________________
साहित्यदर्पणः।
[द्वितीय:९ इत्थं वाक्यं द्विधा मतम् ॥ ४॥ 'इत्थ' मिति वाक्यत्वेन, महावाक्यत्वेन च । उक्तं च
'स्वार्थबोथे समाप्तानामङ्गाङ्गित्वव्यपेक्षया ।
वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते ॥' इति । तत्र पाक्यं यथा-'शून्यं वासगृहम्..' इत्यादि, महावाक्यं यथा-रामायण-महाभारत-रघुवंशा'दि। 'चक्षुषा गृह्यता, गगनं वर्तते'इत्येतयो: 'भिक्षुरुपवसति, गृही भु'इत्येतयोभिनदिनोच्चारितयोः 'चक्षुषा गृह्यतां घटो वर्तत' इत्येतयोरपि महावाक्यत्वं स्यात् ।' इति । ननु वाक्योच्चयस्यैव महावाक्यत्वं चेत्तर्हि 'प्रज्ञानं ब्रह्मेत्यादौ कथमिति चेत्सत्यम् , अत्रैतरेयारण्यादीनां सारभूतत्वेन महत्तामात्रमप्यपेक्ष्योपचारात्तत्प्रवृत्तम्। इति बोध्यम् ।
ननु 'वाक्यं रसात्मकं काव्य' मित्यनेम रसात्मकत्वे वाक्यस्यैव काव्यत्वमङ्गीकृतं, न तु महावाक्यस्य; तत्कथं रामाय णादेः; इति चेद्वाक्यत्वस्योभयथाऽपि प्रवृत्तेरित्याह-९ इत्थमित्यादि ।
९इत्थमनेन प्रकारेणेत्यर्थः । वाक्यम् । 'एवेति शेषः । द्विधा द्विप्रभेदं निरुपाधिकसोपाधिकत्वमेदाद्भिन्नमिति यावत् । मतम् ॥ ४॥ . सूत्रस्थ 'मिथ'मिति पदद्योत्यार्थ विवृणोति-'इत्थ मिति निपातात्मकेन पदेनेति शेषः । वाक्यत्वेन । 'उपाध्यभावे'इति शेषः । महावाक्यत्वेन । 'सोपाधिकत्व'इति शेषः । च । 'इति द्योत्यत इति बोध्य' मिति शेषः । अत्रेदं तत्त्वम्-वाक्यमेव महत्त्वरूपेणोपाधिना संवलितं महावाक्यमिति गीयते अन्यदा तत् तदेवेति द्विप्रभेदम् । योग्यताऽऽदियुक्तताया अनुगमादभिन्नम्। इति । .. अत्र प्राचां संवादमाह-उक्तं चेत्यादिना ।
उक्तं प्रतिपादितमित्यर्थः। चापीत्यर्थः। 'वृ?' रिति शेषः। किमित्यपेक्षायामाह-स्वार्थवोधे स्वेषाम् । (वाक्यानाम्) अर्थास्तेषां बोध इति तत्र तथोक्त । समाप्तानां कृतार्थानामिति भावः । तथा च-स्वस्वार्थबोधनमाजव्यापाराणामिति फलितम् । समस्तपाठे तु-स्वार्थबोधेन स्वस्वार्थबोधनेन समाप्तानि निवृत्तव्यापाराणीति तेषां तथोक्तानाम् । स्वस्वमर्थ बोधयित्वाऽर्थान्तरं बोधयितुं विमुखानामिति भावः । वाक्यानाम्। अङ्गाड्रित्वव्यपेक्षयाऽङ्गानि चाङ्गीनि ( शरीराणि) चेति तेषां भावस्तत्त्वं, तस्य व्यपेक्षया । 'अन्योऽन्य'मिति शेषः । तथा च-अन्योऽन्यमङ्गत्वाङ्गित्वाभ्यामवस्थातुमित्यर्थः । एकस्याङ्गात्मनाऽपरस्याङ्गिरूपेण, अपरस्य वाऽङ्गात्मनैकस्याङ्गथात्मनाऽवस्थातुमिति भावः । अङ्गेष्वनिरूपेणाङ्गिषु वाऽङ्गरूपेणावस्थानापेक्षित्वेन हेतुनेति फलितम् । पुनर्यथा पूर्व पदानि वाक्यतामङ्गीकरी तथा वाक्यान्यपि योग्यताऽऽदिमत्तया महावाक्यतामिति भावः। संहत्य योग्यताऽदियोगेनैकीभूयैकार्थप्रतिपादकत्लेन मिलिस्वेति यावत् । एकवाक्यत्वमेकं प्रधान महदिति यावद्वाक्यमिति तस्य भावस्तत्त्वं तथोक्तम् । 'एक: सङ्ख्यान्तरे श्रेष्ठे केवलेतरयोस्त्रिषु ।' इति मेदिनी । जायते ॥ इति । इदमभिहितम्-अङ्गानि यथा गुणप्रधानभावेनान्योऽन्यमिलितानि अगितामवलम्बन्ते, तथा पदानि वाक्यतामिव वाक्यानि पुनरेक (महा) वाक्यताम् , एवं च-पदानां वाक्यत्वे 'स्वार्थबोधे समाप्तानामझाङ्गित्वव्यपेक्षया । पदानामेकपदता पुनः संहत्य जायते ॥' इत्येवं पदानामेकपदत्वस्वीकारे नयो बोध्य इति ।
अथ वाक्यमहावाक्ये विभज्य दर्शयति-तत्रेत्यादिना ।
तत्र वाक्यमहावाक्ययोर्मध्ये इत्यर्थः । वाक्यम् । यथा । 'शून्यं वासगृहम्..' इत्यादि । एतत्पद्यं च ध्याख्यातपूर्वम् । महवाक्यम् । यथा । रामायण-महाभारत-रघुवंशादि । आदिपदेन-- 'नाथ ! विलोकय मे (s), कुतोऽस्ति पापं तवातिपुण्यायाः ।' इत्यादि गृह्यते । अत्रेदं बोद्धध्यम्-पदोश्चयस्य वाक्यत्वाधायिका, वाक्योच्चयस्य वा महावाक्यत्वाधायिका वा योग्यता ssकाक्षा 55. सत्तिसमुदायस्वरूपा तात्पय्ये नाम वृत्तिः । एषा च पदोच्चयनिष्ठा वाक्योच्चयनिष्ठा वा, नतु पदमात्रनिष्ठा; अत एव-एनया प्रतिपाद्योऽभ्यर्थो वाच्यवत्पदोच्चयवाक्योच्चयान्यतरप्रतिपाद्यो, न तु पदमात्रप्रतिपाद्यः, योग्यताऽऽद्यसम्भवात् । एवं च