________________
३०
साहित्यदर्पणः ।
[ प्रथमः परिच्छेदः ]
६ उत्कर्ष हेतवः प्रोक्ता गुणालङ्काररीतयः ॥ ३॥
गुणाः शौर्यादिवत् अलङ्काराः कटककुण्डलादिवत्, रीतयोऽवयवसंस्थानविशेषवत्, देह, द्वारेणेव शब्दार्थद्वारेण तमेव काव्यस्यात्मभूतं रसमुत्कर्षयन्तः काव्यस्योत्कर्षका इत्युच्यन्ते । इह यद्यपि गुणानां रसधर्मत्वं, तथाऽपि गुणशब्दोऽत्र गुणाभिव्यञ्जकशब्दार्थयोरुपचर्यते । अत एव गुणाforestः शब्दा र खस्योत्कर्षका इत्युक्तं भवतीति प्रागेवोक्तम् । एषामपि विशेषोदाहरणानि
वक्ष्यामः ।
इति श्रीमन्नारायणचरणारविन्दमधुव्रतसाहित्यार्णव कर्णधारध्वनिप्रस्थापन परमाचाय्र्यकवि
सूक्तिरत्नाकराष्टादशभाषावारविलासिनीभुजङ्गसान्धिविग्रहिकमहापात्र-श्रीविश्वनाथकविराजकृतौ साहित्यदर्पणे काव्यस्वरूपनिरूपणो नाम प्रथमः परिच्छेदः ।
६ उत्कर्षहेतव इत्यादिना ।
६ गुणालङ्काररीतयः । 'अल्पाच्तरम्' २।२।३४ इत्यनेन रीतिशब्दस्य पूर्वनिपातस्तु नाशङ्क्यः । 'लक्षणहेत्वोः ।' ३।२।१२६ इत्यनेन तस्यानित्यत्वज्ञापितत्वात् उत्कर्षहेतव 'स्तस्येति शेषः । प्रोक्ताः । ' ताः स्यु' रिति पाठे तु ता उपादेयात्मना प्रसिद्धाः । ' इति 'गुणा' इति विशेषणत्वेन योज्यम् ॥ १३ ॥
तदेव विवृणोति - गुणा इत्यादिना ।
गुणा माधुर्यादयः । शौर्यादिवत् । अलङ्कारा अनुप्रासोपमादयः । कटककुण्डलादिवत् । रीतयो वैदर्भ्याद्याः। अवयवसंस्थानविशेषवदवयवानां संस्थानं सङ्घटनं तस्य विशेषश्चारुत्व प्रत्यायकः प्रकार इति तेन तुल्यमिति तद्वत् । देहद्वारेण । इव । शब्दार्थद्वारेण । तं प्रसिद्धम् । एव । काव्यस्य । आत्मभूतम् । रसम् । उत्कर्षयन्त उल्लसितं कुर्वन्तः । 'सन्त' इति शेषः । काव्यस्य । उत्कर्षका उत्कर्षहेतवः । इतीत्येवम् । उच्यन्ते । ननु गुणानामात्मभूतरसधर्म्मत्वे 'देहद्वारेणे' ति कथमुक्तमित्याह - इहेत्यादिना । इहास्मिन् साहित्यशास्त्रे । यद्यपि । गुणानां माधुर्य्यादीनाम् । रसधर्म्मत्वम् । 'उक्त' मिति शेषः । तथाऽपि । अत्रास्मिन्प्रकरणे । गुणशब्दः । गुणाभिग्यञ्जकशब्दार्थयोः गुणानां स्वेषामभिव्यञ्जकाविति तथाभूतौ यौ शब्दार्थों तयोस्तथोक्तयोः । उपचर्यते लक्षणया प्रवर्त्यते । अतः । एव । गुणाभिव्यञ्जकाः । शब्दा लक्षणया - अर्थाचेत्यर्थः । रसस्य काव्यात्मभूतस्य चमत्कारविशेषस्य । उत्कर्षकाः । 'भवन्ती' ति शेषः । इतीत्येवम् । उक्तं प्रतिपादितम् । भवति ।' इतीत्येतत् । प्राक् पूर्व प्रकाशोत्तलक्षणसमीक्षाऽवसर इति यावत् । एव । उक्तम् । “ ननु ' शब्दार्थौ सगुणा' वित्यनेन गुणाभिव्यञ्जको शब्दार्थों इत्यादिनेति शेषः । एषां गुणादीनाम् । अपि न केवलं दोषाणामिति भावः । विशेषोदाहरणानि विशेषाणां भेदानामुदाहरणानीति तानि तथोक्तानि । वक्ष्यामः । 'अष्टमे दशमे नवमे च क्रमात्परिच्छेदे' इति शेषः । यत्तूक्तं तर्कवागीशै: - 'ननु गुणाभिव्यञ्जकपदविन्यासस्य रीतित्वेन निरूपणीयतया रोतेरेतेनैव सङ्ग्रहे पृथक् तदुपादानमनर्थकमिति तदेतच्चिन्त्यम् ।' इति तदसत् रीतीनां रसधर्मत्वाभावाद्, गुणानां पुना रसधर्म्मत्वात्स्फुटं पार्थक्यात् ।
प्रकरणमुपसंहरति इतीत्यादिना ।
इति समाप्तः । श्रीमन्नारायण... इति । श्रीमानसौ नारायणस्तस्य चरणारविन्दे तयोर्मधुव्रत इव मधुव्रतः, साहित्यमेवार्णवस्तस्य कर्णधार इव कर्णधारः, ध्वनेः प्रस्थापनं तस्य परमाचार्य्यः, कवीनां सूक्तयस्ता एव रत्नानि तेषामाकर इवाकरः, अष्टादशभाषाः संस्कृतप्राकृताद्या अष्टादशसङ्ख्याका भाषास्ता एव वारविलासिन्यो वेश्यास्तासां भुजङ्गो सन्धिविग्रहयो रक्षक इति सान्धिविग्रहिकः, महापात्रं प्रधानमन्त्री, असौ श्रीविश्वनाथकविराजस्तस्य कृतिस्तत्रेति तथोक्तायाम्, तत्स्वरूपभूत इति भावः । साहित्यदर्पणे । काव्यस्वरूपनिरूपणः काव्यस्य स्वरूपनिरूपणं यत्र स इति तथाभूतः । नाम प्रसिद्धः । प्रथमः । परिच्छेदः । अभूदिति शेषः । शम् ।
जारः,
रसमयं सकलं कविवैभवं विविधभावविभावविभावितम् ।
झटिति चेतसि कस्य चमत्कृतिं न निवहेन्निवहेन सुधोदधेः ॥ १ ॥
इति श्रीभारद्वाजगोत्रप्रभूतेन सहृदय शिरोमणि श्रीशिवनाथसारसूनुना श्रीशिवदत्तकविरत्नेन विरचितायां रुचिराख्यायां साहित्यदर्पणव्याख्यायां प्रथमः परिच्छेदः ।