________________
३६
साहित्यदर्पणः।
[द्वितीयः'अनन्वित' इति वाक्यमहावाक्ययोः' 'एक' इति साकाक्षानेकपदवाक्यानाम्, 'अर्थबोधका इति 'कचटतप' इत्यादीनाम् । 'वर्णा' इति बहुवचनमविषक्षितम् ।
चारणं पापजनकमिति बोधनात् न निर्विभक्तिकस्य तादृशप्रयोर्गाहत्वमित्यभिप्रायः। एतावताऽपि वाक्यमहावाक्ययोः । प्रयोगाईत्वे सति विशिष्टैकार्थबोधकत्वादतिच्याप्तिस्तनिरासायाहुः-'अनन्वित' इति 'विशेषणेने'ति शेषः । वाक्यमहावाक्ययोः। 'व्यवच्छेद'इति शेषः । अनन्वितत्वं हि स्वस्य स्वषटकस्य वा वृत्त्यनुपस्थाप्यार्थान्तरासंमृष्टत्वम् । तथा च- वाक्यस्य महावाक्यस्य वा 'घटमानथे' त्यादेः तादृशत्वाभावान्न दोषः । एवमपि 'घटेन जल' मित्याद्याहरणादिरूपक्रियावाचकपदासमभिव्याहृतसाकाङ्क्षपदसमुदायस्य पदत्वं स्यात्, : तत्र तृतीयान्तद्वितीयान्तपदार्थयोः परस्परमन्वयाभावेनानन्वितार्थबोधकत्वात् ; अत आहुः-'एक' इति 'विशेषणेने'ति शेषः । साकाङ्क्षानेकपदवाक्यानां साकाङ्क्षाणि यान्यनेकपदवाक्यानीति तेषां । तथोक्तानाम् । अनेकानि च तानि पदानि वाक्यानि अत्यनेकपदवाक्यानि । 'व्यवच्छेद' इति पूर्ववत् । तत्रवनन्वितार्थानामनेकत्वमिति नातिप्रसङ्गः। ये शब्दा अर्थबोधका अथ च न संस्कृतास्तेषामेवोच्चारणं पापजनकत्वेन 'नापदं प्रयुञ्जीते' त्याद्यागमेन बोधितम् , येषां तु अर्थावबोधकत्वमेव नास्ति तेषु साधुत्वमसाधुत्वं वाऽपशब्दत्वं सुशब्दत्वं वा किमपि नास्तीति यथा साधुशब्दप्रयोगे पुण्यमुत्पद्यते न तथा तेभ्यः पुण्यम् ; यथा वाऽसाधुशब्दप्रयोगे पापमुत्पद्यते न तथा तेभ्यः पापमपि ; तस्मात्.-तादृशानां शब्दानामसाधुत्वपापाजनकोच्चारणविषयत्वरूपपूर्वोक्तप्रयोगार्हत्वस्य सत्त्वे वाधकाभावादनन्वितैकरूपत्वाच्च स्यात् पदत्वापत्तिः, तद्वारणायाहुः-'अर्थबोधका' इति 'विशेषणेने ति शेषः । 'कचटतप'इत्यादीनाम् 'व्यवच्छेद' इति शेषः । एतेन-यत्त्वत्र पराक्रान्तं तर्कवागीशैः-'ननु “प्रकृत्यान्वितस्वार्थबोधकत्वं प्रत्ययाना" मिति नियमात् “घटीयं कर्मत्वम्” इत्याद्यन्वितार्थबोधकस्य ‘घट' मित्यादेः कथं पदत्वम् ? नच “शक्तिमत्पदम्" इति मतानुसारेण “घट" इत्येकं पदम् “अम्', इत्यपरम्, अनयो: प्रत्येकपदार्थोपत्थापकत्वेनानन्वितार्थबोधकत्वमक्षतमित्ति वाच्यम् । तथा सति "घटम्" इत्यादेः पदसमुदायस्य वाक्यत्वं स्यात्, न चेष्टापत्तिः, एवं सति "शून्यं वासगृहं.." इत्यादि यद् वाक्योदाहरणं दत्तं तदसङ्गतं स्यात्, तस्य तथाविधवाक्यस्य महावाक्यतयैवोदाहर्तमुचितत्वात् । न च