________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । अब सम्भोगशङ्गारस्य तिर्यग्गतत्वाद्रसाभासः । एवमन्यत । काव्ये पुनर्दोषाः किस्वरूपा इत्युच्यन्ते
५ दोषास्तस्यापकर्षकाः ।
श्रुतिदुष्टत्वापुष्टत्वादयः काणत्वखञ्जत्वादय इव शब्दार्थद्वारेण देहदारणेव, व्यभिचारिभावादेः स्वशब्दवाच्यत्वादयो मूर्खत्वादय इव साक्षात्काव्यस्यात्मभूतं रसमपकर्षयन्तः काव्यस्थापकर्षका इत्युच्यन्ते । एषां विशेषोदाहरणानि वक्ष्यामः। गुणादयः किंस्वरूपा इत्युच्यन्ते
अत्रोदाहरणीयमवगमयति-अत्रेत्यादिना।
अत्रास्मिन्नुदाहृते पद्य इत्यर्थः । सम्भोगशृङ्गारस्य भ्रम-लम्बनस्य प्रकरणावगतवसन्तसमयोद्दीपनस्य भ्रमर्य्यनुवर्तनाद्यनुभावस्य तदभिव्यङ्गयदैन्यसञ्चारिभावस्य, मृग्यालम्बनस्य च तत्सौन्दर्योद्दीपनस्य मृगीलालनानुभावस्य तदभिव्यङ्गदैन्यसञ्चारिभावस्य । तिर्यग्विषयत्वात् तिर्यग् द्विरेफः कृष्णसारो वा विषयो यस्य तस्य भावस्तत्त्वं तस्मात्तथोक्तात् । रसाभासो रसस्याभासो न्यग्भावितत्वेन स्फुरणमिति तथोक्तः । इदमुक्तम्-प्रकृते रसस्याभास इति काव्यात्मनो यथातथं सद्भावात् काव्यत्वमिति । इदं चावरं काव्यमित्यन्ये । अत्राय पव्लोक:-रसः काव्यस्यात्मा, असौ च 'रस्यत' इति व्युत्पत्तियोगात् सहृदयमात्रानुभाव्यश्चमत्कारापरपाय आस्वादविशेष आनन्दात्मा । शृङ्गाराद्याश्च नास्मादतिरिच्यन्ते, किन्तु-सुरनरपवाद्यात्मनामभिन्नत्वेऽपि तत्तच्छरीरोपाधिभेदाद् भिन्नत्वमिव शृङ्गारादिभेदाच्छृङ्गारादिरसानामभिन्नत्वेऽपि भिन्नत्वं कल्प्यते । तदिति स्फुटमेतस्योत्कृष्टत्वानुत्कृष्टत्वादि। अत एव- 'शून्य'' इत्युत्कृष्टम् , 'यस्या..'इति तन्न्यूनम्, 'मधु..' इति पुनस्ततोपि न्यूनं काव्यम् , तदात्मनस्तथैव भासमानत्वात् । 'मधु..' इत्यत्र न्यूनादपि न्यूनतया भासमानत्वेनैव भासमात्रत्वं कल्प्यते, न च स्वरूपान्वेषे। इति । एवं यथोदाहृतं तथा । अन्यत् । अपि 'उदाहरणान्तरं गवेषणीय' मिति शेषः । तत्र भावाभासो यथा मम 'मुग्धे! जयश्रियमुपेत्य रणाङ्गणेऽयं साकं तयैव विहरिष्यति हन्त तत्र । मैवं त्वदर्थमपहातुमसूनपीशे किं तैषिद्भिरुपभुक्तसुधां पुनस्ताम् ॥' इत्यत्र.वीरस्य दयितायामनुरागेण जयश्रियामप्यनुरागत्यागस्य कर्तव्यत्वं दर्शितं, तदित्यनौचित्यमावहदतेदाभासमात्रतां लक्षयति । इति दिक् ।
अथ दोषखरूपमभिधातुमपेक्षां दर्शयति-दोषा इत्यादिना ।
काव्ये । पुनः 'यदि वस्तुतोऽकिञ्चित्करास्तही 'ति भावः । दोषा वक्ष्यमाणनानाभेदा दुःश्रवत्वाद्या इत्यर्थः । किस्वरूपाः किंलक्षणाः । इतीत्यपेक्षायाम् । उच्यन्ते । ५दोषा इत्यादिना ।
५ तस्य निरुक्तस्वरूपस्य काव्यस्येत्यर्थः । अपकर्षका न्यूनत्वप्रत्यायका इति भावः । दोषाः। भवन्ती'ति शेषः। तदेव विवृणोति-श्रुतिदुष्टत्वापुष्टत्वादय इत्यादिना ।
श्रुतिदुष्टत्वापुष्टत्वादयः श्रुतिदुष्टत्वश्चापुष्टत्वश्चेति तौ आदी येषां ते तथोक्ताः । श्रुतौ दुष्टत्वं यस्मात्स श्रुतिदुष्टत्वः । न पुष्टत्वं यस्मात् (अर्थ) सोऽपुष्टत्वः । तथाच- श्रुतिदुष्टत्वादयः (दुःश्रवत्वादयः) शब्ददोषाः, अपुष्टत्वादयः (अपुष्टार्थत्वादयः) पुनर्दोषा इति निष्कृष्टम् । दोषा इति शेषः। काणत्ख ञ्जत्वादयः । इव । 'सन्तः' इति शेषः । शब्दार्थद्वारेण शब्दद्वाराऽर्थद्वारा चेति भावः । शब्दार्थावेव द्वारं तेनेति विग्रहः । देहदारण देहः स्थूलशरीरं तद्वारेति भावः । इव । तथा-व्यभिचारिभावादेर्व्यभिचारिभावादिसम्बन्धिन इत्यर्थः । स्वशब्दवाच्यत्वादयः स्वशब्देन वाच्यत्वं यत्रेति स आदिर्येषां ते तथोक्ताः । अत्र व्यधिकरणो बहुव्रीहिः । यद्वा स्वशब्देन वाच्यत्वमिति, तदाश्रित्य पुनः प्रवृत्तो दोष उपचारात्स्वशब्दवाच्यत्वमिति गीयते । 'दोषा' इति शेषः । मूर्खत्वादयः । इव । साक्षात् खसम्बन्धद्वारेणेति भावः । 'सूक्ष्मशरीरद्वारेणे' ति शेषः । काव्यम्य । आत्मभूतम् । रसम् । अपकर्षयन्तः 'सन्त' इति शेषः । काव्यस्य । अपकर्षकाः । इतीत्येवम् । उच्यन्ते । अथ-एषां दोषाणाम् । विशेषोदाह रणानि विशेषाणां भेदानामुदाहरणानोति तानि तथोक्तानि । वक्ष्यामः 'सप्तमे परिच्छेदे' इति शेषः ।
अथ गुणादीनभिधातुमपेक्षां दर्शयति-गुणादय इत्यादिना । गुणादयो गुणरीत्यलङ्कारा इत्यर्थः । किंस्वरूपाः किंलक्षणाः । इतीत्यपेक्षायाम् । उच्यन्ते