________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । केचित्तु-'कर्मणि कुशल'इति रूढाबुदाहरन्ति, तेषामयमभिप्रायः -कुशान् लातीति व्युत्पतिलभ्यः कुशग्राहिरूपो मुख्योऽर्थः प्रकृते असम्भवन् विवेचकत्वादिसाधर्म्यसम्बन्धसम्बन्धिनं दक्षरूपमर्थ वोधयति, तदन्ये न मन्यन्ते, कुशग्राहिरूपार्थस्य व्युत्पत्तिलभ्यत्वेऽपि दक्षरूपस्यैव मुख्यार्थत्वात् । अन्यद्धिशब्दानां व्युत्पत्तिनिमित्तम्, 'अन्यच्च प्रवृत्तिनिमित्तम् । व्युत्पत्तिलभ्यस्य मुख्यार्थत्वे 'गौः शेते'इत्यत्रापि लक्षणा स्यात् , 'गमेोः ।' (उ०) २०६७ इति गमधातो?प्रत्ययेन व्युत्पादितस्य गोशब्दस्य शयनकाले प्रयोगात् ।
अथ प्रकाशकारेणोदाहृतं रूढिलक्षणोदाहरणं न सम्यगिति जिज्ञासूपकृतये ब्रूते-केचित्त्वित्यादिना ।
केचित केऽपि प्रकाशकारादय इत्यर्थः । अत्र नाम्ना लेखाभावोऽनाप्तत्वं, बहुवचनं तादृशबाहुल्यम् , अथापि विचारमान्येन तेषामपराधित्वाभावं द्योतयितुमिति बोध्यम् । तु पुनरित्यर्थः । 'कर्मणि कर्मविषयक इत्यर्थः । अत्र विषये सप्तमी ॥ कुशलः कुशान् लाति गृह्णातीति तथोक्तः, कुशग्राही तद्वच्चतुर इत्यर्थः।' इतीत्येवम् । रूढौ उदाहरन्ति । ननु अमीषामभिप्रायमज्ञात्वा किं दूषयितुं प्रवृत्ता इत्याशङ्कयाह-तेषामित्यादि । तेषां प्रकाशकारादीनामित्यर्थः । अयं "निर्देक्ष्यमाण'इति शेषः । भिप्रायः। 'कुशान दर्भान् 'अस्त्री कुश कुशो दर्भः पवित्रम्' इत्यमरः । लाति गृह्णाति । 'ला'दानग्रहणयोः । 'आतोऽनुपसर्गे कः ।' ३।२।३ इति कः।' इति व्युत्पत्तिलभ्यः । कुशग्राहिरूपः। 'कुशल' इति शेषः । मुख्योऽभिधया प्रतिपाद्यत्वेन प्रथममुपस्थितिविषय इत्यर्थः । प्रकृते ‘कर्मणि कुशल' इत्यत्र कर्मविषयककुशग्राहितावानित्येवं वाक्यार्थोपस्थिताविति यावत् । असम्भवन् सामञ्जस्याभावेन स्वरूपसद्भावमलभमानः, कर्मविषयकचतुरताशालीत्येवंविधं वक्तृतात्पर्य वाऽनुपपत्त्योन्नेतुमशक्नुवन्निति भावः । विबेचकत्वादिसाधर्म्यसम्बन्धसम्बन्धिनं विवेचकत्वं योग्याहरणायोग्यापहरणरूपं विवेचनकारित्वमादौ यस्य (एवमुत्पाटनीयम् एवं चन; इत्यादेः) तथोक्तस्य साधर्म्य समानधर्मत्वं तस्य यः सम्बन्धस्तस्य सम्बन्धी तदभिन्नसम्बन्धवांस्तं तथोक्तम् । दक्षरूपं दक्षश्चतुरः स एव रूपं स्वरूपं यस्य तम् । अर्थम । बोधयति लक्षयति । 