Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 14
________________ साहित्यदर्पणः । . [प्रथम: १ शरदिन्दुसुन्दररुचिश्चेतसि सा मे गिरा देवी ॥ . अपहृत्य तमः सन्ततमानखिलान् प्रकाशयतु ॥ १॥ ऽधिष्ठात्री देवीति, वागेव देवतेति वा तस्याः।साम्मुख्यं प्रसन्नमुखीत्वम्।सम्यक् प्रसन्नं मुखं यस्यास्तस्या भाव इति तत्तथोक्तम् । आधत्ते निदधात्यारोपयतीति वा । यत्तूक्तम्-'आधत्ते करोती' ति, तत् कविसमय विरुद्धम्, आपूर्वकस्य दधातेः करणार्थकताया अस्वीकारात् । अत्र 'ग्रन्थकृदि' ति, 'अहमादधे' इति वाऽनभिधाय 'आधत्ते' इत्यभिधानं ग्रन्थ. कृतामनभिमानित्वं सारख्येनावस्थानं च द्योतयते, न तु वृत्तिकार कारिका कारयोर्भेदम्, 'जीवत्यहो रावणः । 'इतिवद्भदो. क्तेः काल्पनिकत्वात, 'रसस्वरूपं निरूपयिष्यामः' इति वृत्तिकारस्य कारिकाकारतयाऽभिधानस्यान्यथाऽनुपपत्तश्चेति बोध्यम् । अत्रेद निष्कृष्टम्-वाग्देव्याः साम्मुख्य नितान्तमुपयुक्तं, तदन्तरा मूकत्वजडत्वाद्युपपत्तेः, ग्रन्थनिर्मातृत्वग्रन्थपारसमाप्तिकर्तत्वयोरनुपपत्तेश्च; तदाधानं चानुषङ्गतोऽध्येतृणां वक्तृणां श्रोतृणां व्याख्यातृणां च मङ्गलाय । यदाहुमहाभाष्यकाराः-'मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्ति आयुष्मत्पुरुषाणि च, अध्येतारश्च सिद्धार्था यथास्युः।' इति तथा च-'प्रारिप्सितस्यैतस्य ग्रन्थस्यारम्भाव्यवहितपूर्ववर्तिनि क्षणे, तस्य च भवेनिर्विघ्ना पारसमाप्तिः, इत्यभिलषन् ग्रन्थकारः श्रीविश्वनाथकविराजः स्वयं स्वस्यान्येषामपि मङ्गलमनुषङ्गतो वर्धयन् वाङ्मयस्य ग्रन्थस्य वागधिकृततया वाग्देव्या आशी:प्रार्थनमाधत्ते । इति । मगणात् परम्मगणस्यैव न्यासो गकारेणारम्भश्च 'मो भूमिः श्रियमातनोती' ति, 'मनौ मित्रे' इति 'मित्रान्मित्रं विधत्ते प्रचुरतरधन' मिति | 'कः खो गो घश्च लक्ष्मी वितरती' ति च निर्दिष्ट फलम् । ननु किमिह मङ्गलम् ? तस्य विघ्नध्वंसं प्रति समाप्तिं प्रति वा कारणत्वानुपपत्तेः । तथाहि-केचिन्मङ्गलमाचरन्तोऽपि न ग्रन्थपरिसमाप्तिं पारयन्ति,यथा-कादम्बरी-रसगङ्गाधर-काव्यप्रकाश-वृत्तिवार्तिकादिकाराः। केचित् पुनस्तदनाचरन्तस्तां पारयन्ति, यथा-आङ्गलभाष ग्रन्थकाराः, इति चेत् ? यत्र मङ्गलसत्त्वेऽपि विघ्नस्तत्रैदपेक्षया तस्य न्यूनत्वम्, यत्र पुनर्मङ्गलासत्त्वेऽपि समाप्तिस्तत्र स्वत एव भाविमहिम्ना मङ्गलाचरणमूत्यम् , 'यक्षानुरूपो बलि-' रिति न्यायेन विघ्नानुरूपस्यैव मङ्गलस्य प्रन्थसमाप्ति प्रति कारणत्वम्, यदुक्तम्-'श्रूयते हि अनुष्ठानज्ञानयोः स्वतन्त्रं पृथक्पृथक् फलम् । 