Page #1
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
श्रीकनककुशलगणि-रचिता श्री रत्नाकरपञ्चविंशतिका-वृत्तिः॥
- साध्वी समयप्रज्ञाश्री
'रत्नाकरपचीशी'ना नामे जैन संघमां प्रख्यात तथा सौने मान्य एवी संस्कृत रचना आचार्य श्रीरत्नाकरसूरि महाराजे बनावी छे तेनी कथा सर्वविदित छे. तेना गुजराती सहित विविध भाषाओमां गद्य-पद्यानुवादो उपलब्ध छे. तेना पर सम्भवतः १७मा सैकामां थयेल श्रीकनककुशल गणिवर्यनी रचेली टीका अप्रगट होवाथी अहीं प्रकाशित करेल छे. आनी एक प्रत मळी तेना आधारे आवड्युं तेवू सम्पादन कयुं छे. भूलो विद्वानो सुधारशे तेवी खातरी छे. आ टीकामां विशेषता ए छे के टीकाना छेडे गुर्जर भाषामां टबार्थ पण कर्ताए लख्यो छे. आ प्रत सं. १८१०मां पालणपुरमां लखाई छे तेवू तेनी पुष्पिका परथी नक्की थाय छे.
प्रणम्य श्रीमदर्हन्त-मिष्टसिद्धिविधायकं ।
श्रेयः श्रियां मङ्गलस्य, वृत्तिं कुर्वे शिशूचिताम् ॥१॥ श्रेयः श्रियां मङ्गलकेलिसद्म ! नरेन्द्रदेवेन्द्रनताङ्घ्रिपद्म ! । सर्वज्ञ ! सर्वातिशयप्रधान ! चिरं जय ज्ञानकलानिधान ! ॥१॥
॥ श्रेय० ॥ व्याख्या ॥ हे ! 'नरेन्द्रदेवेन्द्रनताङ्घ्रिपद्म' ! नरेन्द्राश्चक्रवर्त्यादयो देवेन्द्राद्यमराद्यास्ते नते वन्दिते अङ्घ्रिपद्मे चरणकमले यस्य स, तस्य सम्बोधनम् । नराणामिन्द्रा नरेन्द्रास्तत्पुरुषः । देवानामिन्द्रा देवेन्द्रास्तत्पुरुषः । नरेन्द्राश्च देवेन्द्राश्च नरेन्द्रदेवेन्द्रा द्वन्द्वः । ऽझी एव पद्मे अछिपमे कर्मधारयः । नरेन्द्र-देवेन्द्रैर्नते नरेन्द्रदेवेन्द्रनते, नरेन्द्रदेवेन्द्रनते अज्रीपञ यस्य स नरेन्द्रदेवेन्द्रनताङ्घ्रिपद्मो बहुव्रीहिः । तस्य सम्बोधनं हे ! 'नरेन्द्र० !' हे ! 'सर्वज्ञ !' सर्वं जानातीति 'सर्वज्ञः' तस्य सम्बोधनं हे 'सर्वज्ञ !'
हे ! 'सर्वातिशयप्रधान !' सर्वे समस्ता अतिशया नीरोगदेहाद्यास्तैः प्रधान उत्कृष्टस्तस्य सम्बोधनं, सर्वे च अतिशयाश्च 'सर्वातिशयाः' कर्मधारयः । सर्वातिशयैः 'प्रधानः' 'सर्वातिशयप्रधान' स्तपुरुषस्तस्य सम्बोधनम् ।
Page #2
--------------------------------------------------------------------------
________________
अनुसन्धान-५८
हे ! 'ज्ञानकलानिधान !' 'ज्ञानं' केवलज्ञानं । 'कला' लिखनादिकाद्याः सप्ततिसंख्याकास्तेषां 'निधानं' निधिस्तस्य सम्बोधनम् । ज्ञानं च कलाश्च ज्ञानकला द्वन्द्वः । ज्ञानकलानां निधानं 'ज्ञानकलानिधानं' तत्पुरुषस्तस्य सम्बोधनम् । 'चिरं' चिरकालं 'जय' ।
सर्वोत्कर्षेण वर्तस्वेति क्रियासण्टङ्कस्त्वमिति शेषः ! त्वं किम्भूतो ? 'मङ्गलकेलिसद्म !' मङ्गलानि कल्याणानि । तेषां 'केलिसद्म' क्रीडागृहं । केलेः सद्म केलिसद्म तत्पुरुषः । मङ्गलानां केलिसद्म 'मङ्गलकेलिसद्म' तत्पुरुषः । कासां? 'श्रेयःश्रियां' । श्रेयो मोक्षस्तस्य । श्रियो लक्ष्म्यस्तासां, श्रेयसः श्रियः श्रेयःश्रियस्तत्पुरुषस्तासां मुक्तिलक्ष्मीकल्याणक्रीडनमन्दिरमित्यर्थः इति प्रथमवृत्तार्थः ॥१॥
टबार्थ : श्री गुरुभ्यो नमः ॥ - श्रीसद्गुरुभ्यो नमः ।
श्रेयःश्रियां - कल्याणलक्ष्मी, मङ्गलकेलिसद्म - मङ्गलीक क्रीडाघर, नरेन्द्र-देवेन्द्र - राजा-इन्द्र, नतांघ्रिपद्म - प्रणमित पदकमल, सर्वज्ञ - वीतराग, सर्वातिशयप्रधान - चोत्रीस अतिशयप्रधान, चिरं जय ज्ञानकलानिधान - चिरकाल जयवंता वर्तो शास्त्र बहुत्तरि कलाथानक.