'लक्षणयेति शेषः । अत एव तद्व्याख्यातारो व्याचक्षते-'कुशान् दर्भान् लाति आदने इति व्युत्पत्त्या कुशलपदं कुशग्राहिणि शक्तम् , दक्षे तु रूढथा; इतीदं लाक्षणिकम् । न च 'मुख्यार्थबाधाप्रतिसन्धानेऽपि झटिति दक्षबोधाच्छक्तिरेव, अन्यथा-मण्डपादिपदस्यापि मण्डं पिबतीत्यादिव्युत्पत्त्या गृहादौ शक्त्यभाव'इति वाच्यम् , कृप्तावयवशक्तिकस्य अन्यत्र गृहादिरूपेऽये लक्षणयैवोपपत्तावतिरिक्तकल्पनाया अन्याय्यत्वात्, मण्डपादिपदस्यापि गृहादौ निगूढलक्षणाऽङ्गीकारात, न चैवं पङ्कजादिष्वपि लक्षणाऽऽपत्तौं योगरूढिविलोपापत्ति'रिति वाच्यम्, तत्र योगार्थविशिष्टरूद्ध्यर्थस्यैव नियमेनोपस्थितौ रूढिकल्पने भेदात् । मुख्यार्थबाधप्रतिसन्धानमपि व्युत्पन्नानामस्त्येव, कदाचित् शक्तिभ्रमाद्बोधे तदभावेऽपि न क्षतिः ।' इति ।
इत्येवमभिप्रायोद्घाटनपुरःसरं केषाश्चिदभिधानमुन्नीय स्वसिद्धान्तमुन्निनीषुराह-तदित्यादि । अन्येऽस्मदादर तत् 'यत् केचित्तथाऽऽह' रिति शेषः । न नैवेत्यर्थः । मन्यन्ते । कुत इत्याह-कुशग्राहिरूपार्थस्य । व्युत्पत्तिलभ्यत्वे व्युत्पत्त्या स्वाभिमतया योगाविष्कृत्या लभ्यस्तस्य भावस्तत्त्वं तस्मिन् तथोक्ते । अपि । दक्षरूपस्य। एव, न तु कुशग्राहिरूपस्येत्यर्थः । मुख्यार्थत्वात्। ननु कथमेतदित्याह-हि यतः । 'हि हेताववधारणे।' इत्यमरः । शब्दानां कुशलमण्डपादीनां पदानामित्यर्थः । व्युत्पत्तिनिमित्तं व्युत्पत्तेनिमित्तं चिहं तदाख्यं वा कारणमिति तथोक्तम् । अन्यत् भिन्नम् । प्रवृत्तिनिमित्तं प्रवृत्तेस्तत् तदर्थबोधकत्वस्य निमित्तं चिद्रं न तदाख्यं वा कारणमिति तथोक्तम् । च पुनरित्यर्थः । अन्यत् भिन्नम् । नहि व्युत्पत्तेश्चिहं प्रवृत्तिः न वा प्रवृत्तेश्चिह्न व्युत्पत्तिरिति, नहि व्युत्पत्तिः प्रवृत्तेः प्रयोजिका, न वा प्रवृत्तिर्युत्पत्तेः प्रयोजिकेति वा भावः । 'निमित्तं हेतुलक्ष्मणोः ।' इत्यमरः । अत्र विप्रतिपत्तो दोषमाह-व्युत्पत्तिलभ्यस्य कुशग्राहित्वादिरूपस्यार्थस्येति भावः । मुख्यार्थत्वे मुख्यत्वाङ्गीकारे । 'व्युत्पत्तिः प्रवृत्तेनिमित्तम् ।' इति नयेनेति शेषः । 'गौः । शेते खपिति ।' इत्यत्र । अपि । 'गमेडॉ।' २०६७ इति ‘औणादिकेन सूत्रेणे'ति शेषः । गमधातोः । डोप्रत्ययेन । व्युत्पादितस्य व्युत्पत्तिं नीतस्य । गोशब्दस्य 'गौ' रिति शब्दस्येत्यर्थः । शयनकाले 'शेते' इति क्रियापदेन 'बोध्य' इति शेषः । प्रयोगात् प्रयोगं निमित्तीकृत्येत्यर्थः । लक्षणा । स्यात् । गोपदस्य व्युत्पत्त्या गमनेकर्तरूपेऽर्थे बोध्यमाने तत्कर्तृकशयनव्यापारपरभवनासम्भवात्, ‘गौः