________________
४६
तद्भेदानाह -
साहित्यदर्पणः ।
[ द्वितीय:
१७ मुख्यार्थस्येतराक्षेपो वाक्यार्थेऽन्वय सिद्धये ।
स्यादात्मनोऽप्युपादाना-देषोपादानलक्षणा ॥ ९ ॥
रूढौ उपादानलक्षणा यथा- 'श्वेतो धावति ।' प्रयोजने यथा- 'कुन्ताः प्रविशन्ति ।' इति । शेते' इत्यत्र गोपदं लाक्षणिकं स्यादिति भावः । इदमुक्तम् - यथा 'गौः शेते' इत्यादौ गवादिपदानि न लाक्षाणिकानि मन्यन्ते, तथा 'कर्म्मणि कुशलः । ' इत्यादौ कुशलादीन्यपि पदानि । तथा च- 'प्रवृत्तेर्निमित्तं न व्युत्पत्ति' रित्यन्ततः स्वीकर्तव्ये 'अनड्डान् सौरभेयो गौः' इत्यादिना गवादिपदानां वाचकत्वमिव 'कृती कुशल इत्यपि ।' इत्यादिना कुशलादीनामपि । इति निष्कृष्टम् । न च 'असति बाधकेऽवयवशक्तेः रुदिशक्त्या नियन्त्रणा योगेन कुशलपदस्य कुशग्राहिणि शक्तत्वमव्याहतमेव । किञ्च प्रयोगप्रवाहेण एव प्रवृत्तिनिमित्तत्वस्वीकारे यौगिकव्यवहारस्य मूलच्छेदो दुर्वारः । ' इति वाच्यम् । अमराद्यनुद्बोधितसङ्केतानां यौगिककल्पनया तद्व्यवहारस्यानुच्छेदात् । किञ्च - यौगिकस्यैव अर्थस्य मुख्यत्वाङ्गीकारे हंसादीनां लाक्षणिकत्वं, 'श्वेतः शोभते' इत्यादौ श्वेतादीनां पुनः पदानां 'गुणवचनेभ्यो लुगिष्ट' इत्यादिना मतुबादीनां लुगादौ व्युत्पन्नानां वाचकत्वं स्यात् । अस्तु वा व्युत्पत्तिरेव प्रवृत्तेर्निमित्तम्, किन्तु - 'लशुने भक्षितेऽपि न शान्तो व्याधिः । तथाहि - 'कौ भुवि शलति चालयति कार्याणी 'ति 'कुश्यति श्लेषयति फलैः कार्य्याणी 'ति व्युत्पत्त्या वा 'वृषादिभ्यश्चित् ।' १।१०६ इति कलच्प्रत्यये कुशलपदस्य दक्षरूपार्थोल्लासात् । अत एव तद्व्याख्यातारोऽप्याहुः - ये तु " कर्म्मणि कुशलः ।” “शरीरे लावण्यम्, " " विततो मण्डप : " इत्यादी प्रवृत्तिनिमित्तं व्युत्पत्तिरिति न स्वीकुर्वन्ति तै, 'तैलं सुसुरभि ' इत्याद्यूह्यम् ।' इति । अतः ' कुशललावण्यादिपदानां यौगिकत्वाभासेऽपि झटिति 'रूढिर्योगापहारिणी' इत्युक्तदिशा रूढ्या व्युत्पत्तिलभ्यस्यार्थस्य तिरोभावान्न तत्र तत्र लक्षणा । यत्र वा उभयविधार्थोद्बोधने स्वाभिनिवेशः, तत्र संयोगादिबलाद् यौगिकार्थोऽपि उपतिष्ठेत, किन्तु - न तावता रूढ्यर्थो लक्षणया यौगिकस्त्वभिधयेति बोध्यम् ।
