________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । ११ अर्थो वाच्यश्च लक्ष्यश्च
व्यङ्ग्यश्चेति त्रिधा मतः ॥ ५॥ एषमेषां स्वरूपमाह१२ वाच्योऽ ओं 5 भिधया बोध्यो
लक्ष्यो लक्षणया मतः। व्यङ्गयो व्यञ्जनया [अभिधा ऽऽ द्याः का इत्याह] १३ ताः स्यु
स्तिस्त्रः शब्दस्य शक्तयः ॥६॥ ता अभिधा द्याः। श्रयरूपप्रकृत्यर्थस्य विभक्त्यर्थसख्यादेश्च विशेषणविशेष्यरूपत्वात् तद्भावापन्नार्थबोधकत्वे सति तदनापन्नार्थद्वयाबोधकत्वं वर्तत इति नाव्याप्तिः । 'पुष्पवन्ता' वित्यन्तापीयमेव गतिरिति सुधीभिर्विभावनीयम् । 'सुन्दरस्य देवदत्तस्य धन मित्यादिस्थले सुन्दरपदोत्तरषष्ठीविभक्तेर्निरर्थकत्वेन अर्थाबोधकत्वेनऽपि 'सुन्दरस्य पुत्र' इत्यादिस्थलीयसुन्दरविशिष्ट सम्बन्धरूपार्थविषयकबोधजनकताऽवच्छेदकानुपूर्वीमत्त्वस्य सत्त्वेन नाव्याप्तिः। अत एव-यत्र केनचित्प्रतिबन्धकवशेन यस्य कस्यचित् पदस्य अर्थावबोधजनकत्वस्य फलोपधायकत्वस्याभावेऽपि न तत्रतत्राव्याप्तिः, जनकताऽवच्छेदकानुपूर्वीमत्त्वखरूपयोग्यताया अनपायात् । तथाच-असाधुत्वप्रयुक्तपापाजनकत्वे सति स्वस्य स्वघटकताऽवच्छेदिका तथा विशेषणविशेष्यभावनापन्नार्थद्वयाविषयकबोधजनकताऽनवच्छेदिका यादशानुपूर्वी तद्वन्तो वर्णाः पदमिति स्थितम् ।
ननु अर्थबोधका वर्णाः पदमित्युक्तं, तत्र को नामार्थः ? इत्याह-११ अर्थ इत्यादि।
११ अर्थः पदार्थः । अयंते प्रार्थ्यते प्रतिपाद्यत्वेनासावित्यर्थः । 'अकर्तरिच कारके सज्ञायाम् ।'३।३।१८ इति घञ् । क्रमवतां वर्णानामाशुविनाशितयैकदाऽनेकवर्णानुभवासम्भवात् पूर्वपूर्ववर्णान् अनुभूयान्त्यवर्णश्रवणकाले पूर्ववर्णानुभवजनितसंस्कारसहकृतेनानन्त्यवर्णसम्बद्धन काऽपि प्रतीतिर्जन्यते, सहकारिसामर्थ्यात् । प्रत्यभिज्ञावत् । तत्प्रतीतिविषयभूतं (पद) च यत्परः स इति भावः । वाच्य उच्यतेऽसाविति तथोक्तः । 'वचोऽशब्दसझायाम् ।' ७।३।६७ इति ण्यत् । च । लक्ष्यो लक्ष्यतेऽसाविति तथोक्तः । 'ऋहलोर्ण्यत्' ३।१।१२४ इति । च । व्यङ्गयो व्यज्यतेऽसाविति तथोक्तः । च । 'महीभृतस्तस्य च मन्मथश्रिया निजस्य चित्तस्य च तं प्रतीच्छया ।' इत्यादिवत् समुच्चयार्थे चकाराधिक्यमिति बोध्यम् । इतीत्येवम् । त्रिधा त्रिस्वरूप इति भावः । मतः ॥५॥
ननु वाच्यादीनां किं नाम लक्षणमित्याकाङ्क्षायां तद्वक्तुं प्रतिजानीते-एवमित्यादिना । एषां वाच्यादीनाम् । स्वरूपमसाधारणं चिह्नम् । आह १२ वाच्य इत्यादिना।
१२ अभिधया ऽभिधीयते सङ्केतितोऽर्थ उपस्थाप्यतेऽनयेत्यभिधा तया, वक्ष्यमाणलक्षणेन शक्तिविशेषेणेति भावः । बोध्यो बोध्यतेऽसाविति तथोक्तः । अर्थः । वाच्यः । मतः । लक्षणया लक्ष्यते रूढ्यनुरोधेन प्रयोजनानुरोधेन वोपस्थाप्यतेऽर्थान्तरमनयेति तया तथोक्तया। 'बोध्योऽर्थ' इति शेषः । लक्ष्यः । 'मत' इति शेषः । व्यञ्जनया व्यज्यते सूच्यते वाच्यलक्ष्यातिरिक्तत्वेनानिरूप्योऽप्यर्थोऽनयेति तया तथोक्तया। 'बोध्योऽर्थ' इति शेषः । व्यङ्गघः । 'चजो: कु घिण्यतोः ।' १३१५२ इति कुत्वम् । 'मत' इति शेषः ।
[अभिधाऽऽदीनां शक्तित्वमभिधित्सुः सङ्गतिं दर्शयति-अभिधाऽऽद्याः । काः किंस्वरूपाः । इतीत्याशङ्कय । आह-] १३ ता इत्यादि ।
१३ ता अभिधाऽऽद्या इत्यर्थः । तिनस्त्रिसङ्ख्याकाः । शब्दस्य शक्तयः। स्युः ॥६॥ अथ सूत्रस्थं 'ता' इति पदार्थ विवृणोति-तास्तत्पदवाच्याः । अभिधाऽऽद्याः 'इति भाव' इति शेषः ।
अत्रेदं बोद्धव्यम्-अर्थबोधहेतुभूतत्वादेवाभिधाऽऽदीनां शक्तिरूपत्वम् , शब्दगतत्वात्तु वृत्तित्वम् , तार्किकैः प्रत्याख्याताया अपि सहृदयहृदयसाक्षिकार्थहेतुभूतत्वेन समादरणीयाया व्यञ्जनाया आवश्यकाभ्युपगमद्योतनार्थ 'तिख' इत्यनेन सङ्ख्यानम् । तात्पर्य तु वाक्यमहावाक्ययोरेव, न तु पदस्ये ति; पदस्य शक्तित्रयत्वम् । तत्र वाच्यार्थहेतुरभिधा, लक्ष्यार्थहेतुभूता लक्षणा, व्यङ्गयार्थहेतुभूता व्यअनाशक्तिरिति ।