________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
ब्याप्तिश्चेति, तौ चैतौ दोषौ तयोरापातस्तस्मात् । अयं भावः - यद्यपि निखिलप्रयोजनक्रियाकारितया हामिदेव सङ्केतग्रहपात्रं, तदपि तत्रानन्त्याद् व्यभिचाराच सङ्केतः कर्त्तुं न शक्यते । तथाहि किं सर्वासु व्यक्तिषु सङ्केतग्रहों, उत कस्याश्चिदेकस्याम् न सर्वासु अनन्तानां तासां युगपदुपस्थानासम्भवात् नापि कस्यांचिदेकस्याम्, सङ्केतग्रहातिरिक्तायां सङ्केतानुपस्थानात् । अथ च - गौ: शुक्लगुणवान् डित्थनामा चलनक्रियावान् इत्यभिप्रेत्य 'गौ: शुक्लश्चलो डित्थ' इत्यादौ गवादिभिश्चतुर्भिरपि शब्दैरेका सैव गोव्यक्ति: सङ्केत्यते इति पदार्थभेदो न स्यात् तत्र व्यक्तेरेव पदार्थत्वात् तस्याश्च प्रकृते एकस्वात् । एवं च - विषयविभागानुपपत्तौ गवादिपदार्थानां 'घटः कलश' इत्यादीनामिवैकार्थवाचकत्वेन सह प्रयोगो न स्यात् । न च जात्यादिष्वित्यपि वक्तुं शक्यम्, व्यक्तेरेव सकलप्रयोजनक्रियाकारित्वात्, व्यक्तिप्रतीत्यनुपपत्तेश्च । तस्मात् जात्यादिषु जात्याद्युपाधिष्वित्यर्थः । इत्यभिप्रेत्यैव' आस्वि'त्यनुक्त्वा 'एष्वित्युक्तम् । न चापि व्यक्तौ, नानात्वस्वीकारे नानाशक्तिकल्पनायां गौरवात्, एकत्वस्वीकारे तदतिरिक्तायां शक्तिकल्पनानुपपत्तेर्व्यभिचारापाताच इति ।
इदमभिहितम् - यदपि व्यक्तिरेव सर्वार्थान् सम्पादयते, तदपि अस्या आनन्त्याद् व्यभिचाराच नात्र सङ्केतो ग्रात्यः, न हि सर्वासु गवादिव्यक्तिषु सङ्केतो, नापि एकस्यामेव गवादिव्यक्तौ वक्तुं शक्यते, अनन्तानां गवादिव्यक्तीनां युगपदनुपस्थानात्, अन्यत्र तच्छब्देन तत्तत्प्रत्ययाभावाच्च; व्यक्तिगतशक्तिविशेषाभिधाने च ' गोत्वात्मकजा तिशाली, शुक्लत्वात्मक वर्णशाली, डित्थसञ्ज्ञः, चलनक्रियावांचे' त्यभिप्रायेण 'गौः, शुक्लः, डित्थः, चल' इत्यभिहिते चतुर्भिर्गवादिशब्दैरेकैव असौ गोव्यक्तिरभिधीयते इति प्रवृत्तिनिमित्तस्य पदार्थस्य विभागो न स्यात् । तत्र व्यक्तेरेव प्रवृत्तिनिमित्तरूपपदार्थत्वात् । तस्याश्च प्रकृत ऐक्यात् । इति । पुनरेवं विभागासत्त्वे गवादिशब्दानां 'घटः, कलश' इत्यादीनामिव एकार्थवाचकताया एव सिद्धौ पर्यायत्वोपपत्तौ सह प्रयोगो न स्यात् । इति । उपाधिगतशक्तिविशेषाभिधाने तु जाति, गुण, द्रव्य, क्रियाणां प्रवृत्तिनिमित्तानां गवादिशब्दानां विभागकल्पनया पर्यायत्वानुपपत्तेर्भवति सह प्रयोग इति भावः । तत्र - जातिर्गोत्वादिरूपाऽवयवसंस्थानविशेषाभिव्यङ्गया प्रत्यक्षसिद्धा गवादिशब्दानामभिधेया । अनुमानसिद्धा च प्राणत्वरसनत्वादिर्घाणरसनादिशब्दानामभिधेया । जातिरूपोऽयं शब्दो व्यवहारौचित्य प्रदातृत्वेन 'प्राणप्रद' इत्यभिधीयते । तथाऽभिहितं भर्तृहरिणा - 'गौ: स्वरूपेण न गौर्नाप्यगौः गोत्वाभिसम्बन्धाद्वौः ।' इति । अस्य चायमर्थ:- गौर्गोपदवाच्यः सास्नादिमान् धर्मी । स्वरूपेण धमिखरूपेण । न । गौ 'गौ' रिति व्यवहारविषयो भवति । अगौगभिन्नः । अपि न 'गौ' रिति व्यवहारविषय इति शेषः । गोरपि हि गोत्वाभावप्रसक्ति: गोभिन्नस्यापि गोत्वसक्तेश्च गोत्वाभिसम्बन्धाद्गोत्वस्याभिसम्बन्धाज्ज्ञानात्, गौ 'गौ' रिति व्यवहारविषयो भवति । एवं च नित्यमनेकानुगतं सामान्यं जातिरिति फलितम् गुणः शुक्लादिरूपः शुक्लादिपदानामभिधेयः । शुक्लादिना हि गवादिकं लब्धसत्ताकं सद्भिद्यते । अयं भावः- उत्पन्नं द्रव्यं गुणेन युज्यते, उत्पत्तिदशायां क्षणं नैर्गुण्यात् । अत एव - ' जन्मना जायते जाति:' इति सङ्गच्छते । सिद्धं च एवं जातिगुणयोः पार्थक्यम् । अन्ये त्वाहु: - 'यद्यपि शुक्लादिगुणस्य नित्यत्वाभ्युपगमे गोत्वादिना समकालमेव सम्बन्धित्वम्, तथाऽपि शुक्लादिगुणस्य सम्बन्धः कदाचित् पाकरञ्जनादिना वर्णान्तरोपादाने अपयात्यपि, न तु गोत्वादेरिति जातिगुणयोर्भेदः । अत एव 'वोतो गुणवचनात् । ४|१|४४ इति सूत्रे महाभाष्ये गुणलक्षणमुक्तम्, 'सत्त्वे निविशतेऽपैति पृथग्जातिषु दृदयते । आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिगुणैः ॥ इति । अत्रेदमवगन्तव्यम्- 'चतुष्टयी शब्दानां प्रवृत्तिः ।' इति वक्ष्यमाणमहाभाष्योक्तेर्जातिक्रियाद्रव्या
१ अयं भावः यो द्रव्यमाश्रयते, तत एव द्रव्यान्निवर्त्तते, भिन्नजातीयेषु द्रव्येषु दृश्यते स गुणः । एतेन जातेगुणत्वमपाकृतम् । सा हि द्रव्ये निविशमाना द्रव्यं कदाचिन्न जहाति, न च भिन्नजातीयानि द्रव्याण्यभिनिविशते । यद्यपि गवादिषु प्राणित्वमप्यस्ति तथाऽपि प्राणित्वेन तेषामेकजातीयत्वमेव । ननु क्रियायाः पूर्वोक्तलक्षणयोगाद् गुणत्वं प्राप्यते यत् साऽपि द्रव्ये निविशते, कदाचित् द्रव्यादपैति, निष्क्रियं च द्रव्यं कदाचिद्भवति, कदाचित् पुनः सक्रियम्, भिन्नजातीयानि च द्रव्याण्याश्रयति, तदेवाह - आधेय इति । उत्पाद्य इत्यर्थः । यथा घटादेः पाकजो रूपादिः । अक्रियाजोऽनुस्पाद्यः । यथा आकाशादेर्महत्त्वादिः । क्रिया तूत्पाद्यैव न तु नित्या । तस्या द्वैविध्याभावाद्गुणत्वाभावः । ननु एवं द्रव्यस्यापि गुणत्वं स्यात्, अवयविद्रव्यमवयवद्रव्येषु निविशते, द्विविधं तन्नित्यानित्यभेदेन निरवयवस्य द्रव्यस्यात्मपरमाण्वादेर्नित्यत्वादवयविद्रव्यस्यानित्यत्वात् इदमेवाह असत्वप्रकृतिरिति । अद्रव्यस्वभाव इत्यर्थः । पृथग्जातिति' श्रमविषमे समासे 'जात्यन्ताच्छ बन्धुनि ।' ५/४१९ इति छः स्यात् । तत्र व्यक्तिषु जात्याधारेषु दृश्यमानो जारी हरयते । इति ।