जगत्त्रयाधार ! कृपावतार ! दुर्वारसंसारविकारवैद्य ।
श्रीवीतराग ! त्वयि मुग्ध भावाद्विज्ञ ! प्रभो ! विज्ञपयामि किञ्चित् ॥२॥ ॥ जग० ॥ व्याख्या ॥ हे ! 'जगत्रआ(या)धार !' जगतां भुवनानां त्रयं स्वर्गमर्त्य-पाताल लक्षणं, तस्याधारः स्थानं; रक्षकत्वात्तस्य सम्बोधनम् । जगतां त्रयं 'जगत्त्रयं' तत्पुरुषः । जगत्त्रयस्याधारो 'जगत्त्रयाधार'स्तत्पुरुषस्तस्य सम्बोधनम् ।
हे 'कृपावतार !' कृपायां दयायामवतारः प्रवेशो यस्य सः 'कृपावतारः'। प्रवेशस्तूपदेशद्वारेण भवत्यथवा कृपाया अवतारो यस्मिन्निति बहुव्रीहिस्तस्य सम्बोधनम् । हे 'दुर्वारसंसारविकारवैद्य' ! दुर्वारो वारयितुमशक्यो यः संसारविकारो रोग-वियोग-जरा-मरणादिलक्षणो भयविकारस्तस्य चिकित्सा कारित्वाद्वैद्य इव वैद्यस्तस्य सम्बोधनम् । दुःखेन वार्यते इति 'दुर्वार'स्तत्पुरुषः। संसारस्य विकारः 'संसारविकार'स्तत्पुरुषः । दुर्वारश्चासौ संसारविकारश्च ‘दुर्वारसंसारविकारः' कर्मधारयः । दुर्वारसंसारविकारस्य वैद्यो 'दुर्वारसंसारविकार-वैद्य'स्तत्पुरुषस्तस्य
Page #3
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
सम्बोधनम् । हे 'श्रीवीतराग !' वीतो गतो रागो यस्मात् 'वीतरागो' बहुव्रीहिः । श्रिया युक्तो वीतरागः 'श्रीवीतराग'-स्तस्य सम्बोधनं तत्पुरुषः ।
हे विज्ञ !' विदग्ध । हे प्रभो ! हे नेतः ! किञ्चित्किमपि 'विज्ञपयामि' विज्ञप्तिं करोमि । कस्मिन् विषये ? 'त्वयि' भवति विषये । कस्मात् ? 'मुग्धभावात् ?' मुग्धो विशो(शे)षज्ञानविकलो जनस्तस्य भावो भवनं तस्मात् । मुग्धस्य भावो मुग्धभावस्तस्मादिति द्वितीयवृत्तार्थः ॥
टबार्थ : जगत्रयाधार - त्रिहुं जगत्रनै आधार, कृपावतार - दयावंत, दुर्वारसंसारविकारवैद्य - दुःखें करी वारी सकै संसार तेहनउ वैद्य, श्रीवीतराग - एहवा श्री वीतराग, त्वयि - ताहरे, मुग्धभावात् - भोलपणथको, विज्ञ प्रभो विज्ञपयामि - डाहो ठाकुर वीनती करूं, किंचित् - काइक ।
किं बाललीलाकलितो न बालः, पित्रोः पुरो जल्पति निर्विकल्पः । तथा यथार्थं कथयामि नाथ ! निजाशयं सानुशयस्तवाग्रे ॥३॥ ॥ किं बा० ॥ व्याख्या ॥ किमिति वितर्के । 'बालं'(लः) स्तनन्धयः । 'पित्रोः' माता च पिता च पितरौ द्वन्द्वस्तयोः पित्रोः । 'पुरो'ग्रे 'न जल्पति' न ब्रूते । अपितु जल्पति बालः । किंलक्षणो बालः ? 'लीलाकलितो' बालस्य शिशोर्लीलायां शिशुक्रीडनादि का क्रीडना, तया कलितः सहितः । बालस्य लीला बाललीला तत्पुरुषः । बाललीलया कलितो बाललीलाकलितः स्त(त)त्पुरुषः । पुनः किंलक्षणो बालः ? 'निर्विकल्पो' निर्गतो विकल्पाद्रोषणाभाषणरूपादिति निर्विकल्पः तत्पुरुषः । हे 'नाथ !' हे प्रभो ! तथेति बालभाषणन्यायेन 'तव' भवतोग्रे' पुरस्तात् । 'निजाशयं' स्वाभिप्रायं । निजस्याशयो निजाशयस्तत्पुरुषस्तं । 'कथयामि' प्रकटीकरोमि अहमिति शेषः । कथं ? 'यथार्थं' अर्थमनतिक्रम्य यथार्थमव्ययीभावः । यथा प्रयोजनं यथा वाच्यं वा । अर्थो हेतौ प्रयोजने निवृत्तौ विषये वा ये प्रकारद्रव्यवस्तुष्वित्यनेकार्थे । ऽहं किंलक्षणः ? 'सानुशयो' बहुपापोपार्जनात्सपश्चात्तापः । सहानुशयेन वर्त्तते यः स सानुशयो ति(हि)बहुव्रीति(हि)रिति तृतीयवृत्तार्थः ॥३॥
टबार्थ : किं बाललीलाकलितो- किसुं छोरूं क्रीडासहित, बालः - बालक, पित्रोः पुरो जल्पति - जनक आगल बोले, निर्विकल्पः - विचाररहित, तथा – तिम, यथार्थं - यथार्थ, कथयामि - कहुं, नाथ - ठाकुर, निजाशयं
Page #4
--------------------------------------------------------------------------
________________
१८
अनुसन्धान-५८
सानुशयस्तवाग्रे - आपणा चित्तनुं अभिप्राय तुझ आगलई ।