प्रत्ययातिरिक्तानन्वितार्थबोधकत्वं विवक्षणीयमिति वाच्यम्, तथाऽप्यभेदसम्बन्धन नीलाद्यन्वितोत्पलादिबोधकेषु “नीलोत्पल" मित्यादिषु पदेषु, मुख्यार्थान्वितार्थबोधकेषु लाक्षणिक ('श्वेतो धावती' त्यादौ) लाक्षणिकश्वेतादिपदेषु चाव्याप्तेरनुद्धारात् । समस्तस्य पदत्वास्वीकारे "क्षीरोदजावसतिजन्मभुवः प्रसन्नाः" इत्यादिपदगतक्लिष्टत्वायुदाहरणमसङ्गतं स्यात्, एवम् “एक” इति न सङ्गच्छते'घटौ, घट' इत्यादिद्विवचनान्तबहुवचनान्तपदेष्वनेकार्थबोधकेष्वव्याप्तेः । न चै "क" इति, “एकजातीय" इत्यर्थ इति वाच्यम्, “धवखदिरपलाशा" इत्यादौ, युगपच्चन्द्रसूर्योपस्थापके “पुष्पवन्तौ” इति पदे चाव्याप्तितादवस्थ्यात् । अपि च-पदघटकानां यावतां वर्णानामनन्वितार्थबोधकत्वम् , उत केषाञ्चिद्वा; नाद्यः, “सुन्दरस्य देवदत्तस्य धनम्" इत्यादौ विशेषणविभक्तेरनर्थकत्वात् "सुन्दरस्ये" त्यादिपदे चाव्याप्तेः । नापि द्वितीयः, “वहिना सिञ्चती" त्यादौ सर्वेषामनन्वितार्थबोधकत्वाभावेऽपि प्रत्येकं तथात्वसद्भावाव्याप्तेः । यद्वा द्वौ घटौ” इति समुदायस्य सम्भेदेनान्यतरस्य "वैयर्थ्यम्" इति न्यायाद“द्वौ"इति भागस्यानर्थकत्वेऽपि “घटौ” इति भागस्यानन्वितैकार्थबोधकत्वात् तत्राऽव्याप्तिः। इति, तदप्यपास्तम्तथाहि-'घट' मित्यादेः पूर्वोक्तस्य स्वस्य स्वघटकस्य वा वृत्त्यनुपस्थाप्यार्थान्तरासंसृष्टत्वस्य सत्त्वात् , 'नीलोत्पल' मित्यस्य समस्तत्वेन एकस्या एव वृत्तेः शाब्दिकैरङ्गीकारेण स्वीयवृत्त्यनुपस्थाप्यत्वं नीलपदार्थेनास्तीत्यनुपस्थाप्यार्थान्तरासंसृष्टत्वमस्त्येव । 'श्वेतो 'धावतो' त्यादावपि श्वेतपदधर्मिकलक्षणाख्यवृत्त्यनुपस्थाप्यत्वस्य श्वेतगुणेऽभावात् तदनुपस्थाप्यार्थान्तरासंसृष्टत्वं श्वेतगुणविशिष्टस्य वर्तत एवेति न कुत्रापि दोषः । एकार्थबोधकत्वं च विशेषणविशेष्यभावानापन्नार्थद्वयाबोधकत्वे सति विशेषणविशेष्यभावापनार्थद्वयबोधकत्वम् । एवं च-सविभक्तिकपदमात्रस्यैव प्रकृत्यान्वितप्रत्ययार्थरूपविशेषणविशेप्यभावापन्नाथद्वयबोधकत्वसत्त्वेन तदनापन्नार्थद्वयाबोधकत्वेन च विशेष्यदलाकान्तत्वमिति लक्षणसमन्वयः । 'घने मित्यादि साकाक्षानेकपदघटितवाक्ये च 'घटेने त्याद्यशप्रतिपाद्यविशेषणविशेष्यभावापनार्थद्वयबोधकत्वसत्त्वेऽपि तदनापन्नविषिष्टार्थद्वयाबोधकस्वाभावान्नातिव्याप्तिः । द्विवचनान्तबहुवचनान्तपदेषु च विशेषणविशेष्यभावापन्नार्थद्वयबोधकस्वस्य तदनापन्नार्थद्वयाबोधकत्वस्य च सत्त्वेन नाव्याप्तिः । 'धवखदिरपलाशा' इत्यादिद्वन्द्वस्थले सर्वत्रैव साहित्या