Book Title: Ratnakar Panchvinshatika Vrutti
Author(s): Samaypragnashreeji
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 16
________________ अनुसन्धान- ५८ वाक्येषु शान्तिरुपशमो मा भूत् । तथा मम 'कोप्यध्यात्मलेशः ' पठनपाठनाष्टाङ्गयोगलवः, आत्मानमधिकृत्य यद्वर्त्तते तदध्यात्ममव्ययीभावः, ऽध्यात्मस्य लेशोऽध्यात्मलेशस्तत्पुरुषो नाभवदिति द्वाविंशतितमवृत्तार्थः ॥२२॥ टबार्थ : वैराग्यरङ्गो न गुरूदितेषु - संवेगरंग न हूओ गुरुवचननई विष; न दुर्जनानां वचनेषु शान्ति: न दुष्टजन बोलितनें विषं शांति नाध्यात्मलेशो मम कोपि देवः अध्यात्मलेश हूओ नही हे देव !; तार्यः कथङ्कारमयं भवाब्धिः तर किम संसारसमुद्र ||२२|| ३० - पूर्वे भवेऽकारि मया न पुण्य, मागामिजन्मन्यपि नो करिष्ये । यदीदृशोऽहं मम तेन नष्टा, भूतोद्भवद्भाविभवत्रयीश ! ॥२३॥ ॥ पूर्वे० ॥ व्याख्या ॥ हे नेतर्मया ' पूर्वे' अतिक्रान्ते 'भवे' जन्मनि 'पुण्यं' सुकृतं ‘नाऽकारि' न निरमायि । कथमेतद् ज्ञायते ? उच्यते - तादृग् सौख्याऽप्राप्तितो ज्ञातम् । तथा 'आगामि जन्मनि' भाव्यऽवतारेपि, आगमिष्यतीत्येवंशीलमागामि तत्पुरुष:, आगामि च तज्जन्म चागामिजन्म कर्मधारयस्तस्मिन् । 'पुण्यं नो' नैव 'करिष्ये' विधास्ये । कथमेतद् ज्ञातं ? उच्यते; वर्त्तमानभवस्वरूपं तु 'दत्तं न दानं परिशीलितं तु' इत्यादिना प्रतिपादितं, अस्मिन् जन्मनि पुण्याऽकरणादग्रेऽप्पहं न करिष्ये । यतः पुण्येन पुण्यं वर्धते, पापेन पापमिति । यदिति यस्मात् ईदृश इति पुण्योपार्जनविवर्जितोऽहमस्मीति शेषः । तेन कारणेन मम 'भूतोद्भवद्भाविभवत्रयी' भूतोऽतिक्रान्तः, उद्भवन् वर्त्तमानो भव:, आगामी, ईदृशा ये भवास्तेषां त्रयी-त्रिकं; भूतश्चोद्भवंश्च भावी च भूतोद्भवद्भाविनो द्वन्द्वः । भूतोद्भवद्भाविनश्च ते भवाश्च भूतोद्भवद्भाविभवाः कर्मधारयः; भूतोद्भवद्भाविभवानां त्रयी भूतोद्भवद्भाविभवत्रयी तत्पुरुष इति त्रयोविंशतितमवृत्तार्थः ॥२३॥ बार्थ : पूर्वे भवेऽकारि मया न पुण्यं - पूर्वभवई मई पुण न कीधऊ; आगामिजन्मन्यपि आवतइं भवइं पण नही; नो करिष्ये - करीस; यदीदृशोऽहं जो एहवो छं तो; मम तेन नष्टा माहरा नाठा; भूतोद्भवद्भाविभवत्रयीश – अतीत अनागत वर्त्तमांन भवत्रयी हे नाथ ! ॥२३॥ - किं वा मुधाऽहं बहुधा सुधाभुक् - पूज्य ! त्वदग्रे चरितं स्वकीयं । जल्पामि यस्मात् त्रिजगत्स्वरूप - निरूपकस्त्वं कियदेतदत्र ॥२४॥

Loading...

Page Navigation
1 ... 14 15 16 17 18