दत्तं न दानं परिशीलितं तु, न शालि शीलं न तपोभितप्तम्। शुभो न भावोभ्यभवद् भवेऽस्मिन्, विभो ! मया भ्रान्तमहो मुधैव ॥४॥
॥ दत्तं० ॥ व्याख्या ॥ 'हे विभो !' हे स्वामिन् ! 'मया दानं न दत्तं' कृपणत्वेन पात्रे धनं न नियोजितम् । तथा तु पुनर्मया 'शीलं' ब्रह्मचर्यं न 'परिशीलितं' न पालितं । शीलम् किंविशिष्टं ? 'शालि' मनोज्ञं तथा मया 'तपो' बाह्याभ्यन्तररूपं द्वादशविधम् 'नाभितप्तं' न कृतं । तथा 'भावोपि नाऽभवत्' न जातो भावः । किंविशिष्टः ? 'शुभः' प्रशस्योऽतो 'अहो' इति खेदे; 'मुधैव' वृथैव मया 'श्रान्त' मटितं; क्व भवे ? किंलक्षणेऽस्मिन् प्रत्यक्षे? ॥ इति चतुर्थ वृत्तार्थः ॥
___टबार्थ : दत्तं न दानं - दान दीधुं नहीं, परिशीलितं तु - न रूडो आचार, न शालि शीलं - न शालि शील, न तपोभितप्तं - न तप कीबूं, शुभो न भावोप्यभवद् - रूडो भाव न कीधो, भवेऽस्मिन् - इणे संसारे, विभो मया - प्रभु में, भ्रान्तं - भम्यो, अहो मुधैन(व)-फोकट संसार ।। दग्धोऽग्निना क्रोधमयेन दु(द)ष्टो, दुष्टेन लोभाख्यमहोरगेण । ग्रस्तोभिमानाजगरेण माया,-जालेन बद्धोऽस्मि कथं भजे त्वाम् ॥५॥
॥ दग्धो० ॥ व्याख्या ॥ हे नाथ ! 'त्वा-(त्वां)' भवन्तं 'कथं भजे ?' सेवेऽहमिति शेषः । ऽहं किंलक्षणो ? 'दग्धो'-ऽभितप्तः । केनाग्निना वह्निना, अग्निना किंलक्षणेन? 'क्रोधमयेन' क्रोधस्वरूपेण । क्रोधस्य विकारः क्रोधमयस्तेन क्रोधाग्निनेत्यर्थः । पुनरहं किंलक्षणो ? 'दष्टो' दत्तडङ्कः । केन ? 'लोभाख्यमहोरगेण' लोभाभिधमहासर्पण । लोभ इति आख्या यस्य लोभाख्यो बहुव्रीहिः । उरसा गच्छतीति उरगस्तत्पुरुषः । महांश्चासावुरगश्च महोरगः कर्मधारयः। लोभाख्यश्चासौ महोरगश्च लोभाख्यमहोरगः कर्मधारयस्तेन लोभाख्यमहोरगेण । किंलक्षणेन ? 'दुष्टेन' निर्दयेन । पुनः ऽहं किंविशिष्टो?'ग्रस्तः' कवलीकृतः ।
केनाऽभिमानाजगरेण' अभिमानो ऽहंकारः स एवाजगरो बृहत्तरप्रमाणकायः सर्पजातिविशेषस्तेन । अभिमान एवाजगरोऽभिमानाजगरः कर्मधारयस्तेन । पुनरहं किं लक्षणो ? 'बद्धो' नियन्त्रितः । केन ? 'मायाजालेन' माया शाठ्यं तदेव जालं मत्स्यबन्धनं तेन; मायैव जालं मायाजालं कर्मधारयस्तेनेति पञ्चमवृत्तार्थः ॥
Page #5
--------------------------------------------------------------------------
________________
फेब्रुआरी २०१२
टबार्थ : दग्धोग्निना क्रोधमयेन दष्टो दग्ध अग्नि क्रोधे डस्यो पीडो, दुष्टेन लोभाख्यमहोरगेन(ण) – दुष्टै लोभइं रुपीयै मोटे सर्पे डसो, ग्रस्तोभिमानाजगरेण माया जालें, बद्धोऽस्मि - बांधो
ग्रस्यो अहंकाररूपीइं अजगरि, मायाजालेन
हुं, कथं भजे त्वाम् किम सेवूं ? ।
-
-
कृतं मयाऽमुत्र हितं न चेह - लोकेऽपि लोकेश ! सुखं न मेऽभूत् । अस्मादृशां केवलमेव जन्म, जिनेश ! जज्ञे भवपूरणाय ॥६॥
॥ कृतं० ॥ व्याख्या ॥ 'मयाऽमुत्र' परलोके 'हितं' सुकृतं ‘न कृतं’ न विहितम् । ‘हे लोकेश ! ' लोकानां षट्कायानामीशः स्वामी तत्पालकत्वात् । लोकानामीशो लोकेशस्तत्पुरुषस्तस्य सम्बोधनम् । 'च' पुनरिह 'लोकेऽपि' वर्तमानजन्मन्यपि मम ‘सुखं' शर्म नाभून्न 'जज्ञे' । अतो 'हे जिनेश !' हे केवलिपते ! जिनानामीशो जिनेशस्तत्पुरुषस्तस्य सम्बोधनम् । 'अस्मादृशां' वयमिव दृश्यन्ते इत्यस्मादृशस्तेषामस्मत्तुल्यानामित्यर्थः । ‘जन्मा’ऽवतारः, ‘केवलंभवपूरणाय'ऽवतारगणनाय । यथा पूर्वजन्मस्ववतारा अभूवन्, तथा अयमप्येकोऽवतारगणना। भवस्य पूरणं भवपूरणं तत्पुरुषः, तस्मै । 'जज्ञे' जातं, जनि प्रादुर्भावे इति धातुरेवेति निश्चये । ॥ इति षष्टवृत्तार्थः ॥६॥
-
१९
