Book Title: Ratnakar Panchvinshatika Vrutti
Author(s): Samaypragnashreeji
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 13
________________ फेब्रुआरी - २०१२ २७ 'श्राद्धधर्मः' सम्यक्त्वमूलद्वादशव्रतलक्षणः । श्राद्धानां धर्मः श्राद्धधर्मः, श्राद्धधर्मस्तत्पुरुषः, न विहितः तथा यन्मया 'साधुधर्मः' पञ्चमहाव्रतलक्षणः । साधूनां धर्मः साधुधर्मस्तत्पुरुषः, न निर्मितः । किं कृत्वा ? 'लब्ध्वाऽपि' प्राप्याऽपि; किं कर्मतापन्नं ? 'मानुष्यं' मनुजत्वं; मनुष्यस्य भावो मानुष्यं; तत् लब्ध्वा मानुष्यमिति पदयुगलं देवपूजादिपदेष्वपि योज्यं । तत् इदमिति देवार्चाद्यऽकरणलक्षणं; 'समस्तं' सकलं 'कृतं' निमितं इदं; कीदृशं कृतं ? 'अरण्यविलापतुल्यं' अरण्यं कान्तारं, तत्र विलापो रोदनं तस्य तुल्यं सदृशं । अरण्ये विलापोऽरण्यविलापस्तत्पुरुषः, ऽरण्यविलापस्य तुल्यमरण्यविलापतुल्यं तत्पुरुषः । कोऽर्थो ? यन्मया नरत्वं प्राप्यार्हत्पूजादिकसुकृतं न कृतं, तन्मयाऽरण्ये रोदनं कृतम् । अरण्ये रोदनं त्वकिञ्चित्करं प्रसिद्धमस्ति । यत उक्तं; अरण्यरुदितं कृतं शबशरीरमुद्वर्तितं, । श्वपुच्छमवनामितं बधिरकर्णजापः कृतः । स्थले कमलरोपणं सुचिरमूखरे वर्षणं, तदभ्रमुखमण्डनं यदबुधे जने भाषितम् ॥ इत्यष्टादशवृत्तार्थः ॥१८॥ टबार्थ : न देवपूजा - में देवनी पूजा न कीधी; न च पात्रपूजा - पात्रपूजा न कीधी; न श्राद्धधर्मश्च न साधुधर्मः - श्रावकनो धर्म न कीधो साधूनो पिण धर्म न कीधओ; लब्ध्वाऽपि - लही करी; मानुष्यमिदं समस्तं - मनुष्यभव ए सगलओ; कृतं मयारण्यविलापतुल्यं - कीबूं में रुदन कीबूं वनखंड सेवउ ॥१८॥ चक्रे मयाऽसत्स्वपि कामधेनु - कल्पद्रुचिन्तामणिषु स्पृहार्त्तिः । न जैनधर्मे स्फुटशर्मदेऽपि, जिनेश ! मे पश्य विमूढभावम् ॥१९॥ ॥ चक्रे० ॥ व्याख्या ॥ 'हे जिनेश !' जिनाः केवलिनः तेषामीशः स्वामी, जिनानामीशो जिनेशस्तत्पुरुषस्तस्य सम्बोधनम् । मया 'स्पृहार्त्तिः' वाञ्छापीडा प्राप्त्यऽध्यवसाय इति यावत् । स्पृहाया अर्तिः स्पृहार्तिस्तत्पुरुषः । 'चक्रे' कृता, केषु ? 'कामधेनु-कल्पद्रु-चिन्तामणिषु' कमधेनुः कामगवी, कल्पद्रुर्देवतरुः, चिन्तामणि-श्चिन्तारत्नं; तिषु(तेषु), कामस्य पूरिका धेनुः कामधेनुस्तत्पुरुषः, कल्पश्चासौ द्रुश्च कल्पद्रुः कर्मधारयः, चिन्तायाः पूरको मणिश्चिन्तामणिमध्यपदलोपी तत्पुरुषः । कामधेनुश्च कल्पद्रुश्च चिन्तामणिश्च कामधेनुकल्पद्रुचिन्तामणयो द्वन्द्वस्तेषु । किं लक्षणेषु कामधेनु-कल्पद्रु-चिन्तामणिषु? 'असत्स्वपि' अविद्यमानेष्वपि, न

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18