________________
साहित्यदर्पणः।
[द्वितीय:इत्येवं तं च सङ्केतितमर्थम्बोधयन्ती शब्दस्य शक्त्यन्तरानन्तरिता शक्तिरभिधा नाम । १५ सङ्केतो गृह्यते जातो
गुणद्रव्यक्रियासु च ॥७॥ । जातिगोपिण्डादिषु गोत्वादिका, गुणो विशेषाधानहेतुः सिद्धोवस्तुधर्मः, शुकादयो हि गवादिकं सजातीयेभ्यः कृष्णगवादिभ्यो व्यावर्त्तयन्ति, द्रव्यशब्दा एकव्यक्तिवाचिनो हरिहरडित्थडविस्थादयः, क्रियाः साध्यरूपा वस्तुधाः पाकादयः, एषु हि अधिश्रयणाद्यवश्रयणान्तादिपूर्वापरीभूतो व्यापारकलापः पाकादिशब्दवाच्यः । एष्वेव हि व्यक्तरुपाधिषु सङ्केतो गृह्यते, न व्यक्तौ; आनन्त्यव्यभिचारदोषापातात् । इत्यत्र यववराहवेतसझब्दाः किं म्लेच्छप्रयोगात् ककुवायसजम्बूनां वाचकाः, उतार्यप्रयोगाद्दीर्घसूकरवजुलानामिति विप्रतिपत्तौ 'वसन्ते सर्वसस्यानां जायते पत्रशातनम् । मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः ॥' 'वराहं गावोऽनुधावन्ति,' 'अप्सुजो वेतसः' इति वाक्यशेषरूपवेदविरोधिनी म्लेच्छ प्रतीतिः स्मृतिरिव वेदविरुद्धा हेया। इत्यार्यप्रयोगादेव दीर्घसूकरादौ शक्तिग्रहः । इति तं निरुक्तदिशा प्रतिपत्तिविषयकम् । सङ्केतितम् । अर्थम् । च । बोधयन्ती। शब्दस्य शब्दसम्बन्धिनीत्यर्थः । शक्त्यन्तरानन्तरिता शक्त्यन्तरेण लक्षणया व्यजनया वाऽनन्तरिताऽव्यवहितप्रचारेति तथोक्ता । शक्तिः सामर्थ्यम् । अभिधा । नाम ।
अभिधा यत्सङ्केतवन्तमर्थ बोधयति स सङ्केतः किन्निष्ट इत्याशङ्कयाह-१५ सङ्केत इत्यादि ।
१५ सङ्केतः । जातौ गोत्वादिरूपायां लक्षणया तदुपाधावित्यर्थः । च तथा । गुणद्रव्यक्रियाम। गुण: शुक्लादिद्रव्यमात्रवृत्तिः, द्रव्यं व्यक्तिवाचकं डित्थादि, क्रिया पाकादिरूपा चेत्येतासु लक्षणया गुणोपाधी द्रव्ये कियोपाचौ चेत्यर्थः । सङ्केतः । गृह्यते । अयं भावः-केवलं जात्युपाधौ जातिगुणक्रियोपाधिषु वा द्रव्ये च सङ्केतग्रह इति । द्रव्यं च यदृच्छाशब्दस्तस्य तु व्यक्तावेव सङ्केतग्रहः । द्रव्यस्य शक्तिव्यतिरिक्तत्वाभावेनोपाधित्वाभावानानात्वाभावादानन्त्यस्य व्यभिचारस्य चापाताभावात्' इति ॥ ७ ॥
अथ सूत्रार्थ विवृणोति-जातिरित्यादिना ।
जातिः। गोपिण्डादिषु गोशरीरादिषु । गोत्वादिका। ज्ञेयेति शेषः । गोशरीरादिषु गोत्वादिरूपण वर्तमाना या सा जातिरिति भावः । गुणः । विशेषाधानहेतुर्विशेषस्य विभागस्याधानहेतुः । विशेषयत्येकमपरेण सह विभक्तत्वेन प्रत्याचयतीति विशेषः । सिद्धो नित्यं वर्तमानः । वस्तुधम्मो वस्तुनो धर्मः शुक्लादिरिति तथोक्तः । परस्परं विभागाधानहेतुः शुक्लादिरूपे नित्यसिद्धस्तत्तद्वस्तुधर्मो गुण इति फलितम् । तदेव हेतुनिर्देशेन सिद्धान्तयति-हि यतः । शुक्लादिना । गवादिकं शुक्लादिगुणविशिष्टं गवादिरूपं वस्त्विति भावः । सजातीयेभ्यो गोत्वादिरूपया जात्या समानेभ्य इत्यर्थः । कृष्णगवादिभ्यः । 'वस्तुभ्य' इति शेषः । व्यावसयन्ति विशेषयन्तीत्यर्थः ।
व्यशब्दाः । एकव्यक्तिवाचिन एकस्या व्यक्तेरभिधायिकाः । हरि-हर-डित्थ-डवित्थादयः । 'सन्ती'ति शेषः । 'अयं हरिपदवाच्य'इत्येवं यदृच्छयैकैकव्यक्तिवाचकत्वेन गृहीता द्रव्यशब्दवाच्या इति भावः । इदं च बोध्यम्-द्रव्यं सज्ञाविषयः, सञ्ज्ञा च द्विप्रभेदा चिरन्तनी तद्भिन्ना च । तत्राद्या हरिहरादिरूपा, अन्त्या पुनर्डित्थादिरूपेति तत्तदात्मिका एकैकस्या व्यक्तेरेव वाचकाः सत्त्वापरपर्याया द्रव्यशब्दार्था इति । क्रियाः । साध्यरूपाः । वस्तुधर्माः । पाकादयः पाकादिरूपा बोध्या इत्यर्थः । तदेवाह-हि यतः । एषु साध्यरूपेषु वस्तुधर्मेषु । अधिश्रयणाद्यवश्रयणान्तादिपूर्वापरीभूतः । अधिश्रयणं चुल्लयूवंदेशे पाचनीयद्रव्यस्थापनमादिर्यस्य सोऽधिश्रयणादिः, अवश्रयणं पक्के द्रव्ये चुल्लीतस्तस्यावतारणमन्तोऽन्त्यावयवभूतो यस्य सोऽवश्रयणान्तः, अधिश्रयणादिश्चासाववश्रयणान्त इति, स आदौ यस्थ । (गृहप्रवेशनिर्गमादेः) तादृशोऽसौ पूर्वापरीभूत इति तथोक्तः । व्यापारकलापः । पाकादिशब्दवाच्यः । 'बोध्य' इति शेषः । इत्येवं जात्यादिस्वरूपं लक्षयित्वाऽऽशकान्तरं निराकरोति एग्वित्यादिना । हि यतः । एषु जात्यादिषु मध्ये व्यक्तेः। उपाधिषु। तथा च-'ये व्यक्त्युपाधिभूता जातिगुणक्रियारूपा धमास्तेषु इति निष्कृष्टम् । 'एव सङ्केतः । गृह्यते । व्यक्तौ । न 'सक्केत'इति शेषः । आनन्त्यव्यभिचारदोषापातादानन्त्यं च व्यभिचारोऽति