________________
साहित्यदर्पणः ।
. [प्रथम:
१ शरदिन्दुसुन्दररुचिश्चेतसि सा मे गिरा देवी ॥ .
अपहृत्य तमः सन्ततमानखिलान् प्रकाशयतु ॥ १॥ ऽधिष्ठात्री देवीति, वागेव देवतेति वा तस्याः।साम्मुख्यं प्रसन्नमुखीत्वम्।सम्यक् प्रसन्नं मुखं यस्यास्तस्या भाव इति तत्तथोक्तम् । आधत्ते निदधात्यारोपयतीति वा । यत्तूक्तम्-'आधत्ते करोती' ति, तत् कविसमय विरुद्धम्, आपूर्वकस्य दधातेः करणार्थकताया अस्वीकारात् । अत्र 'ग्रन्थकृदि' ति, 'अहमादधे' इति वाऽनभिधाय 'आधत्ते' इत्यभिधानं ग्रन्थ. कृतामनभिमानित्वं सारख्येनावस्थानं च द्योतयते, न तु वृत्तिकार कारिका कारयोर्भेदम्, 'जीवत्यहो रावणः । 'इतिवद्भदो. क्तेः काल्पनिकत्वात, 'रसस्वरूपं निरूपयिष्यामः' इति वृत्तिकारस्य कारिकाकारतयाऽभिधानस्यान्यथाऽनुपपत्तश्चेति बोध्यम् । अत्रेद निष्कृष्टम्-वाग्देव्याः साम्मुख्य नितान्तमुपयुक्तं, तदन्तरा मूकत्वजडत्वाद्युपपत्तेः, ग्रन्थनिर्मातृत्वग्रन्थपारसमाप्तिकर्तत्वयोरनुपपत्तेश्च; तदाधानं चानुषङ्गतोऽध्येतृणां वक्तृणां श्रोतृणां व्याख्यातृणां च मङ्गलाय । यदाहुमहाभाष्यकाराः-'मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्ति आयुष्मत्पुरुषाणि च, अध्येतारश्च सिद्धार्था यथास्युः।' इति तथा च-'प्रारिप्सितस्यैतस्य ग्रन्थस्यारम्भाव्यवहितपूर्ववर्तिनि क्षणे, तस्य च भवेनिर्विघ्ना पारसमाप्तिः, इत्यभिलषन् ग्रन्थकारः श्रीविश्वनाथकविराजः स्वयं स्वस्यान्येषामपि मङ्गलमनुषङ्गतो वर्धयन् वाङ्मयस्य ग्रन्थस्य वागधिकृततया वाग्देव्या आशी:प्रार्थनमाधत्ते । इति । मगणात् परम्मगणस्यैव न्यासो गकारेणारम्भश्च 'मो भूमिः श्रियमातनोती' ति, 'मनौ मित्रे' इति 'मित्रान्मित्रं विधत्ते प्रचुरतरधन' मिति | 'कः खो गो घश्च लक्ष्मी वितरती' ति च निर्दिष्ट फलम् । ननु किमिह मङ्गलम् ? तस्य विघ्नध्वंसं प्रति समाप्तिं प्रति वा कारणत्वानुपपत्तेः । तथाहि-केचिन्मङ्गलमाचरन्तोऽपि न ग्रन्थपरिसमाप्तिं पारयन्ति,यथा-कादम्बरी-रसगङ्गाधर-काव्यप्रकाश-वृत्तिवार्तिकादिकाराः। केचित् पुनस्तदनाचरन्तस्तां पारयन्ति, यथा-आङ्गलभाष ग्रन्थकाराः, इति चेत् ? यत्र मङ्गलसत्त्वेऽपि विघ्नस्तत्रैदपेक्षया तस्य न्यूनत्वम्, यत्र पुनर्मङ्गलासत्त्वेऽपि समाप्तिस्तत्र स्वत एव भाविमहिम्ना मङ्गलाचरणमूत्यम् , 'यक्षानुरूपो बलि-' रिति न्यायेन विघ्नानुरूपस्यैव मङ्गलस्य प्रन्थसमाप्ति प्रति कारणत्वम्, यदुक्तम्-'श्रूयते हि अनुष्ठानज्ञानयोः स्वतन्त्रं पृथक्पृथक् फलम् । 