________________
परिच्छेदः 1
. रुचिराख्यया व्याख्यया समेतः । विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली
... लज्जा नम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥४॥” इति । अत्र हि सम्भोगशृङ्गारः । भावो यथा महापात्रराघवानन्दसान्धिविग्रहिकाणाम्
“यस्यालीयत शल्कसीम्नि जलधिः पृष्ठे जगन्मण्डलंदंष्टायां धरणी नखे दितिसुताधीशः पदे रोदसी।
विश्रब्धं विश्रब्धा नितान्तमय शेते, न चायं ममेहितमवगन्तुं क्षमते' इति विश्वासङ्गता यथा भक्त्तथेति तथोक्तम् । क्रियाविशेषणतया क्लीबत्वम् । परिचुम्ब्य परितः कपोलयोर्नेत्रप्रान्तयोश्च सर्वतश्चुम्बित्वा । अत एव- जातपुलकां जाता उत्पन्नाः पुलका रोमोद्गमरूपा विकारा यत्र तां तथोक्ताम् । रोमाश्चितामित्यर्थः । 'पुलक: पुनः । रोमाञ्चकण्टको रोमविक्रिया रोमहर्षणम् ।' इति हैमः । एतेन पत्युराखादोद्रेको निद्राव्याजकारित्वं च द्योतिते । गण्डस्थली गण्डयोः कपोलयो रोमोद्गमक्षेत्रभूतया स्थली स्वतः सिद्धा मूमिरिति ताम् 'गण्डौ कपोला' वित्यमरः । 'अकृत्रिमा स्थली' इति कोशः । रोमोद्गमस्य सर्वाङ्गीणत्वेऽपि तत्रैव दर्शनादिदमुक्तम् । अत एव- स्थलीत्वेन निर्देशो निर्देशः । आलोक्य । लज्जा लज्जावती । लज्जतेऽसाविति तथोक्ता । पचादित्वादच् । अत एव- नम्रमुखी ननं मुखं लक्षणया मस्तकं यस्याः सेति तथोक्ता। 'अनेन सर्व ममेहितं बुद्धम् , न च मया किमपि कत्तं पारितम् , यत्र च प्रार्थनयाऽपि नाहं प्रावतिषि, तत्र खयं निद्राव्याजेन पराजिते' ति विनतमस्तकेति भावः । अत एव हसता । एतेनैतस्योहद्धरहस्यत्वं खाभिलषितार्थपूर्त्या कृतकार्य्यत्वं च बुध्यते । प्रियेण प्रेमपात्रेण पत्येति भावः एतेनोभयोमिथोऽनुरागिरवं दर्शितम् । चिरं सम्भोगस्वीकारावधि । चुम्बिता । अमरुशतकस्येद पद्यम्, अत्र शालविक्रीडितं वृत्तम् , तल्लक्षणं चोक्तं प्राक् ॥
उदाहरणं सङ्गमयति-अत्रहीत्यादिना ।
हि यतः । अत्रास्मिन्नुदाहृते पद्य इत्यर्थः । सम्भोगशृङ्गारोऽभिव्यज्यते । इदमुक्तम्-अत्र नायिकानायकौ परस्परमालम्बनं शून्यगृहवास उद्दीपनम् , चुम्बनमनुमावश्च लज्जाहासौ व्यभिचारिणी चेत्येषां-संयोगात् सहृदयहृदयनिष्ठा रतिः शृङ्गाररूपेणावतिष्ठते । इदमेवोत्तमं काव्यमित्यन्ये । इति ।
अथ भावस्य रसात्मकत्वेन काव्यत्वमुदाहरति-भाव इत्यादिना ।
महापात्रराघवानन्दसान्धिविग्रहिकाणां महापात्राणि प्रधानमन्त्रिणो ये राघवानन्दास्तेऽमी सान्धिवि. ग्रहिकास्तेषाम् । 'कृताविति शेषः । महान्ति (प्रधानभूताः) पात्राणि मन्त्रिण इति महापात्राणि । प्रधानमन्त्रिण इत्यर्थः । 'पात्रं तु भाजने योग्य पात्रं तीरद्वयान्तरे। पात्रं गादौ पणे च राजमन्त्रिणि चेष्यते ॥' इति विश्वः । राघवानन्दा राघवानन्दनामानश्च ते सान्धिविग्रहिकाः सन्धिविग्रहकर्माध्यक्षाः । सन्धिविग्रहौ प्रयोजनमेषामिति सान्धिविग्रहिकाः । 'प्रयोजनम् ।' ५।१।१०९ इति ढबू । यद्वा-सन्धिविग्रहौ रक्षन्तीति तथोक्ताः। सन्धेर्विधातारः परिपोषकाश्च विग्रहस्य शत्रन्विद्राव्य रक्षकास्तस्य वा प्रथमत एव निवर्तका निवर्तनाय वा नियतकर्तव्या इति भावः । 'रक्षति ।' ४।४।३३ इति ढक् । भावो भावात्मा रस इत्यर्थः । यथा
'यस्य शल्कसीम्नि शलकस्य वल्कस्य मत्स्यत्वच इति यावत् सीमा पर्यन्तभागस्तत्रेति तथोक्ते । एवं च-यस्य मत्स्यस्य त्वचः प्रान्तभाग इति निष्कृष्टोऽर्थः । शल्कं तु शकले वल्के' इति मेदिनी। जलधिः समुद्रः । अलीयत तिरोहित इवाभूदिति भावः । यस्य पृष्ठे । जगन्मण्डलम् (क)। अलीयत । यस्य-भ्रष्टायाम् । धरणी पृथ्वी । अलीयत । यस्य-नखे न तु नखेषु । एतेनास्यात्यन्तं गभीरत्वमावेदितम् । दितिसुताधीशो दितिसुतानां दैत्यानां लक्षणया दानवानामप्यधीशोऽधिपतिरिति तथोक्तः । 'हिरण्यकशिपु'रिति भावः । अलीयत । यस्य-पदे : रोदसी द्यावापृथिवी । 'रोदश्च रोदसी चापि दिवि भूमौ पृथक् पृथक् । सहप्रयोगेऽप्यनयो रोदः स्यादपि रोदसी ।'