________________
॥ श्रीः॥
रुचिराव्याख्योपेतः साहित्यदर्पणः।
प्रथमः परिच्छेदः।
ग्रन्थारम्भे निर्विघ्नेन, प्रारिप्सितपरिसमाप्तिकामो वाङ्मयाधिकृततया वाग्देवतायाःसाम्मुख्यमाधत्ते
___ अत्र भवान् सर्वतन्त्रस्वतन्त्रः साहित्यार्णवकर्णधारो ध्वनिप्रस्थापनपरमाचार्य्यः कविसूक्तिरत्नाकरोऽष्टादशभाषाधारविलासिनीभुजङ्गः सान्धिविग्रहिकमहापात्रं श्रीमान् विश्वनाथकविराजः समस्तप्रबन्धैकसारभूतं साहित्यसिद्धान्ततत्त्वमनायासमवजिगमिषूणां तस्यतस्य च प्रबन्धस्य तत्त्वाकलनाय निरस्ताधिकाराणां बालानामामोदायैकत्रैवैकपदं तत्तप्रबन्धजातसिद्धान्तमनाविलमनवा तत्त्वमुन्निनीषुः साहित्यदर्पणं नाम.प्रबन्धं प्रबध्नस्तस्य च साहित्यसिद्धान्तसूत्रभूताः कारिका मण्डूकप्लुतिन्यायेन व्याचिख्यासुस्तत्र तावदाद्याः कारकाया अवतरणिकामाह-ग्रन्थारम्भे ग्रन्थस्य 'विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति पञ्चाङ्ग शास्त्रेऽधिकरण स्मृतम् ॥ इत्युक्तदिशा पञ्चाङ्गकस्य 'सम्बन्धप्रयोजनज्ञानाहितशुश्रूषाजन्यथतिविषयशब्दसन्दर्भो ग्रन्थः' इत्युक्तस्वरूपस्य वा वाक्यविशेषस्य; आरम्भः प्रथममेव वर्णविन्यासावसरो लक्षणया तदव्यवहितपूर्ववर्ती क्षण इति यावत् तत्रेति तथोक्ते । लक्षणा चाद्यकृतिरूपस्यारम्भपदघटितस्य मुख्यार्थस्य बाधितत्वान्मङ्गलारम्भयोरव्यवधानेन बोधावताररूपस्य प्रयोजनस्य सत्त्वाच्चेति बोध्यम् । यत्तक्तम् 'आरभ्यतेऽस्मिन्निति व्युत्पत्त्याऽऽरम्भशब्दस्तत्प्राकालवचनः ।' इति, तदसत्; तथाऽपि . यथाश्रुतस्यैवारम्भशब्दघटितस्यार्थस्य लाभे तत्प्राक्कालावगमानुदयात् । यच्चाहुः 'ग्रन्थस्यारम्भ इति तस्मिन्, भाविनि सतीति शेषः । इति तदपि तथाभूतम् । एवं सत्यपि 'आरम्भे आरम्भाव्यवहितपूर्ववर्तिनि क्षणे' इति पदादिव 'भाविनि सती' ति पदादध्याहृत्य योज्यमानादपि तत्प्राग़भावसमानकालिकत्वस्यैवावगमात्, सदाचारपरम्परया प्राप्तस्यारम्भाव्यवहितपूर्ववतिक्षणात्मकप्राकालिकत्वस्यावगमाभावाच्च; नच- 'कालान्तरीणस्यापि मङ्गलाचरणस्यादृष्टद्वारा प्रकृतोपयोगित्वान्मङ्गलारम्भयोरव्यवहितत्वागमापेक्षाऽकिञ्चित्करी' ति वाच्यम् , आरम्भाव्यवहितपूर्वकालिकस्यैव तस्य मङ्गला. चरणस्य प्राशस्त्येनाभिमननात्, अत एवात्रारम्भशब्देन व्यवहारः, न तु प्रारम्भशब्देन । 'सप्तम्यधिकरणे च ।' २।३।३६॥ इति सप्तमी न तु 'निमित्तात्कर्मयोगे।' * इति निमित्तार्थे, 'क्रियाफलरूपस्य निमित्तस्य स्वान्वयिक्रियाकर्मणा योगे सति तद्वाचकात् निमित्तवाचकात्सप्तमी स्या'दित्यर्थकस्यास्य वार्तिकस्य 'चर्मणि द्वीपिनं हन्ती त्यादावेव प्रसक्तः। अत्र पुनर्निर्विघ्नतया प्रारिप्सितपरिसमाप्तः क्रियाफलत्वे ग्रन्थारम्भस्य च तदनुपपत्तौ वाग्देवीप्रसादापादनात्मकेंन कर्मणा सार्क सम्बन्धानुपपत्तौ प्रसक्त्यसम्भवः । निर्विघ्नेन विनानामभावो निर्विघ्नं तेन तवारेति यावत् विघ्नाश्च प्रतिबन्धकीभूता दुरदृष्टविशेषाः, प्रतिबन्धकश्च प्रकृते प्रन्थपारसमाप्यन्तरायहेतुः । 'कर्तृकरण- . योस्तृतीया ।। २।३।१८। इति करणे तृतीया । प्रारिप्सितपरिसमाप्तिकामः प्रारिप्सितस्य प्रारब्धुमिष्टस्य परिसमाप्तिः परितः समाप्तिश्चरमपर्णावधिका पूर्तिरिति यावत्, सैव कामोऽभिलाषो यस्य स इति तथोक्तः । प्रारिपितमित्यत्र 'निष्ठा।' ३।२।१०२ । इति क्तः । तदस्य सजातं तारकादिभ्य इतन् ।' ५। २। ३६ । इतीतच वा । वाङ्मयाधिकृततया अधिकृतं वाङ्मयं ययेति तद्भावस्तयेति तथोक्तया । आहिताग्न्यादित्वात्परनिपातः । वाङ्मयस्याधिकृतताधिकारस्तयेति वा । वाड्मय शास्त्रम् । 'हेतौ।' २।३।२३। इति तृतीया । वाग्देवताया वाचां देवता