________________
साहित्यदर्पणः।
[ द्वितीयःयया शब्दशक्त्या स्वसंयुक्तान् पुरुषादीन् प्रत्याययति, यया च-'गङ्गायां घोष' इत्यादौ 'गङ्गा' दिशब्दो जलमयादिरूपार्थवाचकत्वात् प्रकृतार्थेऽसम्भवन् स्वस्य सामीप्यादिसम्बन्धसम्बन्धित बोधयति, सा शब्दस्य अर्पिता स्वाभाविकेतरा ईश्वरानुद्भाविता वा शक्तिलक्षणा नाम । पूर्वत्र हेतू रूढिः प्रसिद्धिरेव, उत्तरत्र 'गङ्गातरे घोष' इतिप्रतिपादनालभ्यस्य शीतत्वपावनत्वातिशयस्य बोधनरूपं प्रयोजनम् । हेतुं विनाऽपि यस्य कस्यचित सम्बन्धिनो लक्षणेऽतिप्रसङ्गः स्यात; इत्युक्तं 'रूढेः प्रयोजनाद्वा'इति।
त्वानुपपत्त्या व्यापारविमुखः सन् । यया।शब्दशक्त्या शब्दवृत्त्येत्यर्थः, शक्ति-वृत्त्योरभिन्नार्थत्वात् , अत एव-'सा वृत्तिwञ्जना नामेति विवृण्वानाः ‘सा शब्दस्यार्थस्य.. शक्तिय॑ञ्जन...प्रत्यायनादिविषया व्यञ्जना नामेति वक्ष्यन्ति कविराजाः । स्वसंयुक्तान् स्वेन स्वीयेनार्थेन संयुक्ताः कृतसम्बन्धास्तान्। पुरुषादीन् । आदिना तलक्ष्यब्रह्मसाक्षात्कारादीनां ग्रहणम् । प्रत्याययति प्रतीति नयति (इदं च रूढिमुद्दिश्याभिधानम् )। यया। च 'शब्दशक्त्ये'ति शेषः । 'गङ्गायाँ तन्नान्यां नद्यामित्यर्थः । घोषो ग्रामविशेषः । ‘घोष आभीरपल्लिः स्या' दित्यमरः ।' इत्यादौ । आदिना 'काकेभ्यो दधि रक्ष्यताम्' 'भक्ति: साक्षान्मोक्षः,' इत्यादीनां ग्रहणम् । गङ्गाऽऽदिशब्दः। आदिना काकादीनां ग्रहणम् । जलमयादिरूपार्थवाचकत्वात् । जलमयो जलमात्रस्वरूपः । आदिना पक्षिविशेषादीनां ग्रहणम् । प्रकृते घोषसद्भावदधिरक्षणार्थयत्नकर्त्तव्यताऽऽद्यभिधाने । असम्भवन् तात्पर्य्यानुपपत्त्याऽन्वयमलभमानोऽभिधया प्रवर्तितुं पराभवन् इति यावत् । स्वस्य गङ्गाकाकादेरित्यर्थः । सामीप्यादिसम्बन्धसम्बन्धिनम् । आदिनोपघातकत्वादीनां ग्रहणम् । तटादिम् । आदिना यावद्दध्युपघातकादीनां ग्रहणम् । बोधयति प्रत्याययति (इदं प्रयोजनमुद्दिश्याभिधानम्)। सा रूढिमूलात्वप्रयोजनमूलात्वाभ्यां द्विविधेति भावः । शब्दस्य। अर्पिता वक्रादितात्पर्योपपत्तये कल्पिता। अत एव-स्वाभाविकेतरा। खाभाविको हि शब्दव्यापारोऽभिधा, तद्भिन्नेति भावः । वा यद्वेति भावः ( 'ईश्वरेच्छा शक्ति'रिति नयाभिप्रायेणेदं पक्षान्तरोत्थापनम् ) । ईश्वरानद्धावितेश्वरेण (स्वेच्छया) अनुद्भावितोद्भावितातो भिन्नेति तथोक्ता। इदानीन्तनैरेव तात्पर्य्यानुपपत्तोद्भावितेति भावः । शक्तिः । लक्षणानाम प्रसिद्धा ज्ञेया । 'नाम प्राकादयसम्भाव्यक्रोधोपगमकुत्सने।' इत्यमरः ।
