________________
पारच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। अत्राकाङ्क्षायोग्यतयोरामार्थधर्मत्वेऽपि पदोञ्चयधर्मत्वमुपचारात् ।
८ वाक्योच्चयो महावाक्यम्'योग्यताऽऽकाङ्क्षाऽऽसत्ति'युक्त इत्येव ।
एवं सत्यसावपि योग्यताऽऽदिवद्वाक्यत्वं प्रति कारणमिति वाच्यम् । 'सैन्धवमानय' इत्यादौ पदार्थस्यानवच्छेदे विशेषस्मृतिहेतवः।' इत्युक्तदिशा संयोगादीनामेव विशेषस्मृतिहेतुत्वेनाभिमननात्, अन्यत्र सर्वत्रैव योग्यताऽऽदीनामेव शाब्दबोधं प्रति कारणत्वाच्च । नापि 'वृद्धा युवानः शिशवः कपोताः खले यथाऽमी युगपत्पतन्ति । तथैव सर्वे युगपत्पदार्थाः परस्परेणान्वयिनो भवन्ति॥' इति वाच्यम्। 'देवेन गच्छति मार्गा' इत्यादावपि खले कपोतिकान्यायेनान्वयोपपत्तेः। न वा 'यदयदाकाइक्षितं योग्यं सन्निधानं प्रपद्यते । तेन तेनान्वितः स्वार्थः पदैरेवाभिधीयते।' इति वाच्यम् । 'घटमानये' त्यादौ घटादिस्मृतिनाशेऽपि आनयादिस्मृतिकाले शाब्दबोधस्येव इदानीमुच्चारितस्य देवदत्त' इत्यादेर्दिनान्तर उच्चारितेन 'गच्छती' त्यादिनाऽन्वयबोधस्य सम्भवात् । इति । ननु आकाङ्क्षाया इच्छाऽनतिरिक्तत्वात् , योग्यताथाश्चैकस्मिन् पदार्थेऽपरपदार्थान्वयोपपत्तिरूपाया अर्थरूपत्वात् कथं पदोच्चयधर्मत्वं सङ्घटेत ? इति चेत्, अत्रास्मिन् पदोअयस्य योग्यताऽऽदिमत्तया वाक्यत्वप्रतिपादनावसर इत्यर्थः । आकाक्षायोग्यतयोराकाङ्क्षाया योग्यतायांश्चेत्यर्थः । अत्राकाङ्क्षापदमासत्तेरप्युपलक्षक, तथा च आकाङ्क्षाऽऽसत्त्योर्योग्यतायाश्चेति निष्कृष्टम् । 'क्रमा' दिति शेषः । आत्मार्थधर्मत्वे आत्मा (जीवश्चित्तं बुद्धिर्वा) चार्थश्चेति तयोर्धम्मौ स्वभावौ तयोर्भावस्तत्त्वं तस्मिस्तथोक्ते । आत्मधर्मत्वेऽर्थधर्मत्वे च सतीति भावः । 'आत्मा कलेवरे यत्ने स्वभावे परमात्मनि । चित्ते धृतौ च बुद्धौ च परब्यावर्त्तनेऽपि च ॥' इति धरणिः । 'धर्मोऽस्त्री पुण्य आचारे स्वभावोपमयोः ऋतौ ।' इति विश्व: । अपि । उपचारादुपचर्यतेऽन्यपरत्वं प्रति नीयतेऽर्थोऽनेनेत्युपचारो लक्षणया शक्यार्थपरित्यागेनान्यार्थपरत्वकल्पनं तस्मात् तथोक्तात् । 'उपचारो लक्षणा' इत्यन्ये । 'उपचारात्खजन्यजनकत्वरूपपरम्परासम्बन्धात्, खाश्रयोपस्थापकत्वाच्च । एकपदार्थीयापरपदार्थसद्भावरूपयोग्यतायास्तु पदार्थधर्मत्वेऽपि खाश्रयोपस्थापकत्वसम्बन्धन पदोच्चयधर्मत्वमेवावगन्तव्यं, निरुक्तासत्तेरध्यात्मधर्मत्वात् । तत्राप्येषैव रीतिरनुसतव्या । यदि पुनः समभिहारविशेष आकाङ्क्षा, अव्यवधानेनोच्चरितत्वमासत्तिः । तदाऽनयोः साक्षादेव पदधर्मत्वम् ।' इति विवृतिकाराः प्राहुः । पदोच्चयधर्मत्वम्। 