________________
३८
तत्र
साहित्यदर्पणः ।
द्वितीय:
१४ मता सङ्केतितार्थस्य
नामाभिधा ।
उत्तमवृद्धेन मध्यमवृद्धमुद्दिश्य 'गामानय' इत्युक्ते तं गवानयनप्रवृत्तमुपलभ्य बालोऽस्य वाक्यस्य
तदेव स्पष्टमभिधातुं स्वयं प्रवर्त्तते तत्र तासु तिसृषु शक्तिषु मध्य इत्यर्थः ।
१४ सङ्केतितार्थस्य सङ्केतो वृद्धव्यवहारादिना प्रतिपत्तिः, स सञ्जातो यस्य स सङ्केतितोऽसावर्थ इति तस्य तथोक्तस्य । ‘तदस्य सञ्जतं तारकादिभ्य इतच् ।' ५।२।३६ इतीतच् । एतेन - 'ईश्वरेच्छा शक्तिः (अभिधा)' इत्युक्तनयेन 'इच्छेव शक्ति:' इति नयेन वा 'अस्माच्छन्दादर्थो वोद्धव्य' इति सङ्केतात्मिकाऽभिधा शक्तिः तद्विषयीभूतश्चार्थः सङ्केतित एवेति तद्बोधिकाऽभिधेत्युच्यमाने स्फुटमात्माश्रयापत्तिः । इति यदुक्तं, तत्पराक्षिप्तम् । अत एव तर्कवागीशा अव्याहु:'सङ्केतितार्थस्येति । सङ्केतितग्रहविषयार्थस्येति तु नार्थः, सङ्केतस्याभिधाया अभिन्नत्वेनात्माश्रयापत्तेः । किन्तु कोशव्याकरणादिप्रसिद्धस्य मुख्यार्थस्येत्यर्थः । मुख्यत्वं च लक्ष्यव्यवयापेक्षया प्रथमोपस्थितिविषयत्वम् ।' इति । इदं तु चिन्त्यम्, 'लक्ष्यव्यङ्गचापेक्षया प्रथमोपस्थितिविषयत्वम्मुख्यत्वम् । तदवच्छिन्नस्य च मुख्यस्यार्थस्य बोधिकाऽभिधा' इति पर्यवसिते, असौ च लक्षणा व्यञ्जनापेक्षया प्रथमोपस्थितिविषयभूतत्वेन मुख्यैव तदिति मुख्यया प्रतिपाद्योऽर्थो मुख्य इति पर्यवसिते च कथं न पुनर्निरुक्तो दोषः । इति । बोधनात् । बोध्यतेऽनेनेति बोधनम् । 'करणाधिकरणयोश्च । ३।३।११७ इति ल्युट् । अग्रिमाऽग्रे वृद्धव्यवहारादिना प्रतिपन्नस्यार्थस्य बोधने हेतुभूतत्वात् प्रथमं भवेति तथोक्ता श्रेष्टेति यावत् । 'अप्रादिपश्वामिच् ।' * इति डिमच् । अभिधा । तदभिधेया शक्तिरिति भावः । तथा च-वृद्धव्यवहारादिना प्रतिपाद्यस्यार्थस्य बोधने हेतुभूता शक्तिरभिघा नाम । नहि वृद्धव्यवहारादिना सर्वः शब्दः सर्वमेवार्थ प्रतिपत्तिं नयते, किन्तु कश्चित् कञ्चिदेव । तदिति तत्र नियामकं किञ्चिदवश्यमभ्युपेतव्यम् एवं सत्यभ्युपेतव्यं किमपि शब्दसामर्थ्यमित्येव तच्चाभिधा | शब्दसामर्थ्य च शब्दविशेषस्यार्थविशेषेण साकं प्रतिपाद्यप्रतिपादकात्मा सम्बन्धविशेषः । सम्बन्धविशेषमन्तरा शब्द विशेषस्यार्थविशेषप्रतिपादकत्वानुपपत्तेः । तत्र च