________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। तत् किंस्वरूपं काव्यमित्युच्यते-- ४ वाक्यं रसात्मकं काव्यम्, रसस्वरूपं निरूपयिष्यामः । रस एवात्मा स्वरूपतया जीवनाधायको यस्य, तेन विना तस्य काव्यत्वानङ्गीकारात् । 'रस्यते इति रस' इति व्युत्पत्तियोगाद्भावतदाभासादयोऽपि गृह्यन्ते ।
एकस्मिन् पद्ये काव्यद्वयव्यवहारापत्तेः ।...' इति । तत्रास्वादव्यजकत्वस्योभयत्राप्यविशेषाच्चमत्कारिबोधजनकज्ञान विषयताऽवच्छेदकधर्मवत्त्वरूपस्यानुपहसनीयकाव्यलक्षणस्य प्रकाशादिनिरूपितलक्ष्यताऽवच्छेदकस्योभयवृत्तित्वाच 'काव्य पठितं, काव्यं श्रुतं, काव्यं बुद्ध 'मित्युभयविधव्यवहारदर्शनाच काव्यपदप्रवृत्तिनिमित्तं व्यासज्यवृत्ति । लक्षणयाऽन्यतरस्मिन्नपि तत्त्वात्-‘एको न द्वा' वितिवन्न तदापत्तिः' इति । तदाग्रहमात्रावष्टम्भं, नहि प्रकाशकारादिभिः-'आखादव्यञ्जकता नाम काव्यत्वं, तच्च शब्देऽर्थे च विशिष्ट' मित्युक्तं क्वापि । नच दोषाभावादेरन्यथाऽनुपपत्त्याऽनुमीयतामित्यपि वाच्यम् , तदेकैकसद्भावे आस्वादव्यञ्जकताया उपपत्त्यसम्भवात् , तत्कात्य॑सम्भवे च काव्यसामान्यलक्षणस्याव्यात्यतिव्याप्तिग्रस्तत्वात् । इति दिक् ।
अथ काव्यलक्षणमभिधातुमवतरणिकामाधत्ते-तदित्यादिना ।
तत्तर्हि यद्येवं प्रायः प्राचां सर्वाण्येव लक्षणानि दुष्टानि तदेति यावत् । किस्वरूपं किंस्वरूपं लक्षणं यस्य तत्तथोक्तम् । स्वं लक्ष्यपदार्थोऽसाधारणचिह्न वेतरभेदकतया रूप्यते लक्ष्यते ज्ञाप्यत इति यावत् अनेनेति स्वरूपम् । काव्यं कवेरिदं कर्मेति, कवेः कर्मविशेषेण सम्पाद्यमित्यर्थः । 'गुणवचनब्राह्मणादिभ्यः कर्मणि च ।' ५।१।१२४ इति ध्यञ् । 'स्या'दिति शेषः । इतीत्यपेक्षायाम् । उच्यते ४ वाक्यमित्यादिना ।
४ रसात्मकं रस आस्वादविशेषः शृङ्गारादिरिति यावदात्मा यस्य तत् तथोक्तम् । वाक्यं पदोच्चयधिशेषः । काव्यम् । इदमभिहितम्-'रसो वै सः, रसं ह्येवायं लब्ध्वाऽऽनन्दीभवती'त्यादिश्रुत्युक्तनयेन रस एवात्मा, स च 'रस्यते आस्वाद्यते'इति समाख्याऽनुरोधेनानुभवैकविषयः शृङ्गारादिव्यपदेश्यश्चमत्कारविशेषः । असौ च काव्यस्य शरीरिभूते जीवनाधारः । शरीरं चैतस्य वाक्यम् , तस्मात्-काव्यस्य वाक्यरूपे रसव्यपदेशश्चमत्काररूप आत्माऽधिगम्यते, अतोऽनेन प्राणितं वाक्यमेव काव्यम् । यथा-प्राणिनः प्राणित्वावस्थायां शरीरस्य च चेतनस्यात्मनश्चाधिगमोऽपेक्ष्यते, तथा काव्यस्य काव्यत्वावस्थायां वाक्यस्य च चमत्कारस्य रसात्मनश्च समधिगमोऽपीति नितरां विभाव्यम् । शरीरमन्तराऽऽत्मेव वाक्यमन्तरा न रसश्चमत्कुरुते, तदिति वाक्यशरीरो रसः, एतस्य च तस्मिन् वाक्यरूपे शरीर एव गुणा दोषा रीतयोऽलङ्काराश्च, अथापि शरीरात्मनोरिव वाक्यरसयोरभेदाध्यवसायेन चेतनात्मनीव चमत्कारात्मनि तेऽस्मिन् कल्प्यंते। आनन्दात्मनोऽपि चेतनस्य शरीरित्वदशायामिव अलौकिकाहादात्मनोऽप्यस्य चमत्कारमात्रस्वरूपस्य रसस्य काव्यत्वदशायामुत्तमत्वादिभेदाध्यवसायः । इति ।
अथ 'रसात्मक'मिति पदाथ विवृणोति-रसस्वरूपमित्यादिना ।
रसस्वरूपं रसस्वरूपमसाधारणं रूपमिति, तत्तथोक्तम् । निरूपयिष्यामो निरूप्य दर्शयिष्याम इति भावः । 'तृतीये परिच्छेद' इति शेषः। अत्र बहुत्वेन निर्देशो निरूपिष्यमाणस्य सर्वानुकूल्येन निरूपणीयतां द्योतयितुमिति बोध्यम्। एवंच-रसो निरूपिष्यमाणस्वरूपो लोकोत्तरचमत्कार इति यावत् । एव न तु वस्त्वलङ्कारमात्रध्वनिरित्यर्थः । यदाहुस्तर्कवागीशाः-‘एवकारेण ध्वनिकारायुक्तस्त्र वाच्यार्थस्य वस्त्वलङ्कारमात्रव्यङ्गयस्य च व्यक्च्छेदः ।' इति । अत्र मात्रपदेन रसव्यवच्छेदः । तथा च-वस्त्वलकारध्वनिप्राधान्येऽपि यत्र रसश्चमत्कुरुते तत्र न काव्यत्वव्याघात इति ध्वन्यते । आत्मा (एतत्पदाथै लक्षयति-)। स्वरूपतया स्वरूपभूतत्वेनेति भावः। 'सारतये'ति पाठान्तरम् । 'आनन्दसान्द्रत्वेन श्रेष्ठस्वभावतयेति विकृतिकाराः। जीवनाधायको जीवनस्य सत्तायाः ‘उपादेयताया' इति विवृतिकाराः । आधायकः स्थापयिता 'प्रयोजक' इति विवृतिकाराः । (इति)। यस्य । 'तद्रसात्मकं वाक्यं काव्य' मिति शेषः। कुत इत्याह-तेन रसेनेत्यर्थः । चिना । तस्य वाक्यस्येत्यर्थः । काव्यत्वानीकारात्। 'काव्यत्वाभावस्य प्रतिपादितत्वा' दिति पाठान्तरम् । ननु