टबार्थ : कृतं मयामुत्र हितं न चेह न कीधूं मायाइं में परलोके - इहलोकइ हित, लोकेपि लोकेश सुखं न मेऽभूत् - लोकनें विषं लोकना ठाकुर सुख न हुई मुझ, अस्मादृशां अम्ह सरीखानें, केवलमेव जन्म केवल जनम हूओ, जिनेश वीतराग, जज्ञे हूओ, भवपूरणाय भव पूरवानें काजइं । मन्ये मनो यन्न मनोज्ञवृत्तं त्वदास्यपीयूषमयूखलाभात् । द्रुतं महानन्दरसं कठोर - मस्मादृशां देव ! तदश्मतोऽपि ॥७॥
॥ मन्ये० ॥ व्याख्या ॥ हे नाथाऽहमेवं 'मन्ये' जानामि 'यदि'ति यस्मात् ‘अस्मादृशां मन'श्चित्तं कर्तृपदं 'महानन्दरसं' महानन्दलक्षणमाह, सद्यो रसास्वादजन्माविगलितवेद्यान्तरा परमप्रीतिर्महानन्दरस एव परसं पानीयं कर्मपदं 'न द्रुतं' न श्रविउं इति लोकोक्तिः । कस्मात् ? 'मनोज्ञवृत्तत्वदास्यपीयूषमयूखलाभात्'; मनोज्ञं सुन्दरम् । पुनर्वृत्तं वर्तुलमेवंविधं यत्त्वदास्यं भवद्वदनं, तदेव पीयूषमयूखोऽमृतकिरणश्चन्द्र इत्यर्थस्तस्य लाभः प्राप्तिः ततः, तवास्यं 'त्वदास्यं' तत्पुरुषः । वृत्तं तद् वृत्त त्वदास्यं च मनोज्ञत्वदास्यं कर्मधारयः ।
-
-
Page #6
--------------------------------------------------------------------------
________________
अनुसन्धान-५८
पीयूषवन्मयूखा यस्य स पीयूषमयूखो बहुव्रीहिः । मनोज्ञवृत्तत्वदास्यमेव पीयूषमयूखो मनोज्ञवृत्तत्वदास्यपीयूषमयूखः कर्मधारयः । मनोज्ञवृत्तत्वदास्यपीयूषमयूखस्य लाभो मनोज्ञवृत्तत्वदास्यपीयूषमयूख-लाभस्तत्पुरुषस्तस्मात् । अथवा मनोज्ञवृत्तेति पृथक् पदं सम्बोधनसत्कं हे मनोज्ञवृत्त !' मनोज्ञं साधु वृत्तं शीलं यस्य स बहुव्रीहिस्तस्य सम्बोधनम् । अतो 'हे देव !' हे वीतराग ! 'अस्मादृशा'मस्मत्तुल्यानां, वयमिव दृश्यन्ते इत्यस्मादृशस्तेषां; मनश्चित्तं 'तदिति' तस्मात् 'अश्मतोपि' प्रस्तरतोपि । अर्थाच्चन्द्रकान्तरत्नतः ‘कठोरं' कठिनं वर्त्तते इति शेषः । कोऽर्थः ? चन्द्रकान्तो हि विधुदर्शनतो रसं श्रवति । मन्मनसा तु महानन्दो नाश्रावि भवदर्शनत इति सप्तमवृत्तार्थः ॥७॥
टबार्थ : मन्ये, मनो यन्न मनोज्ञवृत्तं - असुं चित्त रूडूं नहीं, त्वदास्यपीयूषमयूख - ताहरा मुख अमृत, लाभात् - तेहना लाभ थकी, द्रुतं - शीघ्रं, महानंद रसं कठोरं - महा आनंद रस पामवानें आकरूं, अस्मादृशां - अम्ह सरीखं, देव - हे वीतराग, तदश्मतोपि - पाषाण थकी ।।
त्वत्तः सुदुःप्रापमिदं मयाप्तं, रत्नत्रयं भूरिभवभ्रमेण । प्रमादनिद्रावशतो गतं तत्, कस्याग्रतो नायक ! पूत्करोमि ॥८॥
॥ त्वत्तः० ॥ व्याख्या ॥ 'हे नायक !' हे स्वामिन् ! 'त्वत्तो' भवतो 'रत्नत्रयं' ज्ञान-दर्शन-चारित्र-लक्षणं रत्नानां त्रयं तत्पुरुषः, 'मया आप्तं' प्राप्तम् । रत्नत्रयं किं लक्षणम् ? 'सुदुःप्राप(पं)' सुदुर्लभं, दुःखेन प्राप्यते इति दुःप्रापं तत्पुरुषः । सुष्ठ अतिशयेन दुःप्रापं सुदुःप्रापं, तत्पुरुषः । पुनः रत्नत्रयं किंलक्षणम् ? इदं प्रत्यक्षं । केन ? 'भूरिभवभ्रमेण' बहुभवभ्रान्त्यापि दुःप्रापम् । भूरयश्च ते भवाश्च भूरिभवाः कर्मधारयः । भूरिभवेषु भ्रमो भूरिभवभ्रमस्तत्पुरुषस्तेन । 'तदिति' रत्नत्रयं, 'प्रमादनिद्रावशतः' प्रमादो मद्यादि निद्राः पञ्चधा प्रसिद्धास्तेषां वशतो माहात्म्यतः, प्रमादनि(नि)द्रावशतत्पुरुषस्ततो गतं मत्तो दूरीभूतमित्यर्थः इति । 'कसा(स्या)ग्रतः' पुरतो रावां करोमि पोकारूं इति लोकोक्तिरिति ऽष्टमवृत्तार्थः ॥८॥
टबार्थ : त्वत्तः सुदुःप्रापमिदं मयाप्तं - तो दुःख पांमो कष्टै पामुं; रत्नत्रयं भूरिभवभ्रमेण - ज्ञान-दर्शन-चारित्र घणां भम(व) भमतां; प्रमादनिद्रावशतो गतं तत् - प्रमादनिद्रा तेहना वश थकुं गयुं ते; कस्याग्रतो नायक !