संयोगादिसम्बन्धविशेषानुपपत्तेः शक्तिविशेष इति कल्पनीयम् । इति पय्र्यवसितम् । अत एवाहुः 'शब्दार्थयोः सम्बन्धविशेषोऽभिधा, तथा च शब्दस्यार्थगतः, अर्थस्य च शब्दगतः सम्बन्धविशेषोऽभिधा । सम्बन्धश्व एकत्रानुयोगी, परत्र पुनः प्रतियोगी । असौ चाग्रिमा, एतत्प्रतिपाद्यार्थानुपस्थितावेव लक्षणाया अप्युपस्थानात्, किं पुनर्व्यञ्जनायास्तयोरन्यतरामात्यैिव लब्धस्थितिकायाः । अत एव केवलाऽप्येषा' प्राधान्येन व्यपदेशा भवन्ती' ति नयेन 'शक्ति' रिति व्यपदिश्यते । ' इति, अस्माच्छब्दादयमर्थो बोद्धव्यः इत्याकारिकेश्वरेच्छा शक्तिः, असौ च " एकादशेऽह्नि पिता नाम कुर्य्यात्" इत्याधुनिकेsपि नाम्नि बोध्या । आधुनिकसङ्केतिते तु 'न' इति, 'न चेश्वरेच्छा, किन्तु इच्छेव । तेनाधुनिकसङ्केतितेऽपि शक्तिः । एवं चेश्वरमनङ्गीकुर्वतां नास्तिकादीनामपि न विप्रतिपत्तिः ।' इति च । इदं तु बोध्यम् - असौ च शब्दस्य समुदायावयवतदुभयनिष्टताभेदात्रिधा, तत्राया यथा - 'डित्थः, डवित्थ' इत्यादी अवयवार्थानुपपत्तेः, द्वितीया यथा'पाचकः, पाठक' इत्यादौ प्रकृतिप्रत्ययार्थयोरन्वयेनोल्लासात्, पाकादिकर्तृत्वरूपमन्तरेणार्थान्तरस्यानवभासेन समुदायार्थानुपपतेच; तृतीया यथा--' जलधरः, जलनिधिः' इत्यादौ, 'जलानां घर' इत्याद्यवयवार्थस्य 'धाराधरो जलधर' इति समुदायार्थस्य चोपपत्तेः । एता एव-योग- रूढि - योगरूढिशब्दैरपि व्यपदिश्यन्ते, तत्र योगरूढिशब्दव्यपदेश्या, , केवला, अकेवला, केवलाकेवला चेति त्रिविधा । केवला यथा - 'कामिनी' इत्यादौ 'काम्यतेऽनेने 'ति' कामयतीति वा कामः सोऽस्या अस्तीत्यवयवार्थपुरःसरं 'कामिनी वामलोचना' इति समुदायार्थबोधात् । अकेवला यथा- 'चन्द्रहास' इत्यादौ 'चन्द्रवत् हासो यस्य इत्यवयवार्थपुरःसरं 'खने तु नित्रिंशचन्द्रहासासिरिष्टयः । इति समुदायार्थबोधेऽपि 'चन्द्र -हास' शब्दार्थयोरनुपपत्तेः । तदुभयात्मिका यथा - 'विश्वम्भरः, सर्वज्ञ' इत्यादावुत्तरपदावयवार्थबोधेऽपि पूर्वपदावयवार्थबोधात् । इति दिकू ।
अथ वृद्धव्यवहारादीन् दर्शयति- उत्तमवृद्धेनेत्यादिना ।
उत्तमवृद्धेनोत्तमः श्रेो नियोजक इति यावत्, सोऽसौ वृद्धः पण्डितः 'अयं शब्द एतत् पर' इति विद्वानिति यावत्, तेन तथोक्तेन । 'अयं तन्दममर्थमभिधत्ते' इति विदुषा नियोजकेनेति भावः । 'बुध वृद्धौ पण्डिते