________________
साहित्यदर्पणः ।
[ द्वितीय:
आकाङ्क्षा प्रतीतिपर्यवसानविरहः, स च श्रोतुर्जिज्ञासारूपः । निराकाङ्क्षस्य वाक्यत्वे'गौरवः पुरुषो हस्ती 'त्यादीनामपि वाक्यत्वं स्यात् । आसत्तिर्बुद्धयविच्छेदः, बुद्धिविच्छेदेऽपि वाक्यत्वे इदानीमुच्चारितस्य 'देवदत्त' पदस्य दिनान्तरे उच्चारितेन पदेन सङ्गतिः स्यात् ।
३२
पदार्थान्तरस्य सद्भावः, किन्त्वसौ तात्पर्य्यनिरूपकाणामेव पदार्थानाम् एषां च तात्पर्यनिरूपकत्वं तात्पर्यविषयीभूतेनैव सम्बन्धेनेति बोध्यम् । दहनादिषु विद्यमानस्य वह्न्यादिकरणकत्वस्य सेचनादिषु येन केनापि परम्परासम्बन्धेन सद्भावाङ्गीकारे 'वह्निना सिञ्चती' त्यादीनामपि वाक्यत्वं प्रसज्येत, तदिति तद्वारणाय 'तात्पर्यविषयीभूतसम्बन्धेने' त्युक्तम् । अस्ति च 'जलेन सिञ्चति, वह्निना दहती' त्यादिषु जलवह्न्यादिकरणकत्वस्य स्वरूपसम्वन्धेन सेचनदहनादिषु सद्भाव इति दिक् । अथास्याः सार्थकतामुद्भावयति एतदभावे एतस्या निरुक्तलक्षणाया योग्यताया अभाव इति तस्गिस्तथोक्ते । 'सती'ति शेषः । अपि । पदोच्चयस्य सुबन्ततिङन्तात्मकपदसमुदायमात्रस्येति भावः । वाक्यत्वे 'अङ्गीकृते सती 'ति शेषः । 'वह्निना द्वारा । सिञ्चति ।' इत्यादिः । ' पदोच्चय' इति शेषः । अपि । वाक्यम् । स्याद्भवेत् । 'वह्निना सिञ्चतीत्यादीनां पदानामाकाङ्क्षाssसत्तिमत्तया वाक्यत्वमुपपद्यमानमपि योग्यताशालिताविरहेण तिरोभूयत इति माभूदेषां वाक्यत्वमिति 'योग्यतायुक्त' इति विशेषणमिति निष्कृष्टम् । न चात्र कथमाकाङ्क्षेति शङ्कयम्, 'काय्यै
कारणमनुमीयते ' इति नियमात् ' वह्निना सिञ्चती' त्यादिषु सेचनरूपं कायै दृष्ट्ा कारणमनुमेयमित्याकाङ्क्षायाः सत्त्वात् । आकाङ्क्षापदार्थमाह-प्रतीतिपर्य्यवसानविरहः प्रतीतेः 'नैतावता पदार्थः पर्याप्त' इत्यात्मिकायाः प्रमायाः पर्यवसानं परितोऽवसानमन्वय बोधजनकत्वेनेच्छा विरहस्तस्य विरहोऽभाव इति तथोक्तः । आकाङ्क्षा । ' एतस्य पदस्यास्ति पदान्तरेण केनापि समं सम्बन्ध' इति पदान्तरस्य शुश्रूषाहेतुभूता बुद्धिः । आकाङ्क्ष्यते पदार्थान्वयावगमाय पदार्थान्तरमनयेत्याकाङ्क्षा । तथा च एकस्य पदार्थस्यापरेण पदार्थेन सममन्वयस्यावगमेच्छा यावता न पूर्खेत तावता तस्य जिज्ञासासद्भाव आकाङ्क्षापदार्थ इति फलितम् । अत एवाह स प्रतीतिपर्यवसानविरह इत्यर्थः । च । श्रोतुः श्रोतृजनस्य । जिज्ञासारूपो ज्ञातुमन्वयमवगन्तुमिच्छेति जिज्ञासा, सारूपं स्वरूपं यस्य स इति तथोक्तः । एतदुपयोगमाह - निराकाङ्क्षस्या ss काङ्क्षाशून्यस्य । ' पदोचयस्ये' ति शेषः । वाक्यत्वे 'अङ्गीकृते सती' ति शेषः । 