'तरति ब्रह्महत्यां योऽश्वमेधेन यजते, य उ चैनमेवं वेद' इति । अल्पप्रयाससाध्येन वेदनेन तत्सिद्धौ बहायाससाध्यमनुष्टानं व्यर्थमिति चेन्न, तरणीयाया हि ब्रह्महत्याया मानसिकवाचनिककायि. कत्वादिभेदेन तारतम्योपपत्तः । मनसा सङ्कल्पिता, वाचाऽभ्यनुज्ञाता, परहस्तेन कारिता, स्वयकृता, पुनः कृता चेत्येवं तारतम्येनावस्थिता ब्रह्महत्या अनेकविधाः । अतस्तत्तरणमप्यनेकविधम् , यथा स्वर्गो बहुविधस्तद्वत् । "अग्निहोत्र जुहुयात् स्वर्गकामः, दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेत" इत्याधुच्चावचानेककर्मणामेकफलासम्भवात् स्वर्गों बहुविधोऽभ्युपगन्तव्यः, तथा ब्रह्महत्याऽदिपापनिवृत्तेरपि बहुविधत्वात्, वेदने. नापि काचिद् ब्रह्महत्या निवर्तत इति योग्यताऽनुसारेण कल्यताम् ।' इति । अत एव क्वचिद्विघ्नस्याल्पतया भाविबलेन चारम्भावसरे मङ्गलायतनानां महनीयविभूतीनां महतां दर्शनस्पर्शनादिजन्यं मङ्गलं समाप्तिहेतुः । ग्रन्थे तन्निबन्धनं च परं शिष्यशिक्षायै । अत एवाहुः-'प्रारिप्सितपारसमाप्तये विहितं मङ्गलं शिष्यशिक्षायै निबध्नाती' ति । वस्तुतस्तु मङ्गल धुत्तेजकम् । तच्च प्रतिबन्धकस्थलीय एव कार्ये कारणम्, 'निर्विघ्नं समाप्यता' मिति कामनया स्वेष्टसाधनतांशे नमरहितानां शिष्टानामाचारेणानुमितया श्रुत्या विघ्नाभावप्रयोज्यसमाप्तिमेव विधत्ते । समाप्तिश्च स्वाभिलषितरीत्या प्रारिप्सितस्य निष्पत्तिः, अत एव-मङ्गले विहितेऽपि असमाप्तियुज्यते, विघ्नबाहुल्यसम्भवात, फलबलेन मङ्गलापूर्वस्यैकविघ्नध्वंसकततायाः कल्पनात् काम्यकर्मण्यङ्गवैकल्यस्यापूर्वानुत्पत्तेर्वा सम्भवात् । इति गङ्गलस्यापूर्वद्वारा विशिष्टसमाप्तिफलकत्वमुपपन्नम् । तदेवं निर्विघ्नतया चिकीर्षितपरिसमाप्त्यर्थ कर्त्तव्य ‘शन्नो मित्रः शं वरुणः शन्नो भवत्वर्यमा' इत्युक्तदिशा 'आशीनमस्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखम् ।' इत्युक्तिदिशा च तत्र तावदाशीवादरूपं भगवत्याः सरस्वत्याः स्मरणगर्भित मङ्गलमाचरन् स्वस्य च तदेकान्तभक्तत्वं सूचयन् शिष्यशिक्षायै निबध्नाति ।
१सा प्रसिद्धा, निगमागमैः गीयमानत्वात् , सर्वासामाशिषां पूरकत्वात, स्वाराध्यत्वाद्वा । शरदिन्दुसुन्दररुचिः शरदिन्दोः शरत्कालिकस्थ चन्द्रस्य सुन्दररुचिारव सुन्दररुचिर्यस्याः सेति तथोक्ता । शाकपार्थिवादित्वान्मध्यमपदलोपः । सुन्दरी रुचिारति सुन्दररुचिः । 'पुंवत्कर्मधारयजातीयदेशीयेषु ।' ६।३।४२ । इति पुंवद्भावः ।