'ऊह्य'मिति शेषः । अत्रायं भाव:--'बुद्धयादिषट्रकं सख्याऽऽदिपञ्चकं भावना तथा। धौधौ गुणा एते आत्मनः स्युश्चतुर्दश॥' इति बुयादव आत्मन एव धर्माः, तत्र-'बुद्धिः सुखं दुःखमिच्छा द्वेषो यत्नश्चेति बुद्भयादिषट्कम् , एवं बुद्धीच्छयोरात्मधर्मत्वम् । 'बुद्धिस्तु द्विविधा मता । अनुभूतिः स्मृतिश्चेति स्मृतिरूपाया बुद्धरासत्तेश्चाभिन्नत्वान्नैतस्याः पदोच्चयधर्मत्वम् । 'इच्छाऽऽकाङ्क्षा' इत्युक्तदिशेच्छाऽऽकाङ्क्षापदार्थैक्ये आकाङ्क्षाया अपि न पधर्मत्वम्, एतस्या अपि तथाऽऽत्मधर्मत्वात् । इति न्यायमते, वेदान्तमते तु 'आत्मा ब्रह्मैव'इति शुद्धो बुद्धो मुक्तः सत्य आनन्द आत्मा, तस्य च शुद्धत्वबुद्धत्वादिना सुखदुःखेच्छाss दिधर्मत्वं वक्तुमसाम्प्रतम् , साम्प्रतं पुनस्तद्भिन्नस्य चित्तस्यैव, तस्मात्-आत्मापरपर्यायस्यास्यैवेच्छधर्मत्वं स्मरणधर्मत्वं च; न तु पदोच्चयधर्मत्वम् । इति । अथ-योग्यतैकस्मिन् पदार्थेऽपरस्य पदार्थस्य सम्बन्धसद्भावः । असौ च पदार्थधमः तथा सति-आकाइक्षाऽऽसत्त्योरात्मधर्मत्वे योग्यतायाश्च पदार्थधर्मत्वेऽपि पदोश्चयधर्मत्वमुपचारमाश्रित्येति दिक। .
ननु 'रसो वै स'इत्यायुक्तदिशा रसस्यात्मस्वरूपत्वात् तथैव प्रतिपाद्यमानत्वाच्च, तच्च वाक्यापेक्षया महावाक्यद्वारा सुतरामिति चेत्सत्यमिति महावाक्यस्वरूपमाह ८ वाक्योञ्चय इत्यादिना ।
८ वाक्योच्चयो वाक्यानामनन्तरोक्तलक्षणानां पदोश्चयविशेषाणामुच्चयो योग्यताऽऽकाक्षाऽऽसत्तियुक्तः (अत एव--'योग्यताss..'इति वृत्तिकाराः) समुदाय इति तथोक्तः। अत्रापि बहुवचनमविवक्षितम्, तथा च-वाक्ये च वाक्यामि चेति वाक्यानीत्येकशेषः । वाक्ययोर्वाक्यानां वा योग्यताऽऽकाङ्क्षाऽऽसत्तिमत्तथाऽवस्थितः समुच्चय इत्यर्थः । महावाक्यं महच तद्वाक्यमिति तथोक्तम् । 'आन्महतः समानाधिकरणजातीययोः । ६।३।४६ इत्यादन्तादेशः । कारिकाणां सूत्रत्वं प्रत्याययन् 'सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीय' मित्युक्तदिशाऽत्राप्यनन्तरोक्तात्सूत्रादनुवर्तनीयमवगमयति--'योग्यताss. काङ्क्षाऽऽसतियुक्तः' इत्यनुवर्तनीय'मिति शेषः । एव । अत्राहुर्विवृत्तिकाराः 'योग्यताऽऽद्यभावे महाबाक्यत्वस्वीकारे
५