________________
साहित्यदर्पणः।
[प्रथम:काव्यादेव चतुर्वर्गफलमाप्तिर्हि 'काव्यतो रामादिवत्प्रवर्तितव्यं, न रावणादिवत्' इत्यादिकृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेशद्वारेण सुप्रतीतैव । काराथीन्वय इति चेन, ‘फलवत्त्व' मित्यत्र मतोः प्राशस्त्येनोत्कृष्टफलपरत्वात् । एवं च-चतुर्वर्गसाधनत्वज्ञानेनात्र लोकानां साभिनिवेशप्रवृत्तिर्भविष्यतीति भावः ।' इति । केचित्त्वेवमाहुः-'अस्य [साहित्यदर्पणस्य ] बुद्धिस्थत्वेन सन्निकृष्टस्य ग्रन्थस्य काव्यमङ्गमस्येति तत्तया (काव्यमङ्गभूतमितिहेतोः) काव्यफलैः (करादिशोभयाऽङ्गिशोभेव) केवलं फलवत्वमिति तान्येवाह ।' इति । एषामयं भावः- काव्यं शाखादिस्थानीय, प्रकृतोऽयं पुनर्ग्रन्थो वृक्षस्थानीयः ; तस्मात्शाखादिसाद्गुण्येनैव वृक्षस्यापि साद्गुण्यम्, इतीव काव्यस्यैव सफलतयाऽस्यापि स्वरूपसत्त्वम् , काव्यस्यैतदङ्गभूतत्वं चैतस्यैव कमप्येक विषयमुपयुज्य प्रादुर्भूतत्वात् , इति ॥
२ काव्यात् काव्यरचनापठनाद्युपायेनेत्यर्थः । एव न तु शास्त्रान्तराद्यभ्यासादिनेति भावः । अल्पधियां मन्दप्रज्ञानामत एव शास्त्रान्तराद्यभ्यासाधिकारमप्राप्तानां यागाद्यनुष्ठानानधिकारिणां चेति भावः । अपि किं पुनरनल्पधियाम् । सुखादायासमन्तरा। चतुर्वर्गफलप्राप्तिश्चतुर्वर्गो धर्मार्थकाममोक्षाख्यपुरुषार्थचतुष्टयं, स एव फलं तस्य प्राप्तिाभ इति तथोक्तः । यद्वा-चतुर्वर्गस्य फलानि स्वर्गादिभोगादिरूपाणि तेषां प्राप्तिः । इति । 'त्रिवर्गो धर्मकामाथैश्चतुर्वर्ग: समोक्षकैः ।' इत्यमरः । 'भवतीति शेषः ॥
अयं भावः-यदि निरायासम्, अथ मन्दानाम् , उपलक्षणतो निधनानामसहायानामपि वा धर्मादिचतुर्वर्ग: सम्पद्यते, तर्हि काव्यादेव, न तु वेदादिशास्त्रेभ्यो, न वा यागादिभ्यः, तज्ज्ञानायासतायामल्पधियां चावसराभावात्। यागादयो हि विभवविशेषमन्तरेण धूमधूसरितसाश्रुसहस्रासारव्याकुलितनेत्रभवनमन्तरेण वा न सम्पद्यन्ते, समस्तदर्शनाभिज्ञता च निरंतरमनेकवर्षपर्यन्तं गुरुशुश्रूषामन्तरा न भवतीति ॥
अत्राहुः साहित्यकौमुदीकाराः- वेदः खलु शब्दप्राधान्यात् प्रभुसज्ञितः पुराणादिश्चार्थप्राधान्यात्सुहृत्सम्मितः शास्ति, काव्यं तु शब्दार्थयोर्गुणतया रसाङ्गभूतव्यापारप्रावण्यात्तद्विलक्षण: ।' इति । एषामय भावः-शब्दस्तावत् त्रिविधः, प्रभुसज्ञितः सुहृत्सम्मितः कान्तासम्मितश्चेति । तत्राद्यः-शब्दप्रधानो वेदादिः, शब्दप्रधानत्वं नाम शब्दपरिवृत्त्यसहत्वम् , यथा'देवदत्तस्तर्कालङ्कारः' इत्येवं व्यवहार्य इति प्रभुणाऽनुज्ञाते 'देवदत्तस्तर्कभूषण' मिति शब्दपरिवृत्त्यसहत्वं, तथा वेदस्यापि 'हिरण्यवर्णा'मित्यत्र 'सुवर्णवर्णा' मिति शब्दपरिवृत्त्यसहत्वम् । 