Page #7
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
पूत्करोमि - कुण आगल ठाकुर पोकार करूं ? ॥८॥
वैराग्यरङ्गः परवञ्चनाय, धर्मोपदेशो जनरञ्जनाय । वादाय विद्याऽध्ययनं च मेऽभूत्, कियद् ब्रुवे हास्यकरं स्वमीश! ॥९॥
॥ वैरा० ॥ व्याख्या ॥ 'हे ईश !' हे स्वामिन् ! 'स्वं' स्वकीयकृतं, 'हास्यकरं' हास्यकारकं, हास्यकरं हास्यकारकं तत्पुरुषः । 'किं(कि)यदिति' कियत्प्रमाणम् । 'ब्रुवे' कथयामि । कृतमिति कर्तृपदस्याध्याहारो विधेयोऽत्र । यद्यपि सर्वकृतं वक्तुं न शक्यते तथाप्यहमिति शेषः कियत्कृतं ब्रुवे । तद्दर्शयति; 'मे' मम वैराग्यस्य रङ्गो 'वैराग्यरङ्ग'स्तत्पुरुषः, ऽभू'ज्जातः । कस्मै ? 'परवञ्चनाय' परेषामन्येषां वञ्चनं विप्रतारणं तस्मै परेषां वञ्चनं परवञ्चनं, तस्मै तत्पुरुषः । तथा मे 'धर्मोपदेशो' धर्मो दानादिःतस्योपदेशः कथनं धर्मस्योपदेशो धर्मोपदेशस्तत्पुरुषः, ऽभूत् । कस्मै ? 'जनरञ्जनाय' जना लोकास्तेषां रञ्जनमावर्जनं तस्मै । जनानां रञ्जनं जनरञ्जनं तत्पुरुषस्तस्मै । तथा मे 'विद्याध्ययनं' विद्यापठनमभूत् । विद्यानामध्ययनं विद्याध्ययनं तत्पुरुषः शास्त्रपठनमित्यर्थः । कस्मै ? 'वादाय' परवादिजयायेति नवमवृत्तार्थः ॥९॥
टबार्थ : वैराग्यरङ्गः - वैराग्य रंग; परवञ्चनाय - परवंचनाने कारण; धर्मोपदेशो - धर्मोपदेश दीधउ; जनरञ्जनाय - ते जननें रंजवानइं काजइ; वादाय विद्याऽध्ययनं च मेऽभूत् - वाद करवाने विद्या हुइ; कियद् ब्रुवे - केतलूं कहुं; हास्यकरं - हासनूं कारण; स्त्व(स्व)मीश - हा हा ! यतीश ! । परापवादेन मुखं सदोषं, नेत्रं परस्त्रीजनवीक्षणेन । चेतः परापायविचिन्तनेन, कृतं भविष्यामि कथं विभोऽहम् ॥१०॥
॥ परा० ॥ व्याख्या ॥ 'हे विभो !' मयेतिशेषः, 'मुखं' वदनं, 'सदोषं' सदूषणं, सह दोषैर्वर्तते यत्तत्सदोषं बहुव्रीहिः । ‘कृतं' विहितं; केन ? 'परापवादेन' परेषामपवादः पराप-वादस्तत्पुरुषस्तेन । परेषामन्येषां द्वेषादिनामन्याऽसत्यदूषणोद्भावनमपवादस्तेन । तथा मया ‘नेत्रं' लोचनं सदोषं कृत । केन ? 'परस्त्रीजनवीक्षणेन' सरागदृष्ट्या परनारी-विलोकनेन; परेषां स्त्रियः परस्त्रियः तत्पुरुषः, परस्त्रिय एव जनाः परस्त्रीजनाः कर्मधारयः । विशेषेणेक्षणं वीक्षणं तत्पुरुषः, परस्त्रीजनानां वीक्षणं तत्पुरुषस्तेन। तथा मया 'चेतो' हृदयं सदोषं कृतम् । केन ? 'परापायविचिन्तनेन' । परेषामन्येषामपाया अनर्थास्तेषां विचिन्तनं विचारणं तेन ।
Page #8
--------------------------------------------------------------------------
________________
२२
अनुसन्धान-५८
परेषामपायाः परापायास्तत्पुरुषः, परी ( रा ) पायानां विचिन्तनं परापायविचिन्तनं त(तं) परापायविचिन्तनं तत्पुरुषस्तेन । अतो 'हे विभो !' हे प्रभोऽहं कथं भविष्यामि ?' अथ अग्रे मे का गतिर्भविष्यतीति भावः । इति दशमवृत्तार्थः ॥१०॥
टबार्थ : परापवादेन मुखं सदोषं - बीजा लोकना अपवाद बोलवें करी मुख सदोष; नेत्रं परस्त्रीजनवीक्षणेन लोचन परस्त्री जोवें करी सदोष; चेतः परापायविचिन्तनेन चित्त लोकनें अर्थे चिंतवें करीनई; कृतं भविष्यामि कथं विभोहं ? कीधूं । थाइस किम हे विभु हुं ? ।
-
विडम्बितं यत्स्मरघस्मरार्त्ति - दशावशात्स्वं विषयान्धलेन । प्रकाशितं तद्भवतो ह्रियैव, सर्वज्ञ ! सर्वं स्वयमेव वेत्सि ॥११॥
॥ विडं० ॥ व्याख्या ।। हे नाथ ! यन्मया 'स्वमिति निजं, 'विडम्बितं' गर्हणीयतां नीतं, कस्मात् ? 'स्मरघस्मरार्त्तिदशावशात्' स्मरघस्मरार्त्तिदशावशात् । स्मरः कामः । स एव घस्मरोऽद्मरः इति लोकोक्तिः, तस्यार्त्तिः - पीडा; तस्या या दशा अवस्थास्तासां वश आधीनस्तस्मात् । स्मर एव घस्मरः स्मरघस्मरः कर्मधारयः, स्मरघस्मरस्यार्त्तिः स्मरघस्मरार्त्तिस्तत्पुरुषः । स्मरघस्मरार्त्तेर्दशाः स्मरघस्मरार्त्तिदशास्तत्पुरुषः, स्मरघस्मरार्त्तिदशानां वशः स्मरघस्मरार्त्तिदशावशस्तत्पुरुषस्तस्मात् । मया किंलक्षणेन ? 'विषयान्धलेन' विषयाः शब्दाद्यास्तैरन्धलो निमीलितविवेकलोचनो विषयैरन्धलो विषयान्धलस्तत्पुरुषस्तेन ते(त)द्विडम्बितं । ‘ह्रिया' लज्जया कथनरूपया भवतस्तव एव निश्चयेन प्रकाशितं प्रकटीकृतम् । कोऽर्थो ? मम लज्जया तव तन्निवेदितं मां लज्जमानं दृष्ट्वा त्वया मदाचरितं ज्ञातमित्यर्थः । यतो हे 'सर्वज्ञ !' सर्वं जानातीति सर्वज्ञस्तत्पुरुषस्तस्य सम्बोधनं साभिप्रायं विशेषणमेतत् सर्वं समस्तं स्वयमात्मना एवेति निश्चये त्वमिति शेषः । ' वेत्सि' जानासीत्येकादशवृत्तार्थः ॥११॥
