Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 13
________________ ॥ श्रीः॥ रुचिराव्याख्योपेतः साहित्यदर्पणः। प्रथमः परिच्छेदः। ग्रन्थारम्भे निर्विघ्नेन, प्रारिप्सितपरिसमाप्तिकामो वाङ्मयाधिकृततया वाग्देवतायाःसाम्मुख्यमाधत्ते ___ अत्र भवान् सर्वतन्त्रस्वतन्त्रः साहित्यार्णवकर्णधारो ध्वनिप्रस्थापनपरमाचार्य्यः कविसूक्तिरत्नाकरोऽष्टादशभाषाधारविलासिनीभुजङ्गः सान्धिविग्रहिकमहापात्रं श्रीमान् विश्वनाथकविराजः समस्तप्रबन्धैकसारभूतं साहित्यसिद्धान्ततत्त्वमनायासमवजिगमिषूणां तस्यतस्य च प्रबन्धस्य तत्त्वाकलनाय निरस्ताधिकाराणां बालानामामोदायैकत्रैवैकपदं तत्तप्रबन्धजातसिद्धान्तमनाविलमनवा तत्त्वमुन्निनीषुः साहित्यदर्पणं नाम.प्रबन्धं प्रबध्नस्तस्य च साहित्यसिद्धान्तसूत्रभूताः कारिका मण्डूकप्लुतिन्यायेन व्याचिख्यासुस्तत्र तावदाद्याः कारकाया अवतरणिकामाह-ग्रन्थारम्भे ग्रन्थस्य 'विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति पञ्चाङ्ग शास्त्रेऽधिकरण स्मृतम् ॥ इत्युक्तदिशा पञ्चाङ्गकस्य 'सम्बन्धप्रयोजनज्ञानाहितशुश्रूषाजन्यथतिविषयशब्दसन्दर्भो ग्रन्थः' इत्युक्तस्वरूपस्य वा वाक्यविशेषस्य; आरम्भः प्रथममेव वर्णविन्यासावसरो लक्षणया तदव्यवहितपूर्ववर्ती क्षण इति यावत् तत्रेति तथोक्ते । लक्षणा चाद्यकृतिरूपस्यारम्भपदघटितस्य मुख्यार्थस्य बाधितत्वान्मङ्गलारम्भयोरव्यवधानेन बोधावताररूपस्य प्रयोजनस्य सत्त्वाच्चेति बोध्यम् । यत्तक्तम् 'आरभ्यतेऽस्मिन्निति व्युत्पत्त्याऽऽरम्भशब्दस्तत्प्राकालवचनः ।' इति, तदसत्; तथाऽपि . यथाश्रुतस्यैवारम्भशब्दघटितस्यार्थस्य लाभे तत्प्राक्कालावगमानुदयात् । यच्चाहुः 'ग्रन्थस्यारम्भ इति तस्मिन्, भाविनि सतीति शेषः । इति तदपि तथाभूतम् । एवं सत्यपि 'आरम्भे आरम्भाव्यवहितपूर्ववर्तिनि क्षणे' इति पदादिव 'भाविनि सती' ति पदादध्याहृत्य योज्यमानादपि तत्प्राग़भावसमानकालिकत्वस्यैवावगमात्, सदाचारपरम्परया प्राप्तस्यारम्भाव्यवहितपूर्ववतिक्षणात्मकप्राकालिकत्वस्यावगमाभावाच्च; नच- 'कालान्तरीणस्यापि मङ्गलाचरणस्यादृष्टद्वारा प्रकृतोपयोगित्वान्मङ्गलारम्भयोरव्यवहितत्वागमापेक्षाऽकिञ्चित्करी' ति वाच्यम् , आरम्भाव्यवहितपूर्वकालिकस्यैव तस्य मङ्गला. चरणस्य प्राशस्त्येनाभिमननात्, अत एवात्रारम्भशब्देन व्यवहारः, न तु प्रारम्भशब्देन । 'सप्तम्यधिकरणे च ।' २।३।३६॥ इति सप्तमी न तु 'निमित्तात्कर्मयोगे।' * इति निमित्तार्थे, 'क्रियाफलरूपस्य निमित्तस्य स्वान्वयिक्रियाकर्मणा योगे सति तद्वाचकात् निमित्तवाचकात्सप्तमी स्या'दित्यर्थकस्यास्य वार्तिकस्य 'चर्मणि द्वीपिनं हन्ती त्यादावेव प्रसक्तः। अत्र पुनर्निर्विघ्नतया प्रारिप्सितपरिसमाप्तः क्रियाफलत्वे ग्रन्थारम्भस्य च तदनुपपत्तौ वाग्देवीप्रसादापादनात्मकेंन कर्मणा सार्क सम्बन्धानुपपत्तौ प्रसक्त्यसम्भवः । निर्विघ्नेन विनानामभावो निर्विघ्नं तेन तवारेति यावत् विघ्नाश्च प्रतिबन्धकीभूता दुरदृष्टविशेषाः, प्रतिबन्धकश्च प्रकृते प्रन्थपारसमाप्यन्तरायहेतुः । 'कर्तृकरण- . योस्तृतीया ।। २।३।१८। इति करणे तृतीया । प्रारिप्सितपरिसमाप्तिकामः प्रारिप्सितस्य प्रारब्धुमिष्टस्य परिसमाप्तिः परितः समाप्तिश्चरमपर्णावधिका पूर्तिरिति यावत्, सैव कामोऽभिलाषो यस्य स इति तथोक्तः । प्रारिपितमित्यत्र 'निष्ठा।' ३।२।१०२ । इति क्तः । तदस्य सजातं तारकादिभ्य इतन् ।' ५। २। ३६ । इतीतच वा । वाङ्मयाधिकृततया अधिकृतं वाङ्मयं ययेति तद्भावस्तयेति तथोक्तया । आहिताग्न्यादित्वात्परनिपातः । वाङ्मयस्याधिकृतताधिकारस्तयेति वा । वाड्मय शास्त्रम् । 'हेतौ।' २।३।२३। इति तृतीया । वाग्देवताया वाचां देवता

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 910