अथास्या अर्थान्तरसङ्क्रमितवाच्यादिव्यवस्थायै भेदान् निर्देष्टुमुपक्रमते - तद्भेदानित्यादिना । तद्भेदांस्तस्याद्विविधाया निरुक्तलक्षणायालक्षणाया भेदाः प्रकारास्तान् । १७ मुख्यार्थस्येत्यादिना ।
१७ मुख्यार्थस्य वाच्यार्थस्य 'श्वेतो धावती' त्यादौ 'कुन्ताः प्रविशन्ती' त्यादौ श्वेतादिकर्तृकधावनादिरूपस्य कुन्तादिकर्तृकप्रवेशनादिरूपस्य वाऽर्थस्येति यावत् । वाक्यार्थे वाक्यस्य'श्वेतो धावती' त्यादेः 'कुन्ताः प्रविशन्ती' त्यादेव पदोच्चयस्यार्थो वक्ष्यमाणलक्षणया तात्पर्यवृत्त्या प्रतिपाद्यस्तस्मिंस्तथोक्ते । विषये सप्तमीयम् । अन्वयसिद्धये अन्वयस्य सम्बन्धस्य श्वेतादिकर्तृकधावनादिक्रियारूपस्य सिद्धिः सङ्गतिरनुपपत्तिपरिहारस्तस्यै तदर्थमिति भावः । इतराक्षेप इतरस्य श्वेतादिरूपमुख्यार्थभिन्नस्य अश्वादिरूपस्यार्थस्येति यावत् । आक्षेप आकर्षणमिति तथोक्तः । ' आक्षेपो भर्त्सना कृष्टिकाव्यालङ्कृतिषु स्मृतः ।' इति । उपादानलक्षणोपादाननाम्म्री लक्षणा । शाकपार्थिवादित्वान्मध्यम (नाम) पदलोपः । एषा । आत्मनो मुख्यस्य श्वेतादिरूपस्यार्थस्येत्यर्थः । अपि पुनरित्यर्थः । उपादानात्सङ्ग्रहणादपरित्यागात् । स्याद्भिद्यमाना भवेदिति भावः । इदमुक्तम् - लक्षणा रूढिमूला, प्रयोजनमूला च एषैव यदि मुख्येऽर्थेऽशेन स्थितेऽपि तस्य वाक्यार्थेऽन्वयलाभाय मुख्यातिरिक्तस्यार्थस्योपादानादुपादानं नाम लक्षणा । एतस्या उदाहरणेषु क्वचिन्मुरव्यार्थः क्वचित तद्विशिष्ट एतत्प्रतिपाद्यः क्वचित् पुनस्तदुभयं प्रधानं भवति । अत एव - ' कदली कदली' इत्यत्र द्वितीयकदल्यादिपदस्य शैत्यादिरूपधर्मान्तरेण कदल्याद्यर्थ एव, 'कुन्ताः प्रविशन्ति' इत्यत्रा चेतनस्य कुन्तादिपदस्य प्रवेशासम्भवात् स्वविशिष्टं पुरुषरूपमर्थान्तरम्, 'छत्रिणो यान्ति' इत्यत्र पुनर्यानक्रियाया: कर्तृत्वोपपत्त्या छत्रिपदार्थस्तावन्मात्राभिधाने तात्पर्याभावेन तदितरार्थश्च प्राधान्य मवलम्बेते । इति दिक् ॥ ९ ॥
तत् सर्वे निर्दिशन् स्वयं सूत्रार्थं स्पष्टयति- रूढावित्यादिना ।
रूढौ प्रसिद्धौ तदभिधेये निमित्ते सति प्रवर्त्तमानेति भावः । उपादानलक्षणोपादीयते पदार्थोऽनेनेत्युपादानं तदेव लक्षणेति तथोक्ता । यथा- 'श्वेतः । धावति ।' इत्यत्रेति शेषः । प्रयोजने 'निमित्ते सति प्रवर्त्तमाने ति शेषः । यथा 'उपादानलक्षणे 'ति पूर्वतोऽन्वेति । “कुन्ता भहाख्यानि शस्त्राणि । प्रविशन्ति ।" इति 'अत्रे' ति