________________
परिच्छेदः ]
रुविख्यया व्याख्यया समेतः ।
अनयोर्हि श्वेतादिभिः कुन्तादिभिश्च अचेतनतया केवलैर्धावनप्रवेशनक्रिययोः कर्तृतयाऽन्वयमल भमानैः एतत्सिद्धये आत्मसम्बन्धिनः अश्वादयः पुरुषादयश्च आक्षिप्यन्ते । पूर्वत्र प्रयोजनाभावाद् रूढिः, उत्तरत्र तु कुन्तादीनामतिगहनत्वं प्रयोजनम् । अत्र चात्मनोऽप्युपादानम्, लक्षणलक्षणायां परस्यैवोपलक्षणम्, इत्यनयोर्भेदः । इयमेवाजहत्स्वार्थेत्युच्यते ।
४७
शेषः । इदं चोपलक्षणं तेन 'श्वेतः शोभते,' 'छत्राणि यान्ती' त्यादौ च इयमेवेति सिद्धम् । अन्यथा 'श्वेतादिभि' रित्यादावादिपदोपादानं न सङ्गच्छेत । अत्र लक्षणसमन्वयं दर्शयति- हि यतः । अनयोद्विविधयोरुदाहरणयो'रिति शेषः । अत्र निर्द्धारणे षष्ठी सप्तमी वा । श्वेतादिभिः 'धावनक्रियाऽऽदिकर्तृत्वादिनाभिमतैरिति शेषः । कुन्तादिभिः प्रवेशनक्रियाऽऽदिकर्त्तृत्वादिनाऽभिमतैरित्यर्थः । च । अचेतनतयोपलक्षणेनामूर्त्ततया चेत्यर्थः । केवलैः स्वाश्रयभूताश्वादिसम्बन्धशून्यैः । धावनप्रवेशनक्रिययोरुपचारात् धावनादिक्रियायां प्रवेशनादिक्रियायां चेत्यर्थः । 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' इति नयेन क्रियापदस्य प्रत्येकं सम्बन्धः । अत्र विषये सप्तमी । कर्त्तृतया इदमप्युपलक्षणं, तेन 'श्वेतं पश्ये' त्यादौ कर्मत्वादिना चेति सिद्धम् । भन्वयं सम्बन्धम् । अलभमानैः । एतत्सिद्धये एतस्यान्व - यस्य सिद्धिरनुपपत्तिपरिहारेण निष्पत्तिरिति यावत्तस्यै । अत्र 'तादर्थ्ये चतुर्थी ति चतुर्थी । आत्मसम्बन्धिन : आत्मनः स्वस्य मुख्यार्थस्य सम्बन्धिनो वैशिष्टयादिसम्बन्धशालिन इति तथोक्ताः । अश्वादयः । पुरुषादयः । च (समुच्चयार्थमिदम् ) । आक्षिप्यन्ते आक्षिप्य प्रत्याय्यन्ते । अत्र विशेषं दर्शयति- पूर्वत्र पूर्वस्मिन् पूर्वमुदाहृते 'श्वेतो धावती'त्यादाविति यावत् । प्रयोजनाभावात् 'प्रसिद्धिमात्रनिमित्तसद्भावाच्चे 'ति शेषः । रूढिस्तन्निमित्तोपादानलक्षणेत्यर्थः । उत्तरत्रोत्तरस्मिन् उत्तरं पश्चादुदाहृते 'कुन्ताः प्रविशन्ती' त्यादाविति यावत् । तु । कुन्तादीनाम् । अतिगहनत्वमुपलक्षणेन आदिलाभ:, तथा च अतिगहनादित्वमित्यर्थः । प्रयोजनं, तन्निमित्तोपादानलक्षणेत्यर्थः । इदमुक्तम् - श्वेतकुन्तादीनाममूर्ताचेतनत्वादिना धावनप्रवेशनादिक्रियः कर्त्रादित्वानुपपत्तेर्धावनप्रवेशनादिक्रियाकर्त्रा दित्वोपपत्तये स्ववैशिष्टयादिसम्बन्धिनोऽश्वपुरुषादय आक्षिप्यन्ते । अस्या वक्ष्यमाणलक्षणातो भेदं दर्शयति- अत्र 'श्वेतो धावती' त्यादौ इत्यर्थः । च । आत्मनः स्वस्य श्वेतादिरूपस्य मुख्यस्यार्थस्येति यावत् । अपि 'न केवलं परस्याश्वादेरि 'ति शेषः । उपादानम्, 'अत उपादानलक्षणैवे 'ति शेषः । लक्षणलक्षणायां लक्षणनान्त्र्यां लक्षणायामित्यर्थः । शाकपार्थिवादित्वान्मध्यमपदलोपः । परस्य शक्यार्थतो भिन्नस्याश्वादेरित्यर्थः । एव । उपलक्षणमुपस्थापनम् । इतीत्येवम् । अनयोरुपादानलक्षणयोरित्यर्थः । भेदः । अस्याः पर्यायान्तरं दर्शयति- इयमुपादानलक्षणा । एव । अजहत्स्वार्था न जहत् त्यजन् स्वार्थो मुख्यार्थो यां सेति तथोक्ता । इतीत्याख्ययेत्यर्थः । उच्यते ।
अत्रेदं प्रतिभाति- 'श्वेतो धावती' त्यादौ श्वेतगुणादेरमूर्त्तादित्वेन 'कुन्ताः प्रविशन्ती' त्यादौ कुन्तादेरचेतनादित्वेन धावनादिप्रवेशनादिक्रियाकर्त्रादित्वासम्भव इति मुख्यार्थबाधः, वाक्यार्थे च श्वेतादेर्धावनादिकर्त्रादित्वोपपत्तये तत्सम्बन्धिनोऽश्वादय आक्षिप्यन्ते इति मुख्यार्थयोगः । रूढिप्रयोजनान्यतरनिमित्तत्वसद्भावासद्भावाभ्यां रूढिमूलाप्रयोजनमूला च लक्षणेति सिद्धम् । उपादानं तु श्वेतकुन्तादिरूपमुख्यार्थस्याक्षय मूर्त्तित्वात्, आत्मार्थापरित्यागेन परार्थोपस्थापनमिति तदर्थश्च । एवं- 'श्वेतो धावती' त्यादेः श्वेतगुणसमवेतोऽश्वो धावती' त्यादिः 'कुन्ताः प्रविशन्ति' इत्यादेः 'कुन्तवन्तः पुरुषाः प्रविशन्ति' इत्यादिश्च वाक्यार्थः । अत्र च श्वेतकुन्तादिरूपमुख्यार्थापरित्यागपुरःसरमश्वपुरुषादिरूपामुख्यार्थीपादानम् । अत एवात्रोपादानलक्षणा । एवं च - यत्र स्वार्थपरित्यागेन परार्थोपस्थापनं सा लक्षणलक्षणा, यत्र पुनः स्वार्थी - परित्यागेन परार्थोपस्थापन सोपादानलक्षणा, एष एवानयोर्भेद इति सिद्धम् । यत्तूक्तं तर्कवागीशैः 'अत्र “श्वेतो धावती” स्युदाहरणं चिन्त्यम् धावनानुकूलकृतिरूपस्य धावनकर्तृत्वस्याश्वसम्बन्धेनापि श्वेतगुणेऽन्वयासम्भवात् । न च "कुन्ताः प्रविशन्ती" स्यादौ यथा कुन्तस्याचेतनस्यापि पुरुषसम्बन्धेन प्रवेशकर्त्तृत्वमुपचर्य्यते, तथाऽत्राप्यचेतनस्य धावनकर्तृत्वमौपचारिकमिति वाच्यम्, कुन्तस्य पुरुषसम्बन्धोत्पन्नक्रियासम्बन्धेनैव कर्तृत्वोपचारात् । प्रकृते तु श्वेतगुणस्याश्वसम्बन्धेनापि क्रियासम्बन्धासम्भवात् । तस्मालक्षणलक्षणाया एवैतदुदाहरणम् ।' इति, तदाग्रहमूलम्, गुणगुणिनोः समवाय. सम्बन्धे भेदेन तयोरनवस्थानात् ख (श्वेत) समवेतपर ( अश्व ) कर्तृकधावनव्यापारस्य स्वस्मिन् ( श्वेते ) उपलक्षितस्वाबाधात् । न च श्वेतस्यामूर्त्तत्वेन मूर्त्तस्य कुन्तस्येव क्रियाकारित्वं चेतनविशेषसम्बन्धेनापि न सम्भवती 'ति वाच्यम्,