________________
२४
साहित्यदर्पणः।
[प्रथमः
यच्च ध्वनिकारेणोक्तम् - 'अर्थः सहृदयश्लाघ्यः काव्यात्मा यो व्यवस्थितः । वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ ।' इति अत्र वाच्यात्मत्वं काव्यस्यात्मा ध्वनिरिति स्ववचोविरोधादेवापास्तम् । अथ सिंहावलोकननयेन पुनरपि ध्वनिकारमतं विविनक्ति-यच्चेत्यादिना । ध्वनिकारेण । च । यत् । उक्तम् । 'तत्स्ववचो विरोधादेवापास्त'मिति शेषः । कथमित्याह--
'सहदयश्लाध्यः सहृदयाः काव्यभावनायां परिपक्कमतयस्तेषां श्लाघ्यः प्रसादोत्पादकतयाऽभिनन्दनीयः । अत एव-काव्यात्मा। 'सन्निति शेषः । यः। अर्थः । व्यवस्थितः प्रत्याख्यातुमशक्यतां प्राप्तः । तस्य तादृशस्यार्थस्येत्यर्थः । वाच्यप्रतीयमानाख्यौ वाच्यो वाचा प्रतिपाद्यः प्रतीयमानः प्रतीयते न तु वाचाऽभिधीयते इति, तथोक्तश्च तन्नामानावित्यर्थः । तौ। उभौ। द्विविधौ । अन्ये तु व्याचक्षते-'द्विवचनादेव द्वित्वे सिद्धे, उभौ उवन्महेश्वरवद्भा ययोस्तावित्यर्थः । 'उकारः शङ्करः प्रोक्तः।' इति कोशः । इति । भेदौ प्रकारौ । स्मृतौ 'मादशैराचार्य' रिति शेषः ॥' इति । अत्र । वाच्यात्मत्वं वाच्यस्यात्मत्वं काव्यात्मभूतत्वम् । 'प्रतिपादित'मिति शेषः । 'काव्यस्य । ध्वनिर्वाच्यलक्ष्यतात्पर्येभ्यो भिन्नः सन् केवलं यो ध्वन्यते तादृश इत्यर्थः । आत्मा।', इति च पूर्व प्रतिपादित'मिति शेषः । इतीत्येवम् । स्ववचोविरोधात् स्ववचसोः 'तस्य वाच्यप्रतीयमानाख्यौ भेदा विति वाच्यः काव्यस्यात्मेत्यात्मकस्य 'काव्यस्य ध्वनिरात्मेति' वाच्यातिरिक्तो व्यङ्ग्यः काव्यस्यात्मेत्यात्मकस्य चेति भावः, विरोधः परस्परम्वाध्यबाधकत्वं तस्मात् । एव । अपास्तं तिरोभूतमवज्ञातमिति यावत् । इदमभिहितम्-'काव्यस्यात्मा ध्वनिरिति प्रथममभिहितम्, ध्वनिश्च पदपदार्थयोर्गुणीभूतत्वे सति व्यञ्जनया केवलया संवेद्यं शब्दार्थयुगलम् । यदुक्तं प्रकाशकारैः'बुधैर्वैयाकरणैः प्रधानीभूतस्फोटरूपव्यङ्गव्यजकस्य शब्दस्य ध्वनिरिति व्यपदेशः, ततस्तन्मतानुसारिभिरन्यैरपि न्यग्भावितवाच्यव्यङ्गयव्यञ्जनक्षमस्य शब्दार्थयुगलस्य ।' इति, यथा वा प्रोक्तं ध्वनिकारैः- 'यश्चार्थः शब्दो वा समर्थमुपसर्जनीकृतवार्थों । व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥' इति । तस्य च वाच्यत्वं कालत्रितयेऽपि प्रमत्तोन्मत्तव्यतिरिक्तेन नाभिधातुं शक्यम् । नच काव्यात्मनो ध्वनित्वं वाच्यत्वं चति न ब्रूमः, किन्तु