्गारादितदाभासादयो रूपं यस्य तस्मिन्निति तथोक्ते । शृङ्गारादीनां चमत्कारेण द्वितीयत्वमिति तथोक्तम् । आत्मनि । अत्र विषये सप्तमी । कस्यचित् कस्यापि मतान्तरानुयायिन इत्यर्थः । विमतिविरुद्धा मतिः प्रतिपत्तिरिति तथोक्ता । न नैव ।' इति । उक्तम् । ध्वनिकारेण । अपि किं पुनरन्यरित्यर्थः । एतेन-वस्तुध्वन्यादेः काव्यात्मत्वाभिधानं विरुद्धमिति सूच्यते । 'हि यतः (कविना सरसताऽवश्यं सम्पाद्या) इतिवृत्तमात्रनिर्वाहेण । अत्र मात्रपदेन रसनिर्वाहव्यवच्छेदः । तथा च-नीरसेतिवृत्तनिर्वाहद्वारेति तात्पर्य्यम् । कवेः। आत्मपदलाभः । स्वरूपसत्तालाभः । न नैव । 'सम्भवती'ति शेषः । तथा च-येन कविः कविः स्यात्तस्य लाभः सरसतामात्राधानेन न तु-नानाकथासङ्घटनयेति निष्कृष्टम् । हेतुमाह-इतिहासादेरितिहासकिंवदन्त्यादिना । एव तत्सिद्धेस्तस्येतिवृत्तादिनिर्वाहस्य सिद्धिस्तस्याः ।' इत्यादि उक्तं तात्पर्येणेति शेषः । तथा च-'कविना प्रबन्धमुपनिबनता सर्वात्मना रसपरतन्त्रेण भवितव्यम्, तत्रेतिवृत्ते यदि रसाननुगुणां स्थितिं पश्येत् तां भवाऽपि स्वतन्त्रतया रसानुगुणं कथाऽन्तरमुत्पादयेत्, न हि कवेरितिवृत्तनिर्वहणेन किञ्चित्प्रयोजनम्, इतिहासादेव तत्सिद्धः।' इति ध्वनिकारेणोक्तमिति सिद्धम् । इदमभिहितम्-काव्यस्यात्मभूतो रसः, तं विना न तस्य स्वरूपसत्त्वमिति तद्वत्तयैव सर्वतोभावेनापेक्षणीयेति । अत एवाहुः'रसरीतिवीतवसना प्रियेव शुद्धाऽपि वाङ् मुदे सरसा । अरसा सालङ्कृतिरपि न रोचते शालभञ्जीव ॥' इति ।