टबार्थ : विडम्बितं यत (यत्) स्मरघस्मरार्त्ति - विडम्बित जे कन्दर्पपीडा तेहनी आर्त्ति; दशावशात (त्) स्वं विषयान्धलेन आपण पुंविषय सौख्य आन्धलेन; प्रकाशितं – कहूं; तद्भवतो ह्रियैव - ते तुम्ह आगल लज्जाइं; 'सर्वज्ञ ! सर्वं स्वयमेव वेत्सि हे वीतराग ! सहू पोते जांई ॥११॥
-
ध्वस्तोऽन्यमन्त्रैः परमेष्टिमन्त्रः, कुशास्त्रवाक्यैर्निहताऽऽगमोक्तिः । कर्तुं वृथा कर्म कुदेवसङ्गा, - दवाञ्छि ही नाथ मतिभ्रमो मे ॥१२॥
Page #9
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
॥ ध्वस्तो० ॥ व्याख्या ॥ 'हे नाथ !' हे नेत ! 'मे' मम, 'ही' इति खेदे ‘मतिभ्रमो' बुद्धिविपर्यासो, मते(भ्र)भ्रमो मतिभ्रमस्तत्पुरुषोऽभूदिति शेषः भ्रमं दर्शयति मयेति शेषः । मया ‘परमेष्टिमन्त्रो' नमस्कारमन्त्रो नमो अरिहंताणमित्यादि नवपदात्मकः । परमे पदे तिष्ठन्तीति परमेष्ठिनः सप्तम्यलुक्तत्पुरुषः, परमेष्ठिभिरुपलक्षितो मन्त्रः परमेष्ठिमन्त्रस्तत्पुरुषः; 'ऽन्यमन्त्रैः' अन्ये च ते मन्त्राश्चान्यमन्त्राः कर्मधारयस्तैर्ध्वस्तो निरादरीकृतः । तथा मया 'आगमोक्तिः' सिद्धान्तवाक्यम् आगमस्योक्तिरागमोक्तिस्तत्पुरुषः । 'कुशास्त्रवाक्यैः' कुशास्त्राणि वात्स्यायनादीनि; तेषां वाक्यानि वचनानि तैः कुत्सितानि च तानि शास्त्राणि च कुशास्त्राणि कर्मधारयः । कुशास्त्राणां वाक्यानि तैस्तत्पुरुषो निहतानि तानीत्यर्थः । तथा मया कर्मेत्यत्र जात्यपेक्षयैकवचनं ज्ञानावरणीयादिपापम् । 'वृथा कर्तुं' मुधा कर्तुं, मया कर्तुमित्यर्थोऽवाञ्छि' अभ्यलषम् । कस्मात् ? 'कुदेवसङ्गात्' हरिहरादिदेवसेवनात् । कुत्सिताश्च ते देवाश्च कुदेवाः कर्मधारयः, कुदेवानां सङ्ग(:) कुदेवसङ्गस्तत्पुरुष-स्तस्मादिति द्वादशवृत्तार्थः ॥१२॥
टबार्थ : ध्वस्तान्यमन्त्रैः परमेष्टिमन्त्रः - निराकर्यओ अनेरे मन्त्रे करी पंच परमेष्टिमन्त्र; कुशास्त्रवाक्यैनिहतागमोक्तिः - पाडूआ शास्त्रनें वचनें करी सिद्धांत निराकरूं; कर्तुं वृथा कर्म कुदेवसंगा - कीबूं फोकट कर्म माता देवना संग थकी; सर्वत्र सर्वदाऽवाञ्छि ही नाथ ! मतिभ्रमो मे - वांछे नीचूं ठाकुर चित्त चमको रहइं। विमुच्य दृग्लक्षगतं भवन्तं, ध्याता मया मूढधिया हृदन्तः । कटाक्ष-वक्षोज-गभीरनाभी,-कटीतटीयाः सुदृशां विलासाः ॥१३॥
॥ विमुच्य० ॥ व्याख्या ॥ हे जगदीश ! 'मया सुदृशां' मृगलोचनानां; सुष्ठ दृग् यासां ताः सुदृशस्तासां बहुव्रीहिः । तरललोचनानां 'विलासा' विभ्रमा 'ध्याता'श्चिन्तिताः । कथम् ? 'हृदन्त'मनोमध्ये, हृदोऽन्तर्हृदन्तस्तत्पुरुषः । कथंभूतेन मया ? 'मूढधिया' मन्दमतिना, मूढा धीर्यस्य स मूढधीर्बहुव्रीहिस्तेन । विलासाः किंलक्षणाः ? 'कटाक्ष-वक्षोज-गभीरनाभी-कटीतटीयाः' कटाक्षोऽक्षिविकूणितं, वक्षोजौ स्तनौ, गभीरा निम्ना या नाभिः प्रसिद्धो देहावयवः, कटीतटं कटीप्रदेशः, एतेषां सम्बन्धिनः । वक्षसि जायते इति वक्षोजौ तत्पुरुषः । गभीरा चासौ नाभी च गभीरनाभी कर्मधारयः । कट्यास्तटं कटीतटं तत्पुरुषः । कटाक्षश्च वक्षोजौ च गभीरनाभी च कटीतटं च कटाक्षवक्षोजगभीरनाभीकटीतटं द्वन्द्वः
Page #10
--------------------------------------------------------------------------
________________
OC
अनुसन्धान-५८
प्राणितूर्यसेनाङ्गानामेकवद्भावो द्वन्द्वे भवति । कटाक्षवक्षोजगभीरनाभीकटीतटे भवाः कटाक्षवक्षोजगभीरनाभीकटीतटीया; केनेयेका इति तद्धितसूत्रेणेयप्रत्ययः । किं कृत्वा ? 'विमुच्य' परित्यज्य । कम् ? 'कर्मतापन्नं त्वां 'भवन्तं' किंविशिष्टम ? 'दृग् लक्ष्यगतं' दृग् दृष्टिस्तस्या लक्ष्यं वेध्यं तद्गतः प्राप्तस्तं दृग्गोचरीभूतमित्यर्थः; दृशो लक्ष्यं दृग्लक्ष्यं तत्पुरुषः । दृग्लक्ष्यं गतो दृग्लक्ष्यगतस्तत्पुरुषस्तं; लक्षशब्दो 'य'काररहितोप्यस्ति लक्षं लक्ष्यं शब्दकमित्यभिधानकोशवचनादिति त्रयोदशवृत्तार्थः ॥१३॥