केवलं ध्वनित्वमिति वाच्यम् , 'यः काव्यात्मा तस्य भेदा' विति ग्रन्थास्वारस्यात् । अन्यथा 'काव्यविशेषः स ध्वनिः' इति ग्रन्थेन ध्वनेः काव्यभेदाङ्गीकरणमपि मा सङ्घटिष्ट । अतः-काव्यस्यात्मा ध्वनिरित्यभिधाय वाच्योऽपि काव्यात्मनो भेद इत्यभिधानं पूर्वापरालोचनयैव हतजीवितम् । यत्त्वनूदितं गुप्तदूतैः ‘शब्दार्थशरीरं तावत् काव्यम् , तत्र शरीरगुणादेव केनचिदात्मना तदनुप्राणकेन भाव्यमेव, तत्र शब्दस्तावच्छरीरभाग एव सन्निविशते सर्वजनसंवेद्यत्वात् स्थूलकृशादिवत् । अर्थः पुनः सकलजनसंवेद्यो न भवति, नत्वर्थमात्रेण काव्यव्यपदेशः, लौकिकवाक्येषु तदभावात् । तदाह सहृदयश्लाघ्य इति । स एक एवार्थो द्विशाखया विवेकिभिविभागबुद्धयाऽभियुज्यते । तथाहि तुल्येऽर्थरूपत्वे किमिति कस्मैचित् सहृदयः श्लाघते तद्भवितव्यं केनचिद्विशेषेण, यो विशेषः स प्रतीयमानविभागे विवेकिभिर्विशेषहेतुत्वादात्मेति व्यवस्थाप्यते । वाच्यसङ्कःलनाविमोहितहृदयैस्तु तत्पृथग्भावो विप्रतिपद्यते चार्वाकरिवात्मपृथग्भावः । अत एकार्थ इत्येकतयोपक्रम्य सहृदयश्लाघ्य इति विशेषणद्वारा हेतुमभिधायोद्धारणदशा तस्य द्वौ भेदावंशावित्युक्तम् । न तु 'द्वावथात्मानौ काव्यस्य ।' इति । तत् पराभूतम् , यो विभुनित्यो विश्वात्मा, तस्य द्वौ भेदौ जीवात्मेति परमात्मेति च, तत्राद्यः शरीररूपः, परः पुनरात्मखरूप इत्यभिधानवत्तस्यापि प्रमत्ताभिधानापत्तेः । यच्चोक्तं मुरारिदानेन- रमणीयशब्दकर्तरि कविशब्दो रूढः, तस्य पुनरिदं कर्मेति काव्यमिति समाख्याऽनुरूपमेव लक्षणं ज्यायः ।' इति, तन; तथाहि-रमणीयशब्दस्य कर्ता कविः, तस्य च कर्म सम्पाद्यो रमणीयः शब्द एवेति किं तत्र तावद्रमणीयशब्दत्वं, कविकर्मविषयता? किं वा कविकर्मविषयत्वं रमणीयशब्दता? उभयथाऽपि अन्योऽन्याश्रयादिदुष्टत्वात् । यच्चोक्तं केनापि-'तददोषौ..' इति प्रकाशोक्तमनुपहसनीयस्य काव्यस्य लक्षणम् ।' इति, तत्रेदं पृच्छयते-किनामानुपहसनीयत्वम् । उत्तमत्वम्मध्यमत्वमवरत्वं स्वरूपसत्त्वं वा ? न च तत् कथमपि युक्तम्, सामान्यरूपेण लक्षणे लक्षयितव्ये तथा विशेषाभिधानस्यानुचितत्वात् । अनुपहसनीयत्वं चोत्तमकाव्यलक्षणैकसम्भवीति प्रकृतार्थपराभूतम् । यच्चोक्तम्-'यत्तूक्तं रसगङ्गाधरकारैः-'काव्यपदप्रवृत्तिनिमित्तं शब्दार्थयोर्ध्यासक्तं, प्रत्येकपर्याप्तं वा नाद्यः, एको न द्वाविति व्यवहारस्येव श्लोकवाक्यं न काव्यमिति व्यवहारापत्तेः। न द्वितीयः