________________
परिच्छेदः ]
रुचिराख्यया व्याख्या समेतः ।
अस्य ग्रन्थस्य काव्याङ्गतया काव्यफलैरेव फलवत्त्वमिति काव्यफलान्याह२ चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि ॥
'शरदिति चन्द्रमसो निरावृतत्वमाह्लादकत्वं च बोधयति । शरदिन्दोरपि सुन्दररुच्यैव पुनः सादृश्ये देव्या निर्मलत्वप्रसन्नत्वादि भासते गिरां वचसाम् 'गी: स्त्री भाषासरस्वत्यो:' इति कोषात् । ' षष्ठी शेषे' २|३|५| इति षष्ठी । देवी देवताऽधिष्ठात्रीति यावत् । मे मम । चेतसि चित्तेऽन्तःकरण इति यावत् । सन्ततं निबिड पुञ्जीभूतमिति यावत् । तमस्तिभिरं लक्षणयाऽज्ञानमित्यर्थः । अपहृत्य संहृत्य । 'समासेऽनव् पूर्वे क्वो ल्यप् ।' ७|१|३७| इति ल्यपि कृते ' ह्रस्वस्य पिति कृति तुक् ।' ६।१।७१ । इति तुक् । अखिलान् अर्थान् वाच्यलक्ष्यव्यङ्ग्यात्मकान् धर्मार्थकाममोक्षात्मकान् वा पदार्थान् । प्रकाशयतु प्रकटयतु ।। यद्वा-सा मे ( मम ) चेतसि शरदिन्दुसुन्दररुचिर्गिरां देवी तमः (शिष्यादीनामज्ञानम् ) अपहृत्य सन्ततम् ( निरन्तरम् ) 'अखिलान् अर्थान् ( गुरुभिरुपदेष्टुमर्हान् ) प्रकाशयतु । इति सा शरदिन्दुसुन्दररुचिः ( शरदिन्दुसुन्दरे हंसे रुचिर्यस्याः सा ) देवी (सरस्वती) तमोऽपहत्य मे ( मम ) चेतसि गिरां [ प्रकृतसन्दर्भेौपयोगवहानां वचनानाम् ] अखिलान् अर्थान् प्रकाशयतु ॥ इति वाऽन्वयः । एवं च - शरदिन्दुर्यथा निविडं तमः संहृत्याशेषान् अर्थान् ( वस्तूनि ) प्रकाशयति, तथैव साऽपि मदेकाराध्या भगवती सरस्वती अन्तर्गतमन्धकारं न तु बहिर्गतं बहिर्गतस्यास्य निवृत्तये स्वत एव शशाङ्कादीनां विद्यमानत्वात् तत्प्रार्थनस्य चानावश्यकत्वात् । तिमिरं विनाश्य सर्वाननवद्यान् वाच्यादीन् अर्थान् प्रकाशयतु । इति, हंसो यथा जलक्षीरयोर्विवेकी तथैव यो भवेत्सदसतोर्विवेकी तत्र प्रसादादती भगवती सरस्वती देवी मदीये चेतसि वर्तमानं तमोऽपहृत्य मामपि हंसमिव विदधात्वखिलान् अर्थाश्च प्रकाशयतु ॥ इति वा, निष्कृष्टो वाक्यार्थः । अत्र लुप्तोपमाऽलङ्कार, उपगीतिश्छन्दश्च; तल्लक्षणं यथोक्तम्- 'आर्य्याद्वितीय के यद्गदितं लक्षणं तत्स्यात् । यस्या उभयोर्दलयोरुपगीतिं तां मुनिर्ऋते।' इति ॥ १ ॥
