________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । ननु तर्हि प्रबन्धान्तर्वर्तिनां केषाश्चिन्नीरसानां पधानां काव्यत्वं न स्यात्, इति चेत् न; रसवत्पद्यान्तर्गतनीरसपदानामिव पद्यरसेन, प्रवन्धरसेनैव तेषां रसवत्ताऽङ्गीकारात् । यस्तु नीरसेष्वपि गुणाभिव्यञ्जकवर्णसद्भावाददोषाभावादलङ्कारसद्भावाच काव्यव्यवहारः सरसादिमत्काव्यसाम्यागौण एव । यच्च वामनेनोक्तम्-रीतिरात्मा काव्यस्य इति, तन्नः रीतेः सङ्घटनाविशेषत्वात् , सङ्घटनाया अवयवसंस्थानरूपत्वात् आत्मनश्च तद्भिन्नत्वात् ।
अथोक्तमेवार्थ द्रढयितुमाशङ्योत्तरयति-नन्वित्यादिना ।
ननु तर्हि 'यदि रसनिर्वहणेनैव कवेः कवित्वं तदे' ति भावः । प्रबन्धान्तर्तिनाम् । केषाश्चित् । नीरसानाम् । पद्यानाम् । काव्यत्वम् । न नैव । स्यात् । इतीत्येवम् । चेत् । न किन्त्वस्ति काव्यत्वमि'ति शेषः । कुत इत्याह-पद्यरसेन पद्यस्य रसः समष्टयात्मना स्फुरंश्चमत्कारः शृङ्गाराद्यन्यतमो वाऽऽस्वादविशेषस्तेन । रसवत्पद्यान्तर्गतनीरसपदानां रसरूपात्मशालिनां पद्यानामन्तर्गतानि नीरसानि पदानि तेषाम् । ‘रसवत्ताऽङ्गीकार' इति शेषः । इव । प्रबन्धरसेन प्रबन्धस्य वेणीसंहारादेः रसः समष्टयात्मना चमत्कारो वा स्फुरन् शृङ्गारादि तेन । एव । न तु गुणाभिव्यञ्जकवर्णसद्भावादिनेत्यर्थः । तेषां नीरसानां पद्यानाम् । रसवत्ताऽङ्गीकारात् । 'गुणवृत्त्ये' ति शेषः ।
ननु नीरसेल्वपि केषुचित्प्रबन्धेषु रीत्यादिमहिना काव्यत्वं यद् व्यवह्रियते, तत्कथमित्याशङ्कामपनुदति यस्त्वित्यादिना ।
यः । तु पुनः । नीरसेषु । अपि । 'प्रबन्धेषु' इति शेषः । गुणाभिव्यञ्जकवर्णबद्भावाद् गुणाभिव्यञ्जकानां 'मूर्ध्नि वर्गान्त्यवर्णेन' इत्यादिना वक्ष्यमाणानां माधुर्य्यादिप्रत्यायकानां वर्णानां सद्भावात् । दोषाभावादःश्रवत्वादिशून्यत्वात् । अलङ्कारसद्भावात् । चरीतिसमर्थितत्वाचेत्यर्थः । काव्यव्यवहारः काव्यात्मना प्रसिद्धिरित्यर्थः । सः । रसादिमत्काव्यबन्धसाम्याद्रसादिः शृङ्गारादितदाभासादिरस्मिन्नस्तीति तादृशं यत् काव्यं तस्य बन्धसाम्यं सङ्घटनेन सदृशत्वं तस्मात् । गौणो गुणवृत्त्या समर्थितः । एव न तु साक्षात्प्राप्तः । इदमभिहितम्- 'चित्रितः कल्पितः परासुर्वा समुचिततया समुत्तम्भितात्मा पुरुषोऽय' मिति यथा व्यवह्रियते, तथा नीरसतया स्वरूपतोऽसदपि काव्यं गुणाभिव्यजकवर्णसद्भावादृष्टत्वविरहाद्रीतियोगादलङ्कारालङ्कृतत्वाद्वा तदेव 'काव्य' मिति व्यपदिश्यते । एतेन दत्तोत्तरं तत् यदुक्तं गङ्गाधरकारैः-'यत्तु-"रसवदेव काव्य" मिति साहित्यदर्पणे निर्णीतम्, तन्न ; वस्त्वलङ्कारप्रधानानां काव्यानामकाव्यत्वापत्तेः, न चेष्टापत्तिः, महाकविसम्प्रदायस्याकुलीभावप्रसङ्गात् । तथा च जलप्रवाहवेगनिपतनोत्पतनभ्रमणानि कविभिर्वर्णितानि, कपिबालादिविलसितानि च । नच तत्रापि यथा कथञ्चित्परम्परया रसस्पर्शोऽस्त्येवेति वाच्यम्, ईशरसस्पर्शस्य 'गौश्चलति, मृगो धावती'त्यादावतिप्रसंगत्वेनाप्रयोजकत्वात् , अर्थमात्रस्य विभावानुभावव्यभिचार्यन्यतमत्वात्' । इति । अन्यथा रसस्य चिदात्मनाऽङ्गीकारो मासङ्गमिष्ट । एवं च रसस्य तदभिहितनयेनापि आत्मव्यवहारसाम्ये वस्त्वलङ्कारध्वनिप्रधानानां काव्यत्वेनाभिमननं निर्जीवे जीव इति व्यवहारवत् । इति । एवं गुणादिना काव्यत्वं निराकृत्य रीत्याऽपि तन्निराकुरुते-यत्त्वित्यादिना ।
यत् । तु पुनः । 'रीतिः' विशिष्टा पदरचना रीति' रिति वक्ष्यमाणवरूपा पदसङ्घटनेति भावः । काव्यस्य । 'आत्मा' इति । वामनेन काव्यालङ्कारसूत्रवृत्तिनिर्मात्रेत्यर्थः । उक्तम् । तत् । न नैव 'सङ्गच्छत' इति शेषः । हेतुं दर्शयति- रीतेः । सङ्घटनाविशेषत्वात्सङ्घटनाविशेषरूपत्वात् । सङ्घटनायाः ‘पदानामि' ति शेषः । अवयवसंस्थानरूपत्वादवयवानामवयवभूतानां पदानां संस्थानं गुणोपकर्तृतयाऽवस्थितिं रूपयतीति तत्त्वात् । आत्मनः । च पुनः । तद्भिन्नत्वात् तस्या रीतेभिन्नो विलक्षणस्तस्य भावस्तत्त्वं तस्मात् । अयं भावः-शरीरस्यावयवितयाऽवयवानां स्थितिविशेषमहिना ऽऽस्तानाम स्वरूपसत्त्वम् , किन्तु यथा शरीरस्यावयवस्थितिविशेषमहिना स्वरूपसत्त्वेऽपि न तद्वत् आत्मनः स्वरूपसत्त्वमेतस्य तद्भिन्नत्वात् , तथा वाक्यस्य पदवत्तया पदानां निवेशमहिम्नाऽऽस्ता नाम स्वरूपसत्त्वम्, किन्तु न तद्वतः कस्यचिच्चमत्कारस्य, एतस्य रसमात्रस्वरूपतया तद्भिन्नत्वात् । इति ।