Book Title: Ratnakar Panchvinshatika Vrutti
Author(s): Samaypragnashreeji
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ २२ अनुसन्धान-५८ परेषामपायाः परापायास्तत्पुरुषः, परी ( रा ) पायानां विचिन्तनं परापायविचिन्तनं त(तं) परापायविचिन्तनं तत्पुरुषस्तेन । अतो 'हे विभो !' हे प्रभोऽहं कथं भविष्यामि ?' अथ अग्रे मे का गतिर्भविष्यतीति भावः । इति दशमवृत्तार्थः ॥१०॥ टबार्थ : परापवादेन मुखं सदोषं - बीजा लोकना अपवाद बोलवें करी मुख सदोष; नेत्रं परस्त्रीजनवीक्षणेन लोचन परस्त्री जोवें करी सदोष; चेतः परापायविचिन्तनेन चित्त लोकनें अर्थे चिंतवें करीनई; कृतं भविष्यामि कथं विभोहं ? कीधूं । थाइस किम हे विभु हुं ? । - विडम्बितं यत्स्मरघस्मरार्त्ति - दशावशात्स्वं विषयान्धलेन । प्रकाशितं तद्भवतो ह्रियैव, सर्वज्ञ ! सर्वं स्वयमेव वेत्सि ॥११॥ ॥ विडं० ॥ व्याख्या ।। हे नाथ ! यन्मया 'स्वमिति निजं, 'विडम्बितं' गर्हणीयतां नीतं, कस्मात् ? 'स्मरघस्मरार्त्तिदशावशात्' स्मरघस्मरार्त्तिदशावशात् । स्मरः कामः । स एव घस्मरोऽद्मरः इति लोकोक्तिः, तस्यार्त्तिः - पीडा; तस्या या दशा अवस्थास्तासां वश आधीनस्तस्मात् । स्मर एव घस्मरः स्मरघस्मरः कर्मधारयः, स्मरघस्मरस्यार्त्तिः स्मरघस्मरार्त्तिस्तत्पुरुषः । स्मरघस्मरार्त्तेर्दशाः स्मरघस्मरार्त्तिदशास्तत्पुरुषः, स्मरघस्मरार्त्तिदशानां वशः स्मरघस्मरार्त्तिदशावशस्तत्पुरुषस्तस्मात् । मया किंलक्षणेन ? 'विषयान्धलेन' विषयाः शब्दाद्यास्तैरन्धलो निमीलितविवेकलोचनो विषयैरन्धलो विषयान्धलस्तत्पुरुषस्तेन ते(त)द्विडम्बितं । ‘ह्रिया' लज्जया कथनरूपया भवतस्तव एव निश्चयेन प्रकाशितं प्रकटीकृतम् । कोऽर्थो ? मम लज्जया तव तन्निवेदितं मां लज्जमानं दृष्ट्वा त्वया मदाचरितं ज्ञातमित्यर्थः । यतो हे 'सर्वज्ञ !' सर्वं जानातीति सर्वज्ञस्तत्पुरुषस्तस्य सम्बोधनं साभिप्रायं विशेषणमेतत् सर्वं समस्तं स्वयमात्मना एवेति निश्चये त्वमिति शेषः । ' वेत्सि' जानासीत्येकादशवृत्तार्थः ॥११॥ टबार्थ : विडम्बितं यत (यत्) स्मरघस्मरार्त्ति - विडम्बित जे कन्दर्पपीडा तेहनी आर्त्ति; दशावशात (त्) स्वं विषयान्धलेन आपण पुंविषय सौख्य आन्धलेन; प्रकाशितं – कहूं; तद्भवतो ह्रियैव - ते तुम्ह आगल लज्जाइं; 'सर्वज्ञ ! सर्वं स्वयमेव वेत्सि हे वीतराग ! सहू पोते जांई ॥११॥ - ध्वस्तोऽन्यमन्त्रैः परमेष्टिमन्त्रः, कुशास्त्रवाक्यैर्निहताऽऽगमोक्तिः । कर्तुं वृथा कर्म कुदेवसङ्गा, - दवाञ्छि ही नाथ मतिभ्रमो मे ॥१२॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18