ननु 'सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते ॥' इति, 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्त्तते ।' इति नयेन च तत्र तावत्प्रयोजनमवश्यमभिधेयम्, अन्यथा मन्दानामपि न प्रवृत्तिः, व पुनः प्रेक्षावताम् ; 'इत्यत इत इयमर्थनिष्पत्ति' रित्यवगमपूर्विकाया एव प्रवृत्तेः सार्वजनीनत्वाद्वन्यादौ ग्रन्थप्रयोजनाभिधानमावश्यकं मन्वानस्तत्प्रयोजनदर्शिकां कारिकामवतारयन्नाह अस्येत्यादि ॥
अस्यैतस्य चिकीर्षितस्य सर्वेषां साहित्यविषयाणां दर्पणवत्प्रकाशकस्य बुद्धिस्थतया च सन्निकृष्टस्येत्यर्थः । ग्रन्थस्य । काव्याङ्गतया काव्यस्य ( शरीरभूतस्य ) अङ्गं तत्तया । काव्यंच वक्ष्यमाणलक्षणः सन्दर्भविशेषः । एवं च काव्यमङ्गि एष पुनर्ग्रन्थोऽङ्गम् । काव्यस्यैव दोषाणां हेयत्वेन गुणानां पुनरुपादेयत्वेनैतस्य प्रतिपादकत्वात् । 'हेतौ' २ । ३ । २३ । इति तृतीया । काव्यफलैः काव्यस्य फलानि तच्छ्रवण पठनादिजन्यानि प्रयोजनानि तैः । 'धान्येन धनवा' नितिवदभेदे तृतीया ॥ एव न तु स्वात्मनोऽपि फलौरीति भावः । फलवत्त्वं साफल्यम् । 'सम्भवती' ति शेषः । इतीत्यस्मात् हेतोः । ' इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु ।' इत्यमरः । काव्यफलानि ( कम ) | आहचतुर्वर्गफलप्राप्तिरित्यादिना ॥
अत्रायमभिप्रायः - प्रकृतोऽयं ग्रन्थः काव्यस्य दोषान् हेया इति, गुणान् पुनरुपादेया इति प्रतिपादयितुं प्रवृत्तः तस्मात् काव्यं प्रधानं शरीरस्थानीयं राजेन्द्रस्थानीयं वा प्रकृतः पुनरयमप्रधानमङ्गस्थानीयो मागधाद्यन्यतमस्थानीय वा । अप्रधानभूतस्य स्वतन्त्रतया प्रयोजनोद्देशस्याप्रयोजकत्वेन प्रधानभूतस्यैव पुनः प्रयोजनवत्तयाऽप्रधानस्यापि प्रयोजनवत्त्वमिति । शरीरस्य शोभाऽऽदिना कराद्यन्यतमाङ्गस्याऽपि शोभेव, राज्ञः सम्पन्नतया मागधादेरपि सम्पन्न तेव वा काव्यस्य फलवत्तयाऽस्यापि फलवत्त्वमिति काव्यफलाभिन्नान्येतत्फलानीति मन्वानः काव्यफलान्येवाह । तदाहुस्तवागीशाः - ' काव्यफलै' रिति 'धान्येन धनवा नितिवदभेदे तृतीया । काव्यफलाभिन्नफलवत्त्वमित्यर्थः । यथा दर्शपौर्णमासाङ्गानां प्रयाजादीनां दर्शपौर्णमासफलेनैव फलवत्त्वं तथाऽस्यापीति भाव्यम् । ननु प्रयाजादीनामङ्गापूर्व [ दृष्ट ] जननद्वारा परमापूर्व प्रत्युपकारः सम्भवतीति तत्र तथाऽस्तु । प्रकृते तु शास्त्रस्य काव्यगुणदोषादिज्ञापनोपक्षीणत्वेन चतुर्वर्ग प्रत्युपकारः सम्भवेत्, कथं तत्साधनत्वमिति चेन्न, काव्यं हि स्वरूपसन्न कारणम्, किन्तु - कृतिज्ञप्त्यन्यतरविषयतया तत्रास्योपकारः सम्भवतीति न काऽपि विप्रतिपत्तिः । नन्वस्य चतुर्वर्गातिरिक्तकाव्यगुणादिज्ञानरूपफलसत्त्वात् कथमेव