Book Title: Ratnakar Panchvinshatika Vrutti
Author(s): Samaypragnashreeji
Publisher: ZZ_Anusandhan
View full book text
________________
OC
अनुसन्धान-५८
प्राणितूर्यसेनाङ्गानामेकवद्भावो द्वन्द्वे भवति । कटाक्षवक्षोजगभीरनाभीकटीतटे भवाः कटाक्षवक्षोजगभीरनाभीकटीतटीया; केनेयेका इति तद्धितसूत्रेणेयप्रत्ययः । किं कृत्वा ? 'विमुच्य' परित्यज्य । कम् ? 'कर्मतापन्नं त्वां 'भवन्तं' किंविशिष्टम ? 'दृग् लक्ष्यगतं' दृग् दृष्टिस्तस्या लक्ष्यं वेध्यं तद्गतः प्राप्तस्तं दृग्गोचरीभूतमित्यर्थः; दृशो लक्ष्यं दृग्लक्ष्यं तत्पुरुषः । दृग्लक्ष्यं गतो दृग्लक्ष्यगतस्तत्पुरुषस्तं; लक्षशब्दो 'य'काररहितोप्यस्ति लक्षं लक्ष्यं शब्दकमित्यभिधानकोशवचनादिति त्रयोदशवृत्तार्थः ॥१३॥
टबार्थ : विमुच्य दृग्लक्षगतं भवन्तं ध्याता - मूंकी करी लोचन गोचर गत तुझनइं ध्याया; मया मूढधिया हृदन्तः - में मूरख बूद्धि चित्तमांहइं; कटाक्षवक्षोजगभीरनाभी - लोचनविकार, स्तन गंभीरनाभि; कटीतटीयाः सुदृशां विलासा - कटि तटिना प्रदेश स्त्रीना विकार ॥१३॥ लोलेक्षणावक्त्रनिरीक्षणेन, यो मानसे रागलवो विलग्नः । न शुद्धसिद्धान्तपयोधिमध्ये, धौतोऽप्यगात्तारक ! कारणं किम् ? ॥१४॥
॥ लोले० ॥ व्याख्या ॥ हे त्रिकालवेदिन् ! यो मे 'मानसे' हृदये, 'रागलवो' रागलेशो, रागस्य लवो रागलवस्तत्पुरुषः 'विलग्नो' विशेषेण स्थितः । केन ? 'लोलेक्षणावक्त्रनिरीक्षणेन' । लोलेक्षणा – रमणी, तस्या वक्त्रं मुखं, तस्य निरीक्षणं विलोकनं, ति(ते)न । लोले चपले ईक्षणे लोचने यस्याः सा लोलेक्षणा बहुव्रीहिः । लोलेक्षणाया वक्त्रं लोलेक्षणावक्त्रं तत्पुरुषः, लोलेक्षणावक्त्रस्य निरीक्षणं लोलेक्षणावक्त्रनिरीक्षणं तत्पुरुषस्तेन । 'हि(हे)तारक!' हे संसारपारप्रापक ! स रागलवो 'नागा'न्न गतः । किंलक्षणो रागलवः ? धौत:-क्षालितोपि; कस्मिन् ? 'शुद्धसिद्धान्त-पयोधिमध्ये' शुद्धो निर्दूषणो यः सिद्धान्त – आगमः स एव पयोधिः समुद्रस्तस्य मध्यो मध्यभागस्तस्मिन् । शुद्धश्चासौ सिद्धान्तश्च शुद्धसिद्धान्तः कर्मधारयः; शुद्धसिद्धान्तपयोधर्मध्यं शुद्धसिद्धान्तपयोधिमध्यं तत्पुरुषस्तस्मिन् । तत्र 'किं कारणम्' हेतुरभूदिति चतुर्दशवृत्तार्थः ॥१४॥
टबार्थ : लोलेक्षणावक्त्रनिरीक्षणेन - स्त्रीजन तेहना मुखनूं जोवू तेणइं करी; यो मानसे रागलवो विलग्नः - जेम चित्तनइं राग थोडोई लागो; न शुद्धसिद्धान्तपयोधिमध्ये - नही निर्मल शास्त्ररूपीया समुद्रइं मांहइं; धौतोप्यगा(त्ता)रक

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18