Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 15
________________ परिच्छेदः ] रुचिराख्यया व्याख्या समेतः । अस्य ग्रन्थस्य काव्याङ्गतया काव्यफलैरेव फलवत्त्वमिति काव्यफलान्याह२ चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि ॥ 'शरदिति चन्द्रमसो निरावृतत्वमाह्लादकत्वं च बोधयति । शरदिन्दोरपि सुन्दररुच्यैव पुनः सादृश्ये देव्या निर्मलत्वप्रसन्नत्वादि भासते गिरां वचसाम् 'गी: स्त्री भाषासरस्वत्यो:' इति कोषात् । ' षष्ठी शेषे' २|३|५| इति षष्ठी । देवी देवताऽधिष्ठात्रीति यावत् । मे मम । चेतसि चित्तेऽन्तःकरण इति यावत् । सन्ततं निबिड पुञ्जीभूतमिति यावत् । तमस्तिभिरं लक्षणयाऽज्ञानमित्यर्थः । अपहृत्य संहृत्य । 'समासेऽनव् पूर्वे क्वो ल्यप् ।' ७|१|३७| इति ल्यपि कृते ' ह्रस्वस्य पिति कृति तुक् ।' ६।१।७१ । इति तुक् । अखिलान् अर्थान् वाच्यलक्ष्यव्यङ्ग्यात्मकान् धर्मार्थकाममोक्षात्मकान् वा पदार्थान् । प्रकाशयतु प्रकटयतु ।। यद्वा-सा मे ( मम ) चेतसि शरदिन्दुसुन्दररुचिर्गिरां देवी तमः (शिष्यादीनामज्ञानम् ) अपहृत्य सन्ततम् ( निरन्तरम् ) 'अखिलान् अर्थान् ( गुरुभिरुपदेष्टुमर्हान् ) प्रकाशयतु । इति सा शरदिन्दुसुन्दररुचिः ( शरदिन्दुसुन्दरे हंसे रुचिर्यस्याः सा ) देवी (सरस्वती) तमोऽपहत्य मे ( मम ) चेतसि गिरां [ प्रकृतसन्दर्भेौपयोगवहानां वचनानाम् ] अखिलान् अर्थान् प्रकाशयतु ॥ इति वाऽन्वयः । एवं च - शरदिन्दुर्यथा निविडं तमः संहृत्याशेषान् अर्थान् ( वस्तूनि ) प्रकाशयति, तथैव साऽपि मदेकाराध्या भगवती सरस्वती अन्तर्गतमन्धकारं न तु बहिर्गतं बहिर्गतस्यास्य निवृत्तये स्वत एव शशाङ्कादीनां विद्यमानत्वात् तत्प्रार्थनस्य चानावश्यकत्वात् । तिमिरं विनाश्य सर्वाननवद्यान् वाच्यादीन् अर्थान् प्रकाशयतु । इति, हंसो यथा जलक्षीरयोर्विवेकी तथैव यो भवेत्सदसतोर्विवेकी तत्र प्रसादादती भगवती सरस्वती देवी मदीये चेतसि वर्तमानं तमोऽपहृत्य मामपि हंसमिव विदधात्वखिलान् अर्थाश्च प्रकाशयतु ॥ इति वा, निष्कृष्टो वाक्यार्थः । अत्र लुप्तोपमाऽलङ्कार, उपगीतिश्छन्दश्च; तल्लक्षणं यथोक्तम्- 'आर्य्याद्वितीय के यद्गदितं लक्षणं तत्स्यात् । यस्या उभयोर्दलयोरुपगीतिं तां मुनिर्ऋते।' इति ॥ १ ॥ ननु 'सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते ॥' इति, 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्त्तते ।' इति नयेन च तत्र तावत्प्रयोजनमवश्यमभिधेयम्, अन्यथा मन्दानामपि न प्रवृत्तिः, व पुनः प्रेक्षावताम् ; 'इत्यत इत इयमर्थनिष्पत्ति' रित्यवगमपूर्विकाया एव प्रवृत्तेः सार्वजनीनत्वाद्वन्यादौ ग्रन्थप्रयोजनाभिधानमावश्यकं मन्वानस्तत्प्रयोजनदर्शिकां कारिकामवतारयन्नाह अस्येत्यादि ॥ अस्यैतस्य चिकीर्षितस्य सर्वेषां साहित्यविषयाणां दर्पणवत्प्रकाशकस्य बुद्धिस्थतया च सन्निकृष्टस्येत्यर्थः । ग्रन्थस्य । काव्याङ्गतया काव्यस्य ( शरीरभूतस्य ) अङ्गं तत्तया । काव्यंच वक्ष्यमाणलक्षणः सन्दर्भविशेषः । एवं च काव्यमङ्गि एष पुनर्ग्रन्थोऽङ्गम् । काव्यस्यैव दोषाणां हेयत्वेन गुणानां पुनरुपादेयत्वेनैतस्य प्रतिपादकत्वात् । 'हेतौ' २ । ३ । २३ । इति तृतीया । काव्यफलैः काव्यस्य फलानि तच्छ्रवण पठनादिजन्यानि प्रयोजनानि तैः । 'धान्येन धनवा' नितिवदभेदे तृतीया ॥ एव न तु स्वात्मनोऽपि फलौरीति भावः । फलवत्त्वं साफल्यम् । 'सम्भवती' ति शेषः । इतीत्यस्मात् हेतोः । ' इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु ।' इत्यमरः । काव्यफलानि ( कम ) | आहचतुर्वर्गफलप्राप्तिरित्यादिना ॥ अत्रायमभिप्रायः - प्रकृतोऽयं ग्रन्थः काव्यस्य दोषान् हेया इति, गुणान् पुनरुपादेया इति प्रतिपादयितुं प्रवृत्तः तस्मात् काव्यं प्रधानं शरीरस्थानीयं राजेन्द्रस्थानीयं वा प्रकृतः पुनरयमप्रधानमङ्गस्थानीयो मागधाद्यन्यतमस्थानीय वा । अप्रधानभूतस्य स्वतन्त्रतया प्रयोजनोद्देशस्याप्रयोजकत्वेन प्रधानभूतस्यैव पुनः प्रयोजनवत्तयाऽप्रधानस्यापि प्रयोजनवत्त्वमिति । शरीरस्य शोभाऽऽदिना कराद्यन्यतमाङ्गस्याऽपि शोभेव, राज्ञः सम्पन्नतया मागधादेरपि सम्पन्न तेव वा काव्यस्य फलवत्तयाऽस्यापि फलवत्त्वमिति काव्यफलाभिन्नान्येतत्फलानीति मन्वानः काव्यफलान्येवाह । तदाहुस्तवागीशाः - ' काव्यफलै' रिति 'धान्येन धनवा नितिवदभेदे तृतीया । काव्यफलाभिन्नफलवत्त्वमित्यर्थः । यथा दर्शपौर्णमासाङ्गानां प्रयाजादीनां दर्शपौर्णमासफलेनैव फलवत्त्वं तथाऽस्यापीति भाव्यम् । ननु प्रयाजादीनामङ्गापूर्व [ दृष्ट ] जननद्वारा परमापूर्व प्रत्युपकारः सम्भवतीति तत्र तथाऽस्तु । प्रकृते तु शास्त्रस्य काव्यगुणदोषादिज्ञापनोपक्षीणत्वेन चतुर्वर्ग प्रत्युपकारः सम्भवेत्, कथं तत्साधनत्वमिति चेन्न, काव्यं हि स्वरूपसन्न कारणम्, किन्तु - कृतिज्ञप्त्यन्यतरविषयतया तत्रास्योपकारः सम्भवतीति न काऽपि विप्रतिपत्तिः । नन्वस्य चतुर्वर्गातिरिक्तकाव्यगुणादिज्ञानरूपफलसत्त्वात् कथमेव

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 910