________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
१६ मुख्यार्थबाधे तद्युक्तो ययाऽन्योऽर्थः प्रतीयते । रूढेः प्रयोजनाद् वाऽसौ लक्षणा शक्तिरर्पिता ॥ ८ ॥
यस्याः सा
'कलिङ्ग: साहसिकः' इत्यादौ ' कलिङ्गादिशब्दो देशविशेषादिरूपे स्वार्थेऽसम्भवन् आकृतिग्रहणा, अवयवनिवेश विशेषव्यङ्गथेत्यर्थः । एतेन - गोत्वादिजातिर्लक्षिता, ब्राह्मणत्वादिस्तु न सङ्गृहीता । ब्राह्मणक्षत्रियादीनां संस्थानस्य सदृशत्वात् इति तत्सङ्ग्रहायाह - लिङ्गानामिति । लिङ्गानि सर्वाणि भजतीति सर्वशब्दस्य लिङ्गापेक्षित्वेऽपि गमकत्वाद् भजो ण्विरिति ण्विप्रत्ययः । लिङ्गानामिति कर्म्मणि षष्ठी । अप्राप्तप्रमाणार्थ चेदं वचनम्, इति तटादेः सर्वलिङ्गत्वेऽपि आकृतिग्रहणत्वाज्जातिरूपोपपत्तिः । उपदेशापेक्षं च लिङ्गानामिति । जातिलक्षणमिति ब्राह्मणत्वादिरेव लक्ष्यते । तेन देवदत्तेत्वसर्वलिङ्गत्वेऽपि जातिलक्षणङीषभावः । सकृदिति अयं गौरिति सकृदुपदिष्टा जातिर्निगृहीतुं निश्चेतुं पिण्डान्तरे शक्येत्यर्थः । गोत्रमिति । अपत्यमित्यर्थः । चरणशब्देन शाखाऽध्यायिनो गृह्यन्ते । गोत्रस्य सर्वलिङ्गत्वात् पृथगुपादानं 'नाड्यायनं नपुंसक' मिति दर्शनात् । प्रादुर्भावेति । सत्त्वस्य द्रव्यस्य प्रादुर्भाव विनाशाभ्यां याऽऽविर्भावतिरोभवौ प्राप्नोति । यावद्द्रव्यभाविनीत्यर्थः । गुणैर्युगपद् द्रव्येण सम्बध्यते यथा निर्गुणस्य द्रव्यस्योपलम्भो न भवति, एवं जातिरहितस्यापि इत्यर्थः । बह्वर्थामिति सर्वव्यक्तिव्यापिनी मित्यर्थः । अर्थशब्दोऽत्र विषयवाची । चरणानीति । चरणशब्दो ऽध्ययनवचनः, इह तु उपचारात् अध्येतृषु वर्त्तते । कुमारीभा इति । कौमारमयावद्द्रव्यभाव्यपि आकृतिग्रहणत्वाज्जातिरिति, जातेश्चेति पुंवद्भावप्रतिषेधः । उत्तरे तु लक्षणे कौमारं जातिर्न भवति, अयावद्द्रव्यभावित्वात् । पूर्वोक्तमेव लक्षणं महाभाष्यकारस्याभिमतम्, 'अपर आहे' त्यभिधानात् । ' इति । तथा च-युवतितरेति ङयाप्सूत्रे उदाहरणं ददौ तसिलादिष्विति प्राप्तस्य पुंवद्भावस्य 'जातेश्चेति निषेधात् ।' इति दिक् । एवमभिधां निरूप्य लक्षणां निरूपयितुमुपक्रमते - अथेत्यादिना ।
अथाभिधायाः सप्रपञ्चं निरूपणानन्तरम् । लक्षणा लक्ष्यते १६ मुख्यार्थबाध इत्यादिना ।