ननु द्विविधयोरेतयोः कुत्र केत्यपेक्षायामाह-पूर्वत्रेत्यादि ।
पूर्वत्र 'कलिङ्गः साहसिकः' इत्यादावित्यर्थः । रूढिः प्रसिद्धिः। एव न तु प्रयोजनमिति भावः । हेतुः कारणं लक्षणायाः स्वीकारे निमित्तमित्तमित्तम् अतः रूढिमूला लक्षणेति निर्गलितोऽर्थः । उत्तरत्र 'गङ्गायां घोष' इत्यादावित्यर्थः । 'गङ्गातटे। आधारे सप्तमीयम् । तथा च गङ्गातटाधिकरणक इत्यर्थः । घोषः।' इतिप्रतिपादनालभ्यस्येत्येवं प्रतिपादनेनाप्यलभ्यस्य । इदमुपलक्षणं, तथा च-इत्यादिप्रतिपादनालभ्यस्येति निष्कृष्टम् । आदिना-'काकेभ्य उपघातकेभ्यो दधि रक्ष्यताम्' इत्यादीनां ग्रहणम् । शीतत्वपावनत्वातिशयस्य इदमप्युपलक्षणम् , तथा च-शीतत्वपावनत्वाद्युपघातकमात्रत्वाद्यतिशयस्य । 'घोषादिनिष्टस्ये 'तिशेषः । बोधनरूपम् । प्रयोजनं 'गङ्गाऽधिकरणकशीतलत्वाद्यतिशयितघोष' इत्यादि व्यङ्गय फलमिति भावः । 'हेतुरिति शेषः । तथा च-प्रयोजनमूला लक्षणेति निष्कृष्टम् । ननु लक्षणायाः प्रवृत्ती रूढिप्रयोजनयोरन्यतरस्य हेतुत्वाभिधाने किं प्रयोजनमित्याह-हेतं रूढिरूपं प्रयोजनरूपं वा कारणमिति भावः । विना । अपि । 'लक्षणाङ्गीकारे'इति शेषः । यस्य । कस्यचित् । सम्बन्धिनो मुख्यार्थयोगिनोऽर्थस्य । लक्षणे 'लक्षणाया'इति शेषः । विषये सप्तमीयम् । अतिप्रसङ्गः। स्यात् यद्वा-सम्बन्धिनोऽतिप्रसङ्गो लक्षणं लक्षणालक्षणे स्यादिति भावः । इतीत्यर्थम् । उक्तम् । 'रूढेः प्रयोजनाद्धा'इति । इदं वक्तव्यम् रूढे: प्रयोजनाद्वा इति नयेन रूढिप्रयोजनयोरन्यतरस्य लक्षणायाः प्रवृत्तौ हेतुत्वानङ्गीकारेऽपि यं कञ्चिन्मुख्यार्थसम्बन्धमाश्रित्यैव लक्षणा यद्यङ्गीक्रियेत तदा'कमले चरणाघातं मुखं सुमुखि ! तेऽकरोत् ।' इत्यादौ लक्षणाऽतिप्रसज्येत, न च नेयार्थत्वं दोषः । इति । इदमपि वक्तव्यम्-'राजत्युमावलभ'इत्यादौ शाब्द्यां व्यञ्जनायामतिप्रसङ्गवारणाय 'मुख्यार्थबाधे'इति, एवं सति-असम्बन्धे लक्षणायां 'गङ्गायां घोष'इत्यादौ गङ्गाऽऽदिपदानां यमुनाऽऽदितटानामुपस्थापकत्वेऽतिप्रसङ्गवारणाय'तदयुक्त'इति । मुख्यार्थेन सम्बद्धमर्थान्तरमेवानवा निरूप्यते इति निदर्शयितुम् 'अन्योऽर्थ'इति । अभिधेवैषाऽपीति 'शक्ति'रिति । नेय पदार्थबोधकत्वसाधर्म्यणाभिधेति 'अर्पिते'ति दिक् ।