________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
३९
सानादिमत् पिण्डानयनमर्थ' इति प्रथमं प्रतिपद्यते, अनन्तरं 'गां बधान, अश्वमानय' इत्यादावावापोद्वापाभ्यां गोशब्दस्य 'सास्त्राऽऽदिमानर्थः', आनयनपदस्य च 'आहरणमर्थ' इति सङ्केतमवधायति । कचिच्च प्रसिद्वार्थपदसमभिव्याहारात् यथा- 'अत्र प्रभिन्नकमलोदरे मधूनि मधुव्रतः पिवति ।' इत्यत्र । क्वचिदाप्तोपदेशात् यथा 'अयमश्वशब्दवाच्य' इत्यत्र;
पी' त्यमरः । मध्यमवृद्धं मध्यमो नातिन्यूनवयस्त्वेन नियोज्योऽसौ वृद्धः 'अयं शब्द इममर्थमभिधत्ते' इत्यभिज्ञतया पण्डित इति तं तथोक्तम् । उद्दिश्याभिमुखीकृत्य । 'गां गोपदवाच्यम् । आनय' 'आनयन' क्रियाकर्म्मविषयकं fasterर्थः । इतीत्येवम् । उक्तम् । तं मध्यमवृद्धमित्यर्थः । गवानयनप्रवृत्तं गोकम्मनयनक्रियायां प्रवृतिमन्तम् । उपलभ्यावधार्य्यं । बालो मूढः 'अयं शब्द इममर्थमाहे' त्यविद्वानिति यावत् । 'बालः कचे शिशौ मूर्ख हीरेऽश्वेभपुच्छयोः ।' इति विश्वः । अस्य 'गामानय' इत्येतस्येत्यर्थः । वाक्यस्य । 'सानाऽऽदिमत्पिण्डानयनं सानादीनि अस्य सन्तीति सः, सानाssदिमानसौ पिण्डः देह इति तस्यानयनमिति तथोक्तम् । सास्ना गलकम्बल आदियेषां द्विशफादीनां तानि । 'साना तु गलकम्बलः ' इत्यमरः । 'पिण्डो वोले बले सान्द्रे देहागारैकदेशयोः । देहमात्रे निवापे च गोल सिकयोरपि ॥ ओण्ड्रपुष्पे च पुंसि स्यात्क्लीबमाजीवनायसोः ।' इति मेदिनी । अर्थः । प्रथमं न यावत्प्रतिपदं तत्तदर्थावगमस्तावदिति भावः । प्रतिपद्यतेऽवधारयति ' तादृशादृष्टादृद्धानां व्यवहारा' दिति शेषः । अनन्तरं तथाऽवधारणात् परम् । 'गां गोपदवाच्यम् । बधान बन्धनक्रियायाः कर्म्मविषयकं विधेहीत्यर्थः । अश्वमश्वपदवाच्यम् । आनय ।' इत्यादौ । 'उक्ते' इति शेषः । आवापोद्वापाभ्यां परिक्षेपोपादानाभ्याम् | अन्वयव्यतिरेकाभ्यामित्यर्थः । ' आवापो भाण्डपचने परिक्षेपालवाल्यो ।' इति मेदिनी । 'उद्वापो ग्रहणे सस्योद्गमने बीजरोपणे ।' इति गोपाल: । गोशब्दस्य 'सानाऽऽदिमानू' ' इत्याकारक' इति शेषः । अर्थः । ' आनयनपदस्य । च । आहरणमुपस्थापनम् ।' 