________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । पदोच्चयो वाक्यमित्युक्तम्, तत्र किं पदलक्षणमित्यत आह
१० वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः। यथा-घटः 'प्रयोगार्ह'इति प्रातिपदिकस्य व्यवच्छेदः, वाच्यार्थस्येव तात्पर्य्यार्थस्य साधम्र्येऽपि वैधय॑मवसेयम् । वाक्यस्य महावाक्यस्य तदर्थस्य चायं बोधप्रकारः- तत्र तावत्, श्रूयन्ते शब्दाः, अर्थाश्च श्रोतृणां चेतसि समारोहन्ते, संहन्यन्ते च योग्यताऽऽदिवशेन विशिष्टान्वयबोधेन, तदानीं सम्पद्यमानोऽर्थश्च तात्पर्य्याभिधेयो वाक्यमहावाक्यान्यतरप्रतिपाद्यः । अत्र च कारणभूता तात्पर्य्याख्या वृत्तिः, विशिष्टमर्थ बोधयितुं संहन्यमानानि पदानि वाक्यं, वाक्यानि च महावाक्यम् । संहन्यमानत्वं च योग्यताऽऽदिवशादेव मिन्नानामपि परस्परं प्तेषामित्यादेदितचरम् । अत एव कविराजा अभिधाऽऽदिनिरूपणोत्तरमेव तात्पर्यवृत्तिं दर्शयिष्यन्ति । इति ।
गगु किं नाम तत् पदं, यदुचयो वाक्यमिति पृच्छामुत्थामुन्नयन्नाह-पदोच्चय इत्यादि ।
पदोच्चयः । वाक्यम् । इतीत्येवम् । उक्तं 'वाक्यं स्याद् योग्यता...' इत्यादिनेति शेषः । तत्र पदोच्चय इत्यर्थः । किम् पदलक्षणं 'स्या' दिति शेषः । इत्यत इति जिज्ञासोत्थानात् । आह १० वर्णा इत्यादिनेति शेषः ।
१० प्रयोगार्हानन्वितैकार्थबोधकाः प्रयोगार्हाश्चानन्वितैकार्थबोधकाश्चेति तथोक्ताः । 'सुपा ।' २।१।४ इति समासः । प्रयोगमहन्तीति तथोक्ताः ।, 'नापदं प्रयुञ्जीते'ति निषेधाविषया इत्यर्थः, सुप्तिङन्तान्यतरा इति भावः । नान्वितो योग्यतया पदार्थान्तरेणान्वयं प्राप्त इत्यनन्वितः. सोऽसावेकार्थः (एकोऽर्थः)तं बोधयन्तीति, तस्य वा बोधका इति तथोक्ताः । वर्णाः, अक्षराणि । पदम् । तथा च प्रयोगार्हत्वे सति यादृशानुपूर्वीमन्तो वर्णा एकस्यानन्वितस्यार्थस्य बोधकास्तादृशानुपूर्वीमद्वर्णत्वं पदत्वमित्यर्थः ।
तदेव विवरीतुमुपक्रमते-यथेत्यादिना ।
यथा 'पद' मिति शेषः । घटः 'इतीति शेषः । अत्र हि प्रयोगार्हत्वे पदार्थान्तरेणासंसृष्टत्वे सति एकस्य कम्बुग्रीवादिमदर्थस्य बोधका कारटकारविसर्जनीयरूपा वर्णा इति ।
अथ विशेषणसार्थक्यमुपपादयति- 'प्रयोगार्ह' इत्यादिना ।
'प्रयोर्गाह' इति 'विशेषणेने'ति शेषः । तथा च-'प्रयोगार्हा वर्णाः पद'मित्यभिधानेनेति निष्कृष्टम् । प्रातिपदिकस्य, 'अर्थवदधातुरप्रत्ययः प्रातिपदिकम्।' १।२।४५ 'कृत्तद्धितसमासाश्च।' १।२।४६ इत्युक्तसज्ञिविशेषस्येत्यर्थः । एतदुपलक्षणं धातोरपि, तेन 'भूवादयोधातवः।१।३।१ इत्युक्तसज्ञिविशेषस्य चेत्यर्थः । व्यवच्छेदो व्यावृत्तिः । निर्विभक्तिकस्य प्रातिपदिकस्य (धातोश्च) अनन्वितघटरूपैकार्थबोधकत्वात्तद्यावृत्तये प्रयोगाईत्वे सतीत्युक्तम् , प्रयोगाईत्वं चासाधुत्वप्रयोज्यपापाजनकं यदुचारणं तद्विषयत्वम् । 'नापदं प्रयुञ्जीते'त्यनेनागमेन सुप्तिइन्तान्यतरत्वहीनस्य किश्चिदर्थावबोधकस्य शब्दस्यो
१ अत्राहृष्टिप्पणीकारा:-'वर्णोत्पत्तिस्तावदेवमुपवर्ण्यते' चेतनेन ज्ञातार्थविवक्षया तद्बोधकशब्दनिष्पादनाय प्रेरितमन्तःकरणं मूलाधारस्थितमनलं चालयति, तच्चालितोऽनिलस्तत्स्थलवर्तिवायुचालनाय प्रभवति, तचलितेन वायुना तत्रैव सूक्ष्मरूपेणोत्पादितः शब्दः परा वागित्यभिधीयते । ततो नाभिदेशपर्य्यन्तं चालितेन तेन तद्देशसंयोगादुत्पादितः शब्दः पश्यन्तीति व्यवहियते। एतद्द्वयस्य सूक्ष्मसूक्ष्मतयेश्वरयोगिमात्रगम्यता, नास्मदीयश्रुतिगोचरता । ततस्तेवैव हृदयदेशं परिसर्पता हृदयसंयोगेन निष्पादितः शब्दो मध्यमेत्युच्यते। सा च स्वकर्णापिधानेन ध्वन्यात्मकतया सूक्ष्मरूपेण कदाचिदस्माकमपि समधिगम्या। ततो मुखपय॑न्तमाक्रमता तेन कण्ठदेशमासाद्य मूर्धानमाहत्य तत्प्रतिघातेन परावृत्त्य च मुखविवरे कण्ठादिष्वष्टसु स्थानेषु खाभिघातेनोत्पादितः शब्दो वैखरीति कथ्यते।' इति । इदमुक्तम्-“येयं विमर्शरूपैव परमार्थचमत्कृतिः । सैन सारं पदार्थानां परा वागभिधीयते । अविभागा तु पश्यन्ती सर्वतः संहतक्रमा। स्वरूपज्योतिरेवान्तःसूक्ष्मा वागनपायिनी । अन्तःसङ्कल्परूपा या क्रमरूपाऽनुपातिनी। प्राणवृत्तिमतिक्रम्य मध्यमा वाक प्रवर्तते ॥ स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा। वैखरी वाक प्रयोक्तणां प्राणवृत्तिनिबन्धना ॥" इति नानाविधा वाचः, तत्र बैखरी वाक केवलं वर्णरूपा ।' इति ।