टबार्थ : विमुच्य दृग्लक्षगतं भवन्तं ध्याता - मूंकी करी लोचन गोचर गत तुझनइं ध्याया; मया मूढधिया हृदन्तः - में मूरख बूद्धि चित्तमांहइं; कटाक्षवक्षोजगभीरनाभी - लोचनविकार, स्तन गंभीरनाभि; कटीतटीयाः सुदृशां विलासा - कटि तटिना प्रदेश स्त्रीना विकार ॥१३॥ लोलेक्षणावक्त्रनिरीक्षणेन, यो मानसे रागलवो विलग्नः । न शुद्धसिद्धान्तपयोधिमध्ये, धौतोऽप्यगात्तारक ! कारणं किम् ? ॥१४॥
॥ लोले० ॥ व्याख्या ॥ हे त्रिकालवेदिन् ! यो मे 'मानसे' हृदये, 'रागलवो' रागलेशो, रागस्य लवो रागलवस्तत्पुरुषः 'विलग्नो' विशेषेण स्थितः । केन ? 'लोलेक्षणावक्त्रनिरीक्षणेन' । लोलेक्षणा – रमणी, तस्या वक्त्रं मुखं, तस्य निरीक्षणं विलोकनं, ति(ते)न । लोले चपले ईक्षणे लोचने यस्याः सा लोलेक्षणा बहुव्रीहिः । लोलेक्षणाया वक्त्रं लोलेक्षणावक्त्रं तत्पुरुषः, लोलेक्षणावक्त्रस्य निरीक्षणं लोलेक्षणावक्त्रनिरीक्षणं तत्पुरुषस्तेन । 'हि(हे)तारक!' हे संसारपारप्रापक ! स रागलवो 'नागा'न्न गतः । किंलक्षणो रागलवः ? धौत:-क्षालितोपि; कस्मिन् ? 'शुद्धसिद्धान्त-पयोधिमध्ये' शुद्धो निर्दूषणो यः सिद्धान्त – आगमः स एव पयोधिः समुद्रस्तस्य मध्यो मध्यभागस्तस्मिन् । शुद्धश्चासौ सिद्धान्तश्च शुद्धसिद्धान्तः कर्मधारयः; शुद्धसिद्धान्तपयोधर्मध्यं शुद्धसिद्धान्तपयोधिमध्यं तत्पुरुषस्तस्मिन् । तत्र 'किं कारणम्' हेतुरभूदिति चतुर्दशवृत्तार्थः ॥१४॥
टबार्थ : लोलेक्षणावक्त्रनिरीक्षणेन - स्त्रीजन तेहना मुखनूं जोवू तेणइं करी; यो मानसे रागलवो विलग्नः - जेम चित्तनइं राग थोडोई लागो; न शुद्धसिद्धान्तपयोधिमध्ये - नही निर्मल शास्त्ररूपीया समुद्रइं मांहइं; धौतोप्यगा(त्ता)रक
Page #11
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
२५
कारणं किं ? - धोयो हुं तो न गयो हे तारक ! तेसुं कारण ? ॥१४॥ अनंग (अङ्ग) न चङ्गं न गणो गुणानां, न निर्मलः कोपि कलाविलासः । स्फुरत्प्रधानप्रभुता च कापि, तथाप्यहङ्कारकर्थितोऽहम् ॥१५॥
॥ अङ्गं० ॥ व्याख्या ॥ हे जिनेश ! मे 'अहं' शरीरं, 'चङ्ग' सुन्दरं नास्ति । तथा 'गुणानां' विनयो(यौ) दार्य-धैर्य-गाम्भीर्यादीनां 'गणः' समूहोऽपि नास्ति । तथा 'कोऽपि कलाविलासः' कलोद्दीपनं; कलानां विलासः कलाविलासस्तत्पुरुषः, नास्ति कलाविलासः । किंलक्षणो ? 'निर्मल'श्चोक्षो निर्गतो मलादिभिर्निर्मलः तत्पुरुषः । तथा च पुनः ‘कापि स्फुरत्प्रधानप्रभुता' स्फुरन्ती देदीप्यमाना या प्रधानानामग्रेमराणां राज्ञामिति यावत् । प्रभुः स्वामी तस्य भावस्तत्ता चक्रवर्त्तिता । अथवा प्रधानानामधिकारिणां प्रभुता ऐश्वर्य, प्रधानानां प्रभुः प्रधानप्रभुस्तत्पुरुषः, प्रधानप्रभोर्भाव: प्रधानप्रभुता, स्फुरन्ती चासौ प्रधानप्रभुता च स्फुरत्प्रधानप्रभुता कर्मधारयः, नास्ति । तथापि हे प्रभो ! अहं 'अहङ्कारकदर्थितो-ऽभिमानाऽभिभूतोऽहङ्कारेण कर्थितोऽहङ्कारकर्थितस्तत्पुरुषः, ऽस्मीति शेषः । इति पञ्चदशवृत्तार्थः ॥१५॥
टबार्थ : अङ्गं न चङ्गं न गु(ग)णो गुणानां - अंग निर्मल हूओ नही न हूआ गुण घणा; न निर्मलः - न हूउ निर्मल; कोपि कलाविलासः - कोई कलाविलास नथी; स्फुरत्प्रभा न प्रभुता च कापि - न देदीप्यमांन महिमा नही प्रभुताई पण; तथाप्यहङ्कारकर्थितोहं - तो ही पण अहंकार कदर्थन हूओ ॥१५।। आयुर्गलत्याशु न पापबुद्धि,-र्गतं वयो नो विषयाभिलाषः ।। यत्नश्च भैषज्यविधो(धौ) न धर्मे, स्वामिन् ! महामोहविडम्बना मे ॥१६॥
॥ आयु० ॥ व्याख्या ॥ 'हे स्वामिन्' हे नेतर्मम ‘महामोहविडम्बना' प्रबल मोहनीयकर्मकदर्थना। महांश्चासौ मोहश्च महामोहः कर्मधारयः, महामोहस्य विडम्बना तत्पुरुषः, अस्ति । ता मोहविडम्बना दर्शयति; मम 'आयुर्जीवितं 'गलति' याति । कथम् ? 'आशु' शीघ्रं, 'पापबुद्धिः' पापपरिणामः । पापस्य बुद्धिः पापबुद्धिस्तत्पुरुषः, न गलति मे वयो यौवनलक्षणं 'गतमतिक्रान्तं'; 'विषयाभिलाषः विषयाः शब्द १ रूप-२, गन्ध-३, रस-४, स्पर्शा-५स्तेषामभिलाषः स्पृहा । विषयाणामभिलाषो विषयाभिलाषस्तत्पुरुषः, 'न गतः' । च पुन भैषज्यविधौ' औषधविधाने; विधानं विधिभैषज्यस्य विधिर्भेषज्यविधिस्तत्पुरुषः तस्मिन् यत्न