'इत्याकारक' इति शेषः । अर्थः । इतीत्येवम् । सङ्केतं प्रतिपत्तिम् । अवधारयति करोति । इदमुक्तम्- 'गां वधान' इत्यत्र गोपदसत्त्वे सास्नादिमत्पिण्डपदार्थबोधः, 'आनये' ति पदाप्रयोगेणाहरण पदार्थ बोधासत्त्वम्, 'अश्वमानये' त्यत्र 'गा' मितिपदाप्रयोगेण सास्नाऽऽदिमत्पिण्डपदार्थ बोधासत्त्वम्, 'अश्वमानये' त्यत्र 'गा' मितिपदाप्रयोगेण साम्नादिमत्पिण्डपदार्थबोधासत्त्वम्, 'आनयेतिपदसत्त्वे आहरणपदार्थबोध: इत्येवमावापोद्वापाभ्यां बालस्तादृशीं प्रतिपत्तिं कुरुते । इति । क्वचिद्रव्यहारादिभ्यो ऽन्यत्रेत्यर्थः । च । प्रसिद्धार्थपदसमभिव्याहारात् । प्रसिद्धोऽर्थो यस्य तादृशस्य पदस्य समभिव्याहारः सन्निधानं तस्मात् । पदार्थबोधग्रह' इति शेषः । यथा'अत्रास्मिन् । इहे' ति पाठान्तरम् । प्रभित्रकमलोदरे प्रभिन्नं प्राप्तविकाशं यत् कमलं तस्योदरं तत्र । ' स्थित ' इति शेषः । ' प्रभिन्नो मत्तनागे स्याद् विकासवति वाच्यवत् । ' इति गोपालः । मधुव्रतः । मधूनि मकरन्दाख्यं रसम् ' मधु मधे पुष्परसे क्षौद्रेऽपी ' त्यमरः । पिबति । ' विदधद्रुचिरे वदने मृगमदविन्दुश्रिया समं स्पर्धाम्' इति शेषः । ' इत्यत्र 'मधूनि ' इति पदस्येति शेषः । अयं भावः - प्रसिद्धार्थानि खलु कमलादीनि पदानि तदिति तेषां सन्निधानेनाप्रसिद्धार्थमपि मधुपदं पुष्परसार्थतया पर्व्यवसीयते । इदमुक्तम्-कमलोदरे मकरन्द एव असौ च
"
भ्रमरस्यैवेति विदुषो जनस्य तत्तत्पदसमभिव्याहारान्मधुपदस्य मकरन्दरूपार्थतयैव प्रतिपत्तिः । इति । क्वचित्तत्तोsधन्यत्रेति भावः । आप्तोपदेशादाप्तस्य 'अयं सत्यं ब्रूते' इति विश्वसनीयस्योपदेशस्तस्मात् । ' आप्तः प्रत्ययितस्त्रिषु ।' इत्यमरः । यथा - 'अयं । पुरोदृश्यमान इत्यर्थः । अश्वशब्दवाच्योऽ' श्व' इति शब्दस्य वाच्योभिधेय इति तथोक्तः ।' इत्यत्र 'इदमा निर्देश्याकारेऽश्वशब्दस्यार्थप्रतिप्रत्ति' रिति शेषः । अयं भावः - पशुविशेषोऽयमित्यवगच्छतो जनस्य 'किन्नामाऽय' मिति विशेषरूपेणावजिगमिषायाम् 'अयमश्व इत्याप्तोपदेशे 'अश्व ईदृशो भवती 'ति प्रतिपत्तिः । इति । अत्राहुस्तर्कवागीशा:- एतदुपलक्षणं, तेन व्याकरणादयोऽपि शक्तिग्रहोपाया द्रष्टव्याः । तदुक्तम् - " शक्तिग्रहं व्याकरणोपमानकोषाप्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य धीराः ॥” इति । दाक्ष्यादिशब्दानां दक्षाद्यपत्येषु शक्तिग्रहो व्याकरणात्, गोसदृशपिण्डदर्शनाद्गोसदृशो गवयपदवाच्य इत्यतिदेशवाक्यस्मरणेऽयं गवयपदवाच्य इत्युपमानात्, 'विनायको विघ्नराजद्वैमातुर गणाधिपाः । ' इत्यादौ कोशात्, आप्तवाक्यादित्रयमुदाहृतं स्वयमेव ग्रन्थकृता, वाक्यशेषाच्छक्तिग्रहो यथा - ' यवमयश्चरुर्भवति' वाराही चोपानत् । 'वैतसे कटे प्राजापत्यं धिनोति । '