१६ मुख्यार्थबाधे मुख्यार्थस्य वाच्यार्थस्य बाधोऽन्वयानुपपत्तिस्तस्मिंस्तथोक्ते । 'सती'ति शेषः । अन्वयस्य सम्बन्धस्यानुपपत्तिरुपपत्त्यभावः, स च क्वचित्, साक्षात् सम्भवाभावमुखेन, क्वचित् पुनः तात्पर्य्यानुपपत्तिमुखेन तात्पर्याविषयतया वा; इति बोध्यम् । पुंयोगादाख्यायाम् । ४।१।४८ इति सूत्रे महाभाष्यकारैरुदाहृते 'गङ्गायां घोष:' इत्यादौ प्रत्यक्षादिप्रमाणेन प्रवाहादिरूपस्य मुख्यार्थस्य घोषाद्यधिकरणत्वादिना सम्भवाभावे इति भावः । तद्युक्तस्तेन प्रत्यक्षादिप्रमाणेन बाधितेन मुख्यार्थेन युक्तः सम्बद्धः साक्षात्सम्बन्धं प्राप्त इति यावत्, इति तथोक्तः । अन्यो भिन्न: मुख्यार्थातिरिक्त इति यावत् । अथैः तीरादिरूपः पदार्थ इति भावः । यया यद्वारा यद्वृत्तिद्वारेति यावत् । प्रतीयते प्रतीतिपथमेति । असौ ' से 'ति शेषः । रूढेः प्रसिद्धेः प्रयोगप्रवाहादिति यावत् । अत्र 'ल्यब्लोपे कर्म्मण्यधिकरणे च ।' इति वार्त्तिकेन पञ्चमी, एवमुत्तरत्रापीति बोध्यम् । तथा च - रूढिमुद्दिश्येत्यर्थः । वाऽथवा । प्रयोजनात् फलात् शीतलत्वपावनत्वाद्यतिशयबोधनरूपं फलमुद्दिश्येति यावत् । अर्पिता आरोपिता ( अत एवास्या अमुख्यात्वम्, एतदर्थस्य च मुख्यातिरिक्तत्वमिति बोध्यम्) । लक्षणा लक्ष्यतेऽनयेति तथोक्ता तन्नाम्नीति भावः । शक्तिर्वृत्तिः । ' ज्ञेये 'ति शेषः । अयम्भावः – 'गङ्गायां घोषः, ' 'कूपे गर्गकुलम्,' 'कलिङ्गः साहसिक:, ' 'काकेभ्यो दधि रक्ष्यताम्' इत्यादौ 'जलप्रवाहरूपगङ्गाऽधिकरणको ग्रामविशेष: ' इत्याद्यर्थः प्रथममुपतिष्ठमानः सङ्केतितात्माऽत एवास्य मुख्य इति व्यपदेशः, मुख आदौ भव इति व्युत्पत्त्यनुगतत्वात् । अस्य च बाधे लक्षणायाः प्रवृत्तिः, अत एव नेयं मुख्या, किन्तु - आरोपिता शक्तिः । इति ॥८॥
४३
भथ लक्षणा-
स्वयं सूत्रार्थं विवृणोति - ' कलिङ्गः साहसिकः' इत्यादिना ।
'कलिङ्गः 'जगन्नाथात्पूर्वभागे कृष्णातीरान्तरे शिवे । कलिङ्गदेश' इत्युक्तो देशविशेषः । साहसिकः साहसं दुष्कर्म विकर्मेति यावत् अस्यास्तीति तथोक्तः । ' साहसं तु दमे दुष्करकर्म्मणि । अविमृष्यकृतौ धाष्टर्ये' इति हैम: । 'अत इनिठनौ ।' ५।२।११५ इति ठन् । 'ठस्येकः ।' ७१३।५० इतीकादेशः । इत्यादौ । आदिना - 'वो भीरुः । ‘वेदान्तो मोक्षनिश्रेणि:, ' ' गङ्गा स्वर्गस्य वैजयन्ती' इत्यादीनां ग्रहणम् कलिङ्गादिशब्द आदिना वङ्गादीनां ग्रहणम् । देशविशेशादिरूपे । आदिना शास्त्रविशेषादीनां ग्रहणम् । स्वार्थे मुख्यार्थ इति भावः । असम्भवन् साहसिक - .