________________
[ द्वितीयः परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। द्वितीयः परिच्छेदः।
वाक्यस्वरूपमाह७ वाक्यं स्याद् योग्यताऽऽकाङ्क्षाऽऽ
सत्तियुक्तः पदोच्चयः । योग्यता पदार्थानां परस्परसम्बन्धे बाधाभावः, पदोच्चयस्यैतदभावेऽपि वाक्यत्वे 'वहिना सिश्चती'-त्यादिरपि वाक्यं स्यात् ।
समाश्लिष्टं शक्त्या, महितमुपचारेण महताम् , अभिव्यक्तं व्यक्त्या सहृदयजनानां दयितया । कवित्वस्याधानं स्वयमखिललोकस्य च रसं
चमत्कारस्यैकं पदमभिनुवे दिव्यपुरुषम् ॥ १॥ पूर्वपरिच्छेदे 'वाक्यं रसात्मकं काव्य' मित्यभिहितम्, तत्र किं नाम वाक्यं स्यादिति प्रकृतसिद्धयनुकूलचिन्ताविषयतारूपमुपोद्धातं सङ्गमयन् प्रकरणान्तरं निबभ्रंस्तस्यावतरणिकामाधत्ते वाक्ये त्यादिना।
वाक्यस्वरूप वाक्यस्य काव्यशरीरत्वेनाभिमतस्य स्वरूपं लक्षणमिति तत्तथोक्तम् । आह कथयति । तथा चकाव्यस्यात्मानात्मनोविभज्य प्रतिपादयितव्ये स्वरूपे तत्र तावदात्मस्वरूपस्य सूक्ष्मदृगेकदृश्यतया पुनदर्शनीयतां मन्वानोऽनात्मनः स्वरूपं-वाक्यं स्या दित्यादिना दर्शयतीति निष्कृष्टम् ।
७ योग्यताऽऽकाङ्क्षाऽऽसत्तियुक्तो योग्यता चाकाक्षा चासत्तिश्चेति, ताभिर्युक्त इति तथोक्तः । 'द्वन्द्वान्ते श्रयमाणं पदं प्रत्येकमभिसम्बध्यते' इति युक्तपदस्य प्रत्येकं सम्बन्धः । तथा च योग्यतायुक्त आकाक्षायुक्त आसत्तियुक्तश्वेत्यर्थः । पदोच्चयः पदानां वक्ष्यमाणस्वरूपाणां सुबन्तानां तिङन्तानां वा शब्दविशेषाणामुच्चयः समुच्चय इति तथोक्तः । 'सुपतिङन्तं पदम् ।' १।४।१४। अत्र बहुवचनमविवक्षितम् । तथा च-पदे च पदानि चेति पदानीवेकशेषः समासः । उच्चयन समुदायात्मनाऽवस्थानमुच्चयः । ‘एरच् ।' ३।३।५६ इत्यच् । वाक्यं तत्सझक इत्यर्थः । उच्यते इति वाक्यम् । 'ऋहलोय॑त् ।' ३।१।१२४ इति ण्यत् । 'चजो: कु घिण्यतोः ।' ७।३।५२ इति कुत्वम् । स्यात् । तथा च-योग्यताऽऽ. दियुक्तत्वे सति पदयोः पदानां वा समुदायात्मना वर्तमानत्वं वाक्यत्वमिति निष्कृष्टम् ।
ननु 'तिसुबन्तचयो वाक्यक्रिया वा कारकान्विता।' इत्यमरायुक्तदिशा योग्यताऽऽदिविरहितोऽपि पदोच्चयो वाक्यमित्येव वाच्यमिति चेन्नेत्यभिप्रायेण योग्यताऽऽदिपदार्थान् विवृण्वंस्तत्सापेक्षतां दर्शयति-योग्यतेत्यादिना।
पदार्थानां पदानामर्था इति तेषां तथोक्तानाम् । परस्परसम्बन्धे परस्परमन्योऽन्यमेकस्यापरेण साकमिति यावत् सम्बन्धोऽन्वय इति तस्मिस्तथोक्ते । 'हेतुभूत' इति शेषः । 'न तत्र करुणाहेतु' रितिवत्षष्टयर्थ सप्तमी। बाधाभावो बाधस्य विपरीतबोधस्याभावोऽनुदय इति तथोक्तः । 'योग्यता ज्ञेया'इति शेषः । एवं च--पदसम्बन्धिनामर्थानामन्वयबोधे हेतुभूतो यो बाधाभावस्तत्पदवाच्ये योग्यतापदार्थ इति फलितम् । प्रत्यक्षादिकारणीभूतबाधाभावस्य वारणाय भूतान्तविशेषणन्यासः । 'जलेन सिञ्चति, वह्निना दहती'त्यादिषु श्रोतणां सेचनदहनादिति जलवयादिकरणकत्वाभाववन्तीति विपरीतबोधरूपस्य बाधस्य स्वत एवाभाव इति स्फुट लक्षणसमन्वयः । योग्यता च प्रमारूपैव ग्राह्या । अन्यथा-तत्र तत्र भ्रमवतां श्रोतृणां जलेन सिञ्चति, वह्निना दहतीत्यादीनां सेचनदहनादीनि जलवल्यादिकरणकत्वाभाववन्तीति विपरीतबोधरूपस्य बाधस्य सर्वथाऽनपगम इति वाक्यत्वं माभूत् । ननु तादृशयोग्यतारूपायाः प्रमाया अप्रसिद्धिरिति तद्बाधस्याप्यप्रसिद्धिरित्येवं पुनस्तदभावस्याप्रसिद्धिरिति स्फुटं तस्याः शशविषाणवदलीकत्वमिति चेत् ? एवं व्याख्येयम्-पदार्थानां परस्परसम्बन्धे परस्परं यः सम्बन्धस्तत्र तन्निरूपण इति यावत् । वाधाभावःसद्भावः। योग्यता। तथा च-तात्पर्य्यविषयीभूतसम्बन्धेन तात्पर्यनिरूपकाणां पदार्थानां परस्परं यः सम्बन्धस्तनिरूपणे सद्भावो योग्यतापदार्थ इति निष्कृष्टम् । भवति हि पदार्थान्तरेण