'तरति ब्रह्महत्यां योऽश्वमेधेन यजते, य उ चैनमेवं वेद' इति । अल्पप्रयाससाध्येन वेदनेन तत्सिद्धौ बहायाससाध्यमनुष्टानं व्यर्थमिति चेन्न, तरणीयाया हि ब्रह्महत्याया मानसिकवाचनिककायि. कत्वादिभेदेन तारतम्योपपत्तः । मनसा सङ्कल्पिता, वाचाऽभ्यनुज्ञाता, परहस्तेन कारिता, स्वयकृता, पुनः कृता चेत्येवं तारतम्येनावस्थिता ब्रह्महत्या अनेकविधाः । अतस्तत्तरणमप्यनेकविधम् , यथा स्वर्गो बहुविधस्तद्वत् । "अग्निहोत्र जुहुयात् स्वर्गकामः, दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेत" इत्याधुच्चावचानेककर्मणामेकफलासम्भवात् स्वर्गों बहुविधोऽभ्युपगन्तव्यः, तथा ब्रह्महत्याऽदिपापनिवृत्तेरपि बहुविधत्वात्, वेदने. नापि काचिद् ब्रह्महत्या निवर्तत इति योग्यताऽनुसारेण कल्यताम् ।' इति । अत एव क्वचिद्विघ्नस्याल्पतया भाविबलेन चारम्भावसरे मङ्गलायतनानां महनीयविभूतीनां महतां दर्शनस्पर्शनादिजन्यं मङ्गलं समाप्तिहेतुः । ग्रन्थे तन्निबन्धनं च परं शिष्यशिक्षायै । अत एवाहुः-'प्रारिप्सितपारसमाप्तये विहितं मङ्गलं शिष्यशिक्षायै निबध्नाती' ति । वस्तुतस्तु मङ्गल धुत्तेजकम् । तच्च प्रतिबन्धकस्थलीय एव कार्ये कारणम्, 'निर्विघ्नं समाप्यता' मिति कामनया स्वेष्टसाधनतांशे नमरहितानां शिष्टानामाचारेणानुमितया श्रुत्या विघ्नाभावप्रयोज्यसमाप्तिमेव विधत्ते । समाप्तिश्च स्वाभिलषितरीत्या प्रारिप्सितस्य निष्पत्तिः, अत एव-मङ्गले विहितेऽपि असमाप्तियुज्यते, विघ्नबाहुल्यसम्भवात, फलबलेन मङ्गलापूर्वस्यैकविघ्नध्वंसकततायाः कल्पनात् काम्यकर्मण्यङ्गवैकल्यस्यापूर्वानुत्पत्तेर्वा सम्भवात् । इति गङ्गलस्यापूर्वद्वारा विशिष्टसमाप्तिफलकत्वमुपपन्नम् । तदेवं निर्विघ्नतया चिकीर्षितपरिसमाप्त्यर्थ कर्त्तव्य ‘शन्नो मित्रः शं वरुणः शन्नो भवत्वर्यमा' इत्युक्तदिशा 'आशीनमस्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखम् ।' इत्युक्तिदिशा च तत्र तावदाशीवादरूपं भगवत्याः सरस्वत्याः स्मरणगर्भित मङ्गलमाचरन् स्वस्य च तदेकान्तभक्तत्वं सूचयन् शिष्यशिक्षायै निबध्नाति । १सा प्रसिद्धा, निगमागमैः गीयमानत्वात् , सर्वासामाशिषां पूरकत्वात, स्वाराध्यत्वाद्वा । शरदिन्दुसुन्दररुचिः शरदिन्दोः शरत्कालिकस्थ चन्द्रस्य सुन्दररुचिारव सुन्दररुचिर्यस्याः सेति तथोक्ता । शाकपार्थिवादित्वान्मध्यमपदलोपः । सुन्दरी रुचिारति सुन्दररुचिः । 'पुंवत्कर्मधारयजातीयदेशीयेषु ।' ६।३।४२ । इति पुंवद्भावः ।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 910