________________
२८
साहित्यदर्पणः ।
क्रोधे क्षत्रगणः शरे दशमुखः, पाणौ प्रलम्बासुरो, या विश्व, मसावधामिककुलं कस्मैचिदस्मै नमः ॥ ५ ॥ '
अहि भगवद्विषया रतिः । रसाभासो यथा --
'मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्त्तमानः । शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णशारः ॥ ६ ॥'
[ प्रथमः
इति विश्वः । अत्र वचनविपरिणामेन - 'अलीयाताम्' इति योज्यम् । यस्य - क्रोधे । क्षत्रगणः क्षत्रियकुलम् । अलीयत । यस्य - शरे वाणे तदग्र इति यावत् । दशमुखो रावणः । अलीयत । यस्य पाणौ पाणितले प्रहते इत्यर्थः । प्रलम्बासुरः प्रलम्बनामाऽसुर इत्यर्थः । अलीयत । यस्य ध्याने समाधावित्यर्थः । विश्वं समस्तं जगत् (क) । अलीयत । यस्य - असौ खड्ने नन्दकाख्ये करवाल इति यावत् । 'असिः खड्ने नदीभिदि ।' इति हैमः । 'प्रहते' इति शेषः । अधार्मिककुलमधार्मिकाणां परित्यक्तस्वधर्माणां धर्म्ममर्यादाया उच्छेदकानां वा कुलमिति तथोक्तम् ( कर्तृ ) । धर्मं चरत्यनुतिष्ठतीति यावत्, इति धार्मिकस्तद्विरुद्धोऽधार्मिकः । 'धर्म्म चरति । ४।४।४१ इति ठक् । अलीयत । कस्मैचिदनिर्वचनीयस्वरूपाय । ‘तस्मै' इति शेषः । अस्मै आत्मना विषयीक्रियमाणत्वेनेदमा निर्देश्यायात एव प्रत्यक्षभूतायेति भावः । नमः ॥ अत्र प्रतिसप्तम्यन्तं ' यस्ये 'तिषष्ठ्यन्तमनुयुज्यते, प्रतिकर्तृपद 'मलीयते 'ति क्रियापदं चेति बोध्यम् । एवं च 'मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः । रामो रामश्च रामश्च बुद्धः कल्कीति ते दश ॥' इत्युक्तानां दशावताराणां चरित्राणि क्रमतोऽत्र वर्णितानीति बोध्यम् शार्दूलविक्रीडितं वृत्तम्, तलक्षणं चोक्तं प्राक् ॥ ५ ॥ इति ।
अथोदाहरणीयमवगमयति-अत्रेत्यादिना ।
हि यतः । अत्रास्मिन्नुदाहृते पद्ये । भगवद्विषया भगवान् विषयो यस्याः सेति तथोक्ता । रतिर्भक्तिरूपा प्रीतिरित्यर्थः । इदमुक्तम् - भगवानालम्बनम् । तस्य च लोकोत्तर चारित्र्यमुद्दीपनम् तेन चं स्वात्मापकर्ष निवेदनमनुभावः, तदभिव्यङ्गयाः स्मृतिहर्षाद्याः सञ्चारिणो भावाश्च; तदिति प्रतीयमाना भगवद्विषया रतिः सहृदयानां चेतसि कमपि रसं ( चमत्कारम् ) भावयतीति भावपदव्यपदेश्याऽसौ काव्यत्वबीजम् । इदं च मध्यमकाव्योदाहरणमित्यन्ये । इति ।
अथ रसाभासमुदाहर्तुमुपक्रमते - रसाभास इत्यादिना ।
रसाभासो रसस्य चमत्कारविशेषस्याभास ईषत् प्रतीतिरिति तथोक्तः । यथा-
द्विरेफो द्वौ रेफौ वर्णविशेषौ यस्य स इति तथोक्तः । भ्रमरशब्द इत्यर्थः । लक्षणया तत्पदवाच्यः । अत एवाहुः । 'शब्दधर्मेणाप्यर्थस्य व्यपदेशो दृश्यते, यथा भ्रमरशब्दस्य द्विरेफत्वात्, द्विरेफो भ्रमरः । ' इति । 'द्विरेफपुष्प लिङ्टङ्गषट्पदभ्रमरालयः ।' इत्यमरः । स्वां स्वकीयामुपचारात्तामिवाभिमतामित्यर्थः । प्रियां प्रेमास्पदभूतां भ्रमरोमित्यर्थः । अनुवर्तमानोऽनुगतो भूत्वा चेष्टमान इति भावः । 'सन्नि ' ति शेषः कुसुमैकपात्रे कुसुममेवैकमभिन्नं पात्रं तत्रेति थो । मधु मकरन्दम् । ' मधु मधे पुष्परसे क्षौद्रेऽपीत्यमरः । पपौ पीतवांस्तत्पीतशेषमास्वादितवानिति भावः । कृष्णशारः कृष्णश्चासौ शारः शबलश्चेति तथोक्तः । ' वर्णो वर्णेन ।' २१६९ इति समासः । शबलोऽनेकवर्ण: । ' कृष्णसार' इति पाठे तु कृष्णेन कृष्णवर्णेन सारः श्रेष्ठ इति तथोक्तः । ' तृतीया तत्कृतार्थेन गुणवचनेन ।' २।१।३० इति समासः । 'शारः स्याच्छबले वाच्यलिङ्गः पुंसि समीरणे ।' इति । ' सारो बले स्थिरांशे च मञ्जि पुंसि जले धने । न्याय्ये क्लीबे त्रिषु वरे' इति च मेदिनी । 'कृष्णसा (शा) रः शिंशिपायां मृगभेदे 'नुहीतरौ ।' इति हैम: । च । स्पर्शनिमीलिताक्षीं स्पर्शेन स्पर्शजन्यसुखेन निमीलिते अक्षिणी यस्यास्तामिति तथोक्ताम् । मृगीम् । शृंगेण । अकण्डूयत घर्षितवान् । 'कण्डूञ्' गात्रविघर्षणे । 'कण्ड्डादिभ्यो यक् । ॥' ३।१।२७ इति यक् ॥ अत्र 'कुसुमैकपात्र' इति रूपकं, 'पपौ प्रिया' मित्यनुप्रासश्च । क्रियावाभाव्यात्स्वभावोक्तिश्च । इन्द्रवज्रोपेन्द्रवज्रयोरुपजातिश्छन्दः । तदुक्तं यथा 'अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ।' इति । इदं च पद्यं कुमारसम्भवस्थम् ॥ ६ ॥' इति ।