'वेदादि'रित्यत्रादिशब्देन तन्त्रादीनां ग्रहणम् । तेन-'हस्तिपिशाचिलिखे' इत्यादौ ‘करिपिशाचिलिखे' इति शब्दपरिवृत्त्यसहत्वम् । द्वितीयः-पुनरर्थप्रधानः पुराणादिः, अर्थप्रधानत्वं नाम शब्दपरिवृत्तिसहत्वेऽपि, अर्थपरिवृत्त्यसहत्वं, यथा-सुहृत् 'स्वधर्म एव श्रेयः, नहि वधर्ममुपासानः कदाचिद्विपद्यते ।' इत्युपदिशति, तथा-पुराणादिरपि 'सर्वान्धर्मान्परित्यज्य मासेकं शरणं व्रज' इति । अत्र हि'खधर्मे केवलं श्रेयः, तस्मात्तमेवानुतिष्टन जातु च्यवती'ति । 'अपहायाखिलान्धन्मिामेकं शरणं व्रज' इति च । एवमेतस्य शब्दपरिवृत्तिसहत्वेऽप्यर्थपरिवृत्त्यसहत्वम् । तृतीयः-पुनः काव्यादिः कान्तासम्मितो, न शब्दप्रधानो न वाऽर्थप्रधानः, किन्तु शब्दार्थोभयस्यैवाप्रधानत्वात्तदेकास्वाधरसाधीन इति नासौ प्रभुसज्ञितः, न वा सुहृत्सम्मितः, अस्ति पुन: केवलं कान्तासम्मितः । काव्यादेर्धर्मः कान्तातुल्यम्मृदुतया निवेदनद्वारा कृत्याकृत्ययोः प्रवृत्तिनिवृत्तिभ्यां सुलभः । इति ॥
यद्वा--आदित्यादिप्रसादतो मयूरादीनामनिष्टनिवृत्तिदर्शनात्सुखसाध्यो धर्मः, अर्थप्राप्तिश्च भोजराजादियशसः सुविदितप्रायत्वान्न सन्देहकृते, कामपूर्तिश्चार्थलाभेऽनर्थनिवृत्तौ च प्रत्यक्षसिद्धा, शृङ्गाररसाद्यनुभवात्सम्पन्नमूर्तिर्वा । मोक्षः पुनस्तत्रतनोपदिष्टानां तत्त्वमस्या' दिवाक्यार्थानां सुखावगमयोग्यतानिष्पादनात् तद्दारभूतानां प्रबोधचन्द्रोदयादीनां वा सद्भावात्सुप्रत्यक्षः ।
युक्तिनिर्देशपूर्वकं कारिकार्थ निगमयति चतुर्वर्गफलप्राप्तिरित्यादिना।
हि यतः । 'हि हेताववधारणे ।' इत्यमरः । चतुर्वर्गफलप्राप्तिः । काव्यतः । पञ्चम्यास्तसिल । ५ । ३। ७ । इति तसिल । 'रामादिवद्रामचन्द्रादिना तुल्यम् । आदिपदं नलयुधिष्टिरादीनां ग्राहकम् । 'पित्राज्ञापरिपालनादा'विति शेषः । तेन तुल्यं क्रिया चेतिः ।' ५। ५।११। इति वतिः । प्रवर्तितव्यम् । रावणादिवत् 'परदारहरणादाविति शेषः । न नैव 'प्रवर्तितव्य'मिति पूर्वेणान्वयः । इत्यादिकृत्याकृत्यप्रवृत्तिनिवृत्युपदेशद्रारणेत्यादिरसौ कृत्याकृत्य प्रवृत्तिनिवृत्त्युपदेशस्तद्यारेण । कृत्यं कर्तव्यम् , अकृत्यमकर्तव्यं चेति तयोः प्रवृत्तिनिवृत्ती इति तयोरुपदेशः । सुप्रतीताऽसंदिग्धा। एवेति निश्चितम् ।