________________
साहित्यदर्पणः।
द्वितीय:१८ अर्पणं स्वस्य वाक्यार्थे परस्यान्वयसिद्धये ।
.. उपलक्षणहेतुत्वाद् एषा लक्षणलक्षणा ॥ १० ॥ रूढिप्रयोजनयोर्लक्षणलक्षणा यथा-"कलिङ्गः साहसिकः," "गङ्गायां घोषः" इति च । अनयोर्हि पुरुषतटयोर्वाक्यार्थेऽन्वयसिद्धये कलिङ्गगङ्गाशब्दावात्मानमर्पयतः ।
अचेतनस्य कुन्तस्येवामर्तस्यापि श्वेतगुणस्य क्रियाकर्त्तत्वोपचारिकल्पनाया युक्तत्वात् । वस्तुतस्तु- श्वेतगुणसमवेतस्याश्वस्यैव धावनक्रियायामन्वयोऽभिमतः । न तु अश्वसम्बन्धेन श्वेतस्य, अन्यथा-वाक्यार्थसम्बन्धोपपत्तये मुख्यार्थस्योत्तरार्थांक्षेपापेक्षव न स्यात् । ननु 'श्वेतः शोभते', 'श्वेतं पश्यति' इत्यादौ श्वेतादेः शोभनादिक्रियाकादित्वानुपपत्त्यभावादभिधैव 'कथं पुनर्लक्षणे ति चेत् सत्यम् , गुणस्याश्वादिसम्बन्धमन्तराऽनुपपत्तौ केवलस्य क्रियाकादित्वानुपपत्तिरिति बोध्यम् । इति दिक्।
लक्षणलक्षणाया लक्षणमाह- १८ अर्पणमित्यादिना ।
१८ स्वस्यात्मनः 'कलिङ्गः साहसिकः,' 'वङ्गो भीरुः' इत्यादौ कलिङ्गादिरूपस्य ‘गङ्गायां घोषः', 'मथुरा कृष्णं जपति' इत्यादौ गङ्गादिरूपस्य मुख्यस्यार्थस्येति यावत् । वाक्यार्थे 'कलिङ्गाभिन्नः साहसिकः इत्यादिरूपे 'गङ्गाऽधिकरणको घोष'इत्यादिरूपे वेति भावः । परस्य पुरुषतटादिरूपस्य मुख्यार्थतोऽतिरिक्तस्येत्यर्थः । अन्वयसिद्धयेऽन्वयस्य सम्बन्धस्य सिद्धिस्तस्यै । अर्पणं तदात्मनोपस्थापनम् । लक्षणलक्षणा लक्षणनाम्नी लक्षणेत्यर्थः । एषा 'चेति शेषः । उपलक्षणहेतुत्वाद् पलक्ष्यते (मुख्यार्थोऽमुख्यार्थत्वेनोपस्थीयते) इत्युपलक्षणं तस्य हेतुर्निमित्तं तस्य भावस्तत्त्वं तस्मात् । 'स्या'दिति शेषः ॥ १०॥
सूत्रार्थ निर्दिशन्नुदाहर्तुमुपक्रमते- रूढिप्रयोजनयोरित्यादिना।
रूढिप्रयोजनयो रूढिश्च प्रयोजनं च तयोः । सतिसप्तमीयम् । लक्षणलक्षणा । यथा-"कलिङ्गः 'जगन्नाथात् पूर्वभागे कृष्णातीरान्तरं शिवे । कलिङ्गदेश'इत्युक्तस्वरूपो देशविशेषः । साहसिकः साहसवान् बलात् चौर्यादिना वा हिंसक इति यावत् । 'साहसं तु दमे दुष्करकर्मणि । अविमृष्य कृतौ धाष्टय इति हैमः । 'अत इनिठनौ ।' ५।२।११५ इति ठनः ।" 'इत्यत्रे'ति शेषः । “गङ्गायाम् । अधिकरणे सप्तमीयम् । घोषो ग्रामविशेषः ।" इति अत्रेति शेषः । च 'क्रमादिति शेषः । उपपाद्य दर्शयति-अनयोरेतयोनुिविधयोरुदाहरणयोर्मध्य इत्यर्थः । हि यतः । कलिङ्गगङ्गाशब्दो कलिशब्दो गङ्गाशब्दश्चेत्यर्थः । 'क्रमादिति शेषः । पुरुषतटयोः पुरुषस्य तटस्य चेत्यर्थः । 'परार्थभूतयो'रिति शेषः । वाक्यार्थे कलिङ्गः साहसिक' इति वाक्यस्यार्थे गङ्गायां घोष' इति वाक्यस्यार्थे चेत्यर्थः । अन्वयसिद्धयेसम्बन्धसम्पादनाय । आत्मानं स्वं स्वार्थमिति यावत् । अर्पयत उपलक्ष्य स्थापयतः । इदमुक्तम्-'कलिङ्गः साहसिक' इत्यादौ रूढिमूला लक्षणलक्षणा, 'गङ्गायां घोष'इत्यादौ पुन: प्रयोजनमूला। तथाहि-- एकत्र 'कलिङ्गो नाम देशः साहसिक'इत्यादिर्मुख्यार्थः, रत्र 'गङ्गाऽधिकरणको प्रामविशेष'इत्यादिः । तत्र कलिङ्गादेः साहसिकत्वादेर्गङ्गादेश्च घोषाद्यधिकरणकत्वादेरर्थस्यानुपपत्तिः, इत्येवं लक्षणायाः प्रवृतौ पूर्वत्र रूढिः परत्र पुनः प्रयोजनं निमित्तम् । एवं सति कलिङ्गादेर्देशविशेषादिरूपो मुख्योऽर्थः साहसिकत्वाद्यनुपपत्त्या गङ्गादेजलप्रवाहादिरूपश्च घोषाधारभूतत्वाद्यनुषपत्त्या वखार्थे पुरुषाद्यात्मना तटाद्यात्मना चोपस्थापयत एतयोहि वाक्यार्थेऽन्वयः । एवं सति 'कलिङ्गः कलिङ्गभवः पुरुषः साहसिक'इत्यादिः 'गङ्गायां गङ्गातटे घोष' इत्यादिर्वाक्यार्थश्च । अयं भावः कलिङ्गादिर्गङ्गादिर्वा शब्दः खयं वाक्यार्थे सम्बन्धमलभमानः पुरुषादिरूपं तटादिरूपं वाऽर्थमुपस्थाप्य तत्तदात्मना सम्बन्धमुपपद्यते, इति मुख्यार्थस्य सर्वथा वाक्यार्थेऽन्वयानुपपत्त्या लक्ष्यार्थत्वेनोपस्थित्या लक्षणलक्षणा । 'स्वायत्ते शब्दप्रयोगे किमित्यवाचकं प्रयोक्ष्यामहे'इति नयेन 'गङ्गातटे घोष'इत्येवंबाचकं शब्दमपहाय 'गङ्गायां घोष'इत्याद्यभिधानं तदलभ्यं शीतलत्वपावनस्वादि द्योतयितुम् , अतोऽत्र प्रयोजनसद्भावात्तस्या एतन्मूलात्वं च न परत्र प्रयोगप्रवाहेणैव तथाऽभिधानात् । इति ।