________________
४२
साहित्यदर्पणः।
[द्वितीय:
तिरिक्तं धर्ममात्रं गुणः इति पय॑वस्यति । तेन अभावादेरपि गुणत्वमिति सिद्धम् । अत एव तत्त्वबोधिनीकाराः प्राहः-'समाजातिक्रियाशब्दान् हित्वाऽन्ये गुणवाचिनः । चतुष्टयी शब्दानां प्रवृत्तिः।' इत्याकरग्रन्थ (महाभाष्य) निष्कर्षादेव निर्णयः । इति । द्रव्यं च सज्ञाविषयः, सञ्ज्ञा च चिरन्तनी आधुनिकी च, असौ द्विविधाऽपि यादृच्छिकी, वव सन्निवेशितधर्मरूपत्वात् । अत्राहुः-"तच्छब्दानां च व्यक्तावेव सङ्केतग्रहः । द्रव्यस्य व्यक्तिव्यतिरिक्तत्वाभावेन उपाधित्वाभाषान्नानात्वाभावेन आनन्त्यव्यभिचारदोषाभावाच्च । अत एवोक्तं कविराजैः-'द्रव्यशब्दा एकव्यक्तिवाचिनः ।' इति । यत्तु-'सज्ञाशब्दानां सञ्ज्ञायामेव सङ्केतग्रहः, उपस्थाप्योपस्थापकभावेन अविनाभावाद व्यक्तेराक्षेपः।' इत्याहः, तन्त्र, सझायाः शब्दानतिरिक्तत्वेन तस्य च उच्चारणभेदेन भिन्नत्वे आनन्त्यव्यभिचारप्रसङ्गात् । एवं च- 'हरित्वडित्थत्वादिकं व्यक्तिखरूपमेव, न तु तद्भिग्नं किञ्चित् ।' इति। क्रिया पुनः भावनोत्पादनादिव्यपदेश्या साध्या । तथोक्तम्'व्यापारो भावना सैवोत्पादना सैव च क्रिया।' इति, 'यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात्सः क्रियेत्यभिधीयते ॥' इति च ।" इति । तथा च प्राणप्रदा जातिः, विशेषाधानहेतुर्गुणः, सज्ञाविषयो द्रव्यम्, साध्या क्रिया चेति चतु|पाधिः । तदेवम्-'गौः, शुक्लः, चलो, डित्थ'इत्यादौ शब्दानां प्रवृत्तेरपि निमित्तं चतुष्प्रकारम, अत एवोक्तं महाभाष्यकारैः-'गौः, शुक्लः, चल:, डित्थः' इत्यादौ 'चतुष्टयी शब्दानां प्रवृत्ति:।' इति । तथा च-'जातावेव सङ्केत'इति मीमांसकाः, 'जात्याद्युपाधिषु सङ्केत' इति च वैयाकरणाः । अत्र मीमांसकानामिदमभिधानम्दधि-हंस-वर्ण-हरिद्राऽऽद्याश्रयेषु वस्तुतो भिन्नेष्वपि शुक्लपीतादिषु 'शुक्लः शुक्ल' इत्यादिप्रतीत्युत्पत्तिहेतुः, बालतरुणाद्यदीरितेष हरिडित्थादिशब्देषु प्रतिक्षणं भिद्यमानेषु हरिडित्थाद्यर्थेषु वा हारत्वडिस्थत्वादिप्रतीत्युत्पत्तिहेतुः, क्षीरतण्डलगुडानां प्रीयादिपाकेषु पाकत्वादिप्रतीत्युत्पत्तिहेतुश्च जातिरेवेति सर्वेषां शब्दानां प्रवृत्तिनिमित्तभूतैका जातिः । इति । अन्येषांतु-गौः शुक्लश्चलो डिस्थ इत्यादौ गवादिशब्दानां जात्याधुपाधयः प्रवृत्तिनिमित्तभूताश्चत्वारः । न च सर्वत्रैव जातिः, 'शको गौ' रिति प्रयोगापत्तेः । 'जातेरस्त्रीविषयादयोपधात् ।' ४११६३ इति ङीषो बाधाभावात् । अत एव महाभाष्यकाराः प्राहु:-'का जातिनाम ? 'आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्माह्या गोत्रं च चरणैः सह ॥' इति । अपर आह-प्रादुर्भावदिनाशाभ्यां सत्त्वस्य युगपद् गुणैः । असर्वलिङ्गां बह्वों तां जाति कवी विदुः ॥ गोत्रं च चरणं च । कः पुनरेतयोर्लक्षणयोविशेषः ? यथा पूर्व जातिलक्षणं तथा कुमारीभार्य इति भवितव्यम् , यथोत्तरं तथा- 'कुमारभार्य' इति भवितव्यम् ?' इति । कैयटा व्याचक्षते- 'का जानिरिति, लक्षणरिप्रतिपत्त्या प्रश्नः ? आकृतिग्रहणेति । गृह्यतेऽनेनेति ग्रहणम् इति कारणसामान्ये पदं संस्क्रियते. तत्राकृतिशब्दसन्निधाने स्त्रीत्वप्रतिपत्तिर्बहिरङ्गत्वात् स्त्रीप्रत्ययनिमित्तं न भवति । आकृतिर्ग्रहणं
१ यदृच्छया सन्निवेशितेति यादृच्छिको । तथा च-वत्रा स्वेच्छया हरिडित्थादिशब्दानां प्रवृत्तिनिमित्तत्वे सन्निवेशितो यो धर्मस्तत्स्वरूपा सझेति फलितम् । अत्राहुः-'असौ (धर्मः) पुनः परम्परया व्यक्तिगतश्चरमवर्णाभिव्यायोऽखण्डः स्फोट' इत्येके, 'आनुपूर्व्यवच्छिन्नो वर्णसमुदाय' इत्यन्ये, 'केवला व्यक्तिरित्यपि केचित ।
२ अयमर्थ:-'यावत् सर्वम् । सिद्धम्भूतं वर्तमानध्वंसप्रतियोगीति यावत्, यथा 'अपाक्षी'दित्यादौ । असिद्धम्भूतभिनं वर्तमानतादृशप्रागभावप्रतियोगीति यावत्, वा । यथा-'पचति,' 'पक्ष्यती,' त्यादौ । व्यापारवृन्दं साध्यत्वेन तत्प्रकारेणाभिधीयते, साऽभिधीयमाना च क्रिया । सा च-आश्रितक्रमरूपत्वादाश्रितः क्रमो येन स एवं रूपं यस्य तस्य भावस्तत्त्वं तस्मात तथोक्तादित्यर्थः । क्रियेत्यभिधीयते ॥' इति । अन्ये त्वाहुः-साध्यत्वेनेति सिद्धत्वेनेत्यस्याप्युपलक्षणम्, तेन साध्यत्वेन सिद्धत्वेन चेत्यर्थः । उक्तं च-'साध्यत्वेन क्रिया, तत्र धातुरूपनिबन्धना। सिद्धभावस्तु यस्तस्याः स धादिनिबन्धनः ॥' इति । तथा च-'क्रियान्तराकाङ्क्षाऽनुत्थापकताऽवच्छेदकरूपवत्त्वं कारकान्वयिताऽवच्छेदकरूपवत्त्वं वा माध्यत्वम। यथा 'पचति, पक्ष्यति, अपाक्षीत्' इत्यादौ । इदमेव असत्त्वभूतत्वम् , तदुक्तम्-'असत्त्वभूते। भावश्च तिङपदैरभिधीयते।' इति । क्रियान्तराकाङ्क्षोत्थापकताऽवच्छेदकरूपवत्त्वं, कारकानन्वयिताऽवच्छेदकरूपवत्त्वं वा सिद्धत्वम् । यथा-'पाकः, पक्तिः, पचनम्' इत्यादौ । इदमेव च सत्त्वभूतत्वम् ।' इति ।
३ केचित्त्वाहुः-'त्रय्येव शब्दानां प्रवृत्तिः । 'त्रयीशब्दानां प्रवृत्तिः । यदृच्छाशब्दा न सन्ति ।' इत्याद्युत्तरग्रन्थानुसन्धानात् ।' इति ।