Book Title: Ratnakar Panchvinshatika Vrutti
Author(s): Samaypragnashreeji
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 11
________________ फेब्रुआरी - २०१२ २५ कारणं किं ? - धोयो हुं तो न गयो हे तारक ! तेसुं कारण ? ॥१४॥ अनंग (अङ्ग) न चङ्गं न गणो गुणानां, न निर्मलः कोपि कलाविलासः । स्फुरत्प्रधानप्रभुता च कापि, तथाप्यहङ्कारकर्थितोऽहम् ॥१५॥ ॥ अङ्गं० ॥ व्याख्या ॥ हे जिनेश ! मे 'अहं' शरीरं, 'चङ्ग' सुन्दरं नास्ति । तथा 'गुणानां' विनयो(यौ) दार्य-धैर्य-गाम्भीर्यादीनां 'गणः' समूहोऽपि नास्ति । तथा 'कोऽपि कलाविलासः' कलोद्दीपनं; कलानां विलासः कलाविलासस्तत्पुरुषः, नास्ति कलाविलासः । किंलक्षणो ? 'निर्मल'श्चोक्षो निर्गतो मलादिभिर्निर्मलः तत्पुरुषः । तथा च पुनः ‘कापि स्फुरत्प्रधानप्रभुता' स्फुरन्ती देदीप्यमाना या प्रधानानामग्रेमराणां राज्ञामिति यावत् । प्रभुः स्वामी तस्य भावस्तत्ता चक्रवर्त्तिता । अथवा प्रधानानामधिकारिणां प्रभुता ऐश्वर्य, प्रधानानां प्रभुः प्रधानप्रभुस्तत्पुरुषः, प्रधानप्रभोर्भाव: प्रधानप्रभुता, स्फुरन्ती चासौ प्रधानप्रभुता च स्फुरत्प्रधानप्रभुता कर्मधारयः, नास्ति । तथापि हे प्रभो ! अहं 'अहङ्कारकदर्थितो-ऽभिमानाऽभिभूतोऽहङ्कारेण कर्थितोऽहङ्कारकर्थितस्तत्पुरुषः, ऽस्मीति शेषः । इति पञ्चदशवृत्तार्थः ॥१५॥ टबार्थ : अङ्गं न चङ्गं न गु(ग)णो गुणानां - अंग निर्मल हूओ नही न हूआ गुण घणा; न निर्मलः - न हूउ निर्मल; कोपि कलाविलासः - कोई कलाविलास नथी; स्फुरत्प्रभा न प्रभुता च कापि - न देदीप्यमांन महिमा नही प्रभुताई पण; तथाप्यहङ्कारकर्थितोहं - तो ही पण अहंकार कदर्थन हूओ ॥१५।। आयुर्गलत्याशु न पापबुद्धि,-र्गतं वयो नो विषयाभिलाषः ।। यत्नश्च भैषज्यविधो(धौ) न धर्मे, स्वामिन् ! महामोहविडम्बना मे ॥१६॥ ॥ आयु० ॥ व्याख्या ॥ 'हे स्वामिन्' हे नेतर्मम ‘महामोहविडम्बना' प्रबल मोहनीयकर्मकदर्थना। महांश्चासौ मोहश्च महामोहः कर्मधारयः, महामोहस्य विडम्बना तत्पुरुषः, अस्ति । ता मोहविडम्बना दर्शयति; मम 'आयुर्जीवितं 'गलति' याति । कथम् ? 'आशु' शीघ्रं, 'पापबुद्धिः' पापपरिणामः । पापस्य बुद्धिः पापबुद्धिस्तत्पुरुषः, न गलति मे वयो यौवनलक्षणं 'गतमतिक्रान्तं'; 'विषयाभिलाषः विषयाः शब्द १ रूप-२, गन्ध-३, रस-४, स्पर्शा-५स्तेषामभिलाषः स्पृहा । विषयाणामभिलाषो विषयाभिलाषस्तत्पुरुषः, 'न गतः' । च पुन भैषज्यविधौ' औषधविधाने; विधानं विधिभैषज्यस्य विधिर्भेषज्यविधिस्तत्पुरुषः तस्मिन् यत्न

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18