Book Title: Ratnakar Panchvinshatika Vrutti
Author(s): Samaypragnashreeji
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 9
________________ फेब्रुआरी - २०१२ ॥ ध्वस्तो० ॥ व्याख्या ॥ 'हे नाथ !' हे नेत ! 'मे' मम, 'ही' इति खेदे ‘मतिभ्रमो' बुद्धिविपर्यासो, मते(भ्र)भ्रमो मतिभ्रमस्तत्पुरुषोऽभूदिति शेषः भ्रमं दर्शयति मयेति शेषः । मया ‘परमेष्टिमन्त्रो' नमस्कारमन्त्रो नमो अरिहंताणमित्यादि नवपदात्मकः । परमे पदे तिष्ठन्तीति परमेष्ठिनः सप्तम्यलुक्तत्पुरुषः, परमेष्ठिभिरुपलक्षितो मन्त्रः परमेष्ठिमन्त्रस्तत्पुरुषः; 'ऽन्यमन्त्रैः' अन्ये च ते मन्त्राश्चान्यमन्त्राः कर्मधारयस्तैर्ध्वस्तो निरादरीकृतः । तथा मया 'आगमोक्तिः' सिद्धान्तवाक्यम् आगमस्योक्तिरागमोक्तिस्तत्पुरुषः । 'कुशास्त्रवाक्यैः' कुशास्त्राणि वात्स्यायनादीनि; तेषां वाक्यानि वचनानि तैः कुत्सितानि च तानि शास्त्राणि च कुशास्त्राणि कर्मधारयः । कुशास्त्राणां वाक्यानि तैस्तत्पुरुषो निहतानि तानीत्यर्थः । तथा मया कर्मेत्यत्र जात्यपेक्षयैकवचनं ज्ञानावरणीयादिपापम् । 'वृथा कर्तुं' मुधा कर्तुं, मया कर्तुमित्यर्थोऽवाञ्छि' अभ्यलषम् । कस्मात् ? 'कुदेवसङ्गात्' हरिहरादिदेवसेवनात् । कुत्सिताश्च ते देवाश्च कुदेवाः कर्मधारयः, कुदेवानां सङ्ग(:) कुदेवसङ्गस्तत्पुरुष-स्तस्मादिति द्वादशवृत्तार्थः ॥१२॥ टबार्थ : ध्वस्तान्यमन्त्रैः परमेष्टिमन्त्रः - निराकर्यओ अनेरे मन्त्रे करी पंच परमेष्टिमन्त्र; कुशास्त्रवाक्यैनिहतागमोक्तिः - पाडूआ शास्त्रनें वचनें करी सिद्धांत निराकरूं; कर्तुं वृथा कर्म कुदेवसंगा - कीबूं फोकट कर्म माता देवना संग थकी; सर्वत्र सर्वदाऽवाञ्छि ही नाथ ! मतिभ्रमो मे - वांछे नीचूं ठाकुर चित्त चमको रहइं। विमुच्य दृग्लक्षगतं भवन्तं, ध्याता मया मूढधिया हृदन्तः । कटाक्ष-वक्षोज-गभीरनाभी,-कटीतटीयाः सुदृशां विलासाः ॥१३॥ ॥ विमुच्य० ॥ व्याख्या ॥ हे जगदीश ! 'मया सुदृशां' मृगलोचनानां; सुष्ठ दृग् यासां ताः सुदृशस्तासां बहुव्रीहिः । तरललोचनानां 'विलासा' विभ्रमा 'ध्याता'श्चिन्तिताः । कथम् ? 'हृदन्त'मनोमध्ये, हृदोऽन्तर्हृदन्तस्तत्पुरुषः । कथंभूतेन मया ? 'मूढधिया' मन्दमतिना, मूढा धीर्यस्य स मूढधीर्बहुव्रीहिस्तेन । विलासाः किंलक्षणाः ? 'कटाक्ष-वक्षोज-गभीरनाभी-कटीतटीयाः' कटाक्षोऽक्षिविकूणितं, वक्षोजौ स्तनौ, गभीरा निम्ना या नाभिः प्रसिद्धो देहावयवः, कटीतटं कटीप्रदेशः, एतेषां सम्बन्धिनः । वक्षसि जायते इति वक्षोजौ तत्पुरुषः । गभीरा चासौ नाभी च गभीरनाभी कर्मधारयः । कट्यास्तटं कटीतटं तत्पुरुषः । कटाक्षश्च वक्षोजौ च गभीरनाभी च कटीतटं च कटाक्षवक्षोजगभीरनाभीकटीतटं द्वन्द्वः

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18