________________
साहित्यदर्पणः।
[प्रथमः
तत्र रसो यथा
“शून्यं वासगृहं विलोक्य शयनादुत्थाय किश्चिच्छनै
निंद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । 'उदितं विधुमण्डलम्', 'अस्तमितस्तपनः' इत्यादौ दूत्यभिसारिकाऽऽद्युक्ते 'अभिसरणीयः सम्प्रति वल्लभ' इत्यादेः काव्यस्याकाव्यत्वमेव तर्हि स्यादिति का गतिरित्याह-रस्यते । 'रस' आस्वादनस्नेहनयोः । आस्वाद्यते विभावादिनोद्भयाहादानुभवात्मना परिणमत इत्यर्थः । अन्ये त्वाः-'विभावादिसाचिव्येनाहादात्मना परिणममानोऽनुभूयते सहृदयैरसावित्यर्थः ।' इति । 'सार्वधातुके यक् ।' ३.११६७ इति भावे कर्मणि वा यक् । इतीत्येवम् । रसः । 'भावे ।' ३।३।१८ इति घञ् । 'एरचू' ३।३।५६ इत्यच् वा । इति व्युत्पत्तियोगात् । भावतदाभासादयः । आदिपदं सन्ध्यादिग्राहकम् । अपि । गृह्यन्ते । 'एतेषामप्यास्वादविषयत्वस्य अखण्डितत्वादि' ति शेषः । एतेन 'उदितं विधुमण्डलम्' इत्यादौ दूत्याद्युक्ते वल्लभसमागमावसरलाभेन मध्येसपत्नि प्रसीदन्त्या नायिकाया हर्षगोपनायावहित्थाऽभिधेयस्य भावरूपस्य रसस्य योगादस्ति काव्यत्वम्, 'गौश्चलती' त्यादौ पुनर्नेति सूचितम् । नहि तत्रोभयत्र रससादृश्यं सचेतसाऽङ्गीकर्तुं शक्यते, यदि वाऽङ्गीक्रियेत, तर्हि काव्यत्वमप्यस्त्येव, तत्को नाम वारयितुमीशीत । सर्वेषामप्यैकमत्येन रसस्यैवात्मताऽङ्गीकृतत्वात् । तन्निर्गतमपानमार्गेण द्विवेदिनां खण्डनोद्योगसाफल्यम् । इति दिक् । अत्राहुस्तर्कवागीशा:"अनन्यक्कारोह्ययमेव..' इत्यादौ विधेयाविमर्शदोषदुष्टतयोद्देश्यविधेयभावबोधकानुपूर्वीविरहेणाकाङ्क्षाविरहाद्वाक्यस्यैवाभावः। काव्यज्ञानं विना रसपदार्थस्य दुर्निरूप्यत्वादन्योऽन्याश्रयः । रसघटकविभावादीनां काव्यघटितत्वात् । इति दूषणद्वयं कश्चित्पण्डितम्मन्यः उपन्यस्यति, तदतीव मन्दम् । आनुपूर्वीविशेषरूपाया आकाक्षाया विरहेऽपि श्रोत्रजिज्ञासारूपायास्तस्या विद्यमानत्वाद्वाक्यत्वाक्षतेः । तादृशाकाक्षाया एव काव्यघटकत्वेन ग्रन्थकृतैवाङ्गीकारात् । यद्वा-सङ्कीर्तनत्वगर्भितत्वदोषदुष्टयो: पदसमुदाययोरासत्तिकल्पनेन वाक्यत्वं कल्प्यते, अन्यथा काव्यदोषत्वमेव न स्यात् । तथाऽत्रापि कल्पितानुपूर्वीयोगादस्य वाक्यत्वाङ्गीकारादखण्डास्वादविशेष विषयत्वरूपस्य भावादिसाधारणस्य ग्रन्थकृतैव निरुक्तत्वाच । अखण्डास्वादविशेषत्वं चानन्दसंवलितज्ञानविषयत्वमेवात्र भावादिसाधारणं वाच्यम् । नच 'ब्राह्मण ! पुत्रस्ते जातः' इत्यादिवाक्ये आनन्दसंवलितज्ञानजनकेऽतिव्याप्तिस्तद्वारणाय काव्यजन्यत्वं विशेषणमुपादेयं, तथा सति अन्योऽन्याश्रयदोष इति वाच्यम् । अत्र हि शाब्दबोधानन्तरमेवानन्दो जायते तयोः पौर्वापर्यक्रमस्थितोऽपि काललाघवादुत्पलपत्रशतव्यतिरेकवत् स न गृह्यते । काव्ये तु शाब्दबोधानन्तरमलौकिकस्वादनाख्यव्यापारादिबलादेकमेवानन्दसंवलितमलौकिकं ज्ञानम् । तदेवास्माभी रसपदेनोच्यत इति । आनन्दसंवलितत्वमिह तादात्म्यसम्बन्धेनानन्दविशिष्टत्वम्, न तु जनकतासम्बन्धन, विजातीय. योर्ज्ञानानन्दयोस्तादात्म्याङ्गीकारोऽलौकिके न दोष इति सर्वमवदातम् ।" इति ।
उदाहर्तुपक्रमते तत्रेत्यादिना । तत्र तेषु रसभावतदाभासादिषु काव्यात्मभूतेषु मध्य इत्यर्थः । रसः शृङ्गारादिव्यपदेश्य आहादविशेषः । यथा ।
"बालाऽप्रौढा कौतुकमात्रोत्सुकेति यावत् । वासगृहं रमणमन्दिरम् । 'भोगावासो वासगृह' मिति हारावली। छान्यं पारजनादिसञ्चारहीनम् । विलोक्य 'शयानवे' ति शेषः । अन्यथा पतिनिद्राभङ्गे समाधातुं न शक्नुयादिति भावः । एतेन कौतुकौचित्यमुद्बोधितम् । शयनाच्छय्यायाः । 'शयनं सुरते निद्राशय्ययोश्च नपुंसकम् ।' इति मेदिनी । किञ्चिन्न तु सर्वथा । अपरपार्श्वनेति भावः । शनैर्न तु झटिति। यथा वलयादिक्काणेन पार्श्वपरिवर्त्तनेन वा पतिर्न बुध्यतेति भावः । एतेन पत्युर्निद्राभङ्गभयं दर्शितम् । उत्थायोनम्येत्यर्थः । निद्राच्या निद्रायाः शयनस्य व्याजः कपटस्तदाचरणमिति यावत्, इति, तम् । निद्रव व्याज इति वा, तम् । व्याजेन निद्रेति वा, तम् । 'आहिताम्न्यादित्वात्परनिपातः । एतेन पत्युः प्रौढत्वं कौतुकाचरणदाक्षिण्यं च व्यज्यते। उपागतस्य । पत्युनं तु अन्यस्य दयितस्य । एतेनोपनायकानासक्तत्वं सूचितम् । मुखम् । सचिरं यावदबुद्धिसंचारस्तावदित्यर्थः । निर्वW निश्शेष वर्णयित्वा अयं जागर्ति न वेति संशयापनोदनपुरःसरम, नायं जागर्तीति निर्धायेति यावत् ।