'गौ, अश्वः पुरुषः, हस्ती' इत्यादीनां पदाना' मिति शेषः । अपि । वाक्यत्वम् । स्यात् । 'न चैतदस्ती' ति शेषः । तथाहि - 'गौः' इत्यादीनां प्रथमान्तत्वेन स्वं खमर्थमुपस्थापयमानानामभेदातिरिक्तसम्बन्धेनान्वयावगमो न व्युत्पन्न इति भवत्येवात्र तत्तत्पदार्थोपस्थितैरन्वय बोधजनने श्रोतुरिच्छाऽभावः अभेदातिरिक्तेन सम्बन्धेन पुनर्बांधसत्त्वेऽपि सत्त्वादिसम्बन्धेन बाधाभावात्मिका योग्यसाऽस्त्येवेति भाव्यम् । बुद्ध विच्छेदो बुद्धेः श्रुतपूर्वाणां पदानां स्मरणशक्तिरूपाया मतेर विच्छेदो विच्छेदाभावः कालादिनाऽव्यवधानमिति यावत् इति तथोक्तः । न विच्छेद इत्यविच्छेदः । आसत्तिरासदनं परस्परं पदार्थानां संसर्गविधयाऽवस्थानम् । 'स्त्रियां क्तिन् । ३ । ३ । ९४ इति क्तिन् । तथा च यत्पदार्थस्य यत्पदार्थेन समं सम्बन्धापेक्षा तेन तस्याव्यवहितः सम्बन्ध आसत्तिपदार्थ इति निष्कृष्टोऽर्थः । तदुपयोगमाह-बुद्धिविच्छेदे श्रुतपूर्वाणां पदानां स्मृतिध्वंस इति भावः । अपि । वाक्यत्वे 'अङ्गीकृते सती' ति शेषः । इदानीम् । उच्चारितस्य कथितस्य । 'देवदत्तः । इति पदस्य । दिनान्तरेऽन्यद् यावत्स्मृतिः, तावत्कालातिरिक्तात्मकं दिनमिति दिनान्तरं तत्रेति तथोक्ते । तथा च यदा श्रुतपूर्वाणां पदार्थानां स्मृतिध्वंसो जातस्तदेति निष्कृष्टोऽर्थः । उच्चारितेन कथितेन 'गच्छती' ति पदेन 'क्रियारूपेणे' ति शेषः । सङ्गतिरन्वयबोधविशेषः । स्यात् । 'न त्वसौ सम्भवती' ति शेषः । इदमुक्तम् - येन समं यस्य सम्बन्धः सङ्गच्छते तेन समं तस्य पदार्थस्य यावदुद्धिर्नोत्पद्येत तावद्वाक्यत्वं न स्यात् । यथा - 'मधु द्विरेफ' इत्येतावन्मात्रस्यांशस्य । अत्र हि - 'पपौ' इति श्रूयमाणे 'मधु द्विरेफ' इति श्रुतपूर्वयोरप्येतयोः स्मृतिध्वंसे परस्परमेषां सम्बन्धानुपपत्तेर्वाक्यत्वाभाव इति भावः । अतः - तादृशबुद्धिविच्छेदो नाम परस्परं सम्बन्धोचितानामपि पदानां विभिन्नकालीनतया बुद्धयन्तराभ्युदये तथाऽवधारणाभावः । 'गिरिजा वरदः, गिरिशो वरदा' इत्यादी 'गिरिजा वरदा, गिरिशो वरद' इति यावदभिन्नकालीनत्वं, न तावत्तथाऽवधारणं, तदभावे च स्फुटो वाक्यतासम्भवाभावः । अत एव 'गिरिजा वरदो, गिरिशो वरदा' इत्यादौ सङ्कीर्णत्वं दोषः । नच 'आसत्तियोग्यताऽऽकाङ्क्षातात्पर्य्यज्ञानमिष्यते । कारणं..' इत्यभिजनोक्त्या तात्पर्यज्ञानस्यापि शाब्दबोधं प्रति कारणत्वम्, अन्यथा 'सैन्धवमानय' इत्यादौ क्वचिलवणानयनं क्वचिदश्वानयनं नोपयुज्येत ।
T