Page #12
--------------------------------------------------------------------------
________________
२६
अनुसन्धान- ५८
आदरोऽभूत् ‘धर्मे’ सुकृतकर्म्मणि यत्नो नाभूदिति षोडशवृत्तार्थः ॥१६॥
टबार्थ : आयुर्गलत्याशू (शु) न पापबुद्धि
आउखुं जाइ छइ शीघ्र पापबुद्धि न जाई; गतं वयो नो विषयाभिलाषः गयो योवन न गयो संसारनो अभिलाष; यत्नश्च भैषज्यविधौ न धर्मे - यत्ने करी उद्यम कीधो उषधनें, न धर्मन विषइं; स्वामिन् महामोहविडम्बना मे हे नाथ ! मोटी मोहनी विटंबना माहरी
॥१६॥
नात्मा न पुण्यं न भवो न पापं, मया विटानां कटुगीरपीयम् । अधारि कर्णे त्वयि केवलार्के, पुरि: (परि) स्फुटे सत्यपि देव ! धिग्माम्
॥१७॥
॥ नात्मा० ॥ व्याख्या ॥ हे भगवन् ! 'मया विटानां' नास्तिकादिविटपुरुषाणां ‘इयं कटुगीरपि' कर्कशोक्तिरपि; कटुश्चासौ गीश्च कटुगीः कर्मधारयः। 'कर्णे' श्रवणेऽ'धारि' धृता । इयं का ? आत्मा जीवो नास्ति, तथा 'पुण्यं' सुकृतं नास्ति, तथा 'भवो' ऽवतारो नास्ति, तथा 'पापं' दुरितं नास्ति । कस्मिन् सति ? ‘त्वयि सति' । त्वयि कथम्भूते ? 'केवलार्के' केवलं केवलज्ञानं तदेवार्को यस्य स पदैकदेशे पदसमुदायोपचारात् केवल स (श)ब्देन केवलज्ञानमुच्यते। त्वयि किंलक्षणे ? 'परिस्फुटे' अतिप्रकटे । त्वयि कथन्भूते ? 'सत्यपि' विद्यमानेऽपि । त्वयि सत्यपि विटानां वाणी कर्णे श्रुता । अतो हे देव ! हे केवलपते ! 'मां धिगस्तु' धिक्कारो भवतु गुणागुणेऽविवेकत्वादिति सप्त(दश)वृत्तार्थः ॥१७॥
बार्थ : नात्मा न पुण्यं न भवो न पापं न कीधूं आत्मानूं हित न पुण्य कीधूं न भवफेरो वारो न पाप फेडो; मायाविटानां कटुगीरपीयं - मायाकुटनी कडूई वांणीइं; अधारि कर्णे त्वयि केवलार्के - धरी कांननें विषें तुझ केवलज्ञानसूर्य आगलि प्रगटे छइ; परिस्फुटे सत्यपि दैव । धिग (ग्)मां तोही पिण हे देव ! धिकार हुवो मुझन ॥१७॥
-
"
-
न देवपूजा न च पात्रपूजा, न श्राद्धधर्मश्च न साधुधर्मः । लब्ध्वापि मानुष्यमिदं समस्तं कृतं मयाऽरण्यविलापतुल्यम् ॥१८॥
॥ न देव० ॥ व्याख्या ॥ हे परमेष्टिन् ! यन्मया 'देवपूजा’ऽर्हदर्चा; देवानां पूजा देवपूजा तत्पुरुष:, न कृता । च पुनर्यन्मया 'पात्रपूजा' साधुदानं; पुनर्यन्मया
Page #13
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
२७
'श्राद्धधर्मः' सम्यक्त्वमूलद्वादशव्रतलक्षणः । श्राद्धानां धर्मः श्राद्धधर्मः, श्राद्धधर्मस्तत्पुरुषः, न विहितः तथा यन्मया 'साधुधर्मः' पञ्चमहाव्रतलक्षणः । साधूनां धर्मः साधुधर्मस्तत्पुरुषः, न निर्मितः । किं कृत्वा ? 'लब्ध्वाऽपि' प्राप्याऽपि; किं कर्मतापन्नं ? 'मानुष्यं' मनुजत्वं; मनुष्यस्य भावो मानुष्यं; तत् लब्ध्वा मानुष्यमिति पदयुगलं देवपूजादिपदेष्वपि योज्यं । तत् इदमिति देवार्चाद्यऽकरणलक्षणं; 'समस्तं' सकलं 'कृतं' निमितं इदं; कीदृशं कृतं ? 'अरण्यविलापतुल्यं' अरण्यं कान्तारं, तत्र विलापो रोदनं तस्य तुल्यं सदृशं । अरण्ये विलापोऽरण्यविलापस्तत्पुरुषः, ऽरण्यविलापस्य तुल्यमरण्यविलापतुल्यं तत्पुरुषः । कोऽर्थो ? यन्मया नरत्वं प्राप्यार्हत्पूजादिकसुकृतं न कृतं, तन्मयाऽरण्ये रोदनं कृतम् । अरण्ये रोदनं त्वकिञ्चित्करं प्रसिद्धमस्ति । यत उक्तं;
अरण्यरुदितं कृतं शबशरीरमुद्वर्तितं, । श्वपुच्छमवनामितं बधिरकर्णजापः कृतः । स्थले कमलरोपणं सुचिरमूखरे वर्षणं, तदभ्रमुखमण्डनं यदबुधे जने भाषितम् ॥ इत्यष्टादशवृत्तार्थः ॥१८॥
टबार्थ : न देवपूजा - में देवनी पूजा न कीधी; न च पात्रपूजा - पात्रपूजा न कीधी; न श्राद्धधर्मश्च न साधुधर्मः - श्रावकनो धर्म न कीधो साधूनो पिण धर्म न कीधओ; लब्ध्वाऽपि - लही करी; मानुष्यमिदं समस्तं - मनुष्यभव ए सगलओ; कृतं मयारण्यविलापतुल्यं - कीबूं में रुदन कीबूं वनखंड सेवउ ॥१८॥
चक्रे मयाऽसत्स्वपि कामधेनु - कल्पद्रुचिन्तामणिषु स्पृहार्त्तिः । न जैनधर्मे स्फुटशर्मदेऽपि, जिनेश ! मे पश्य विमूढभावम् ॥१९॥
॥ चक्रे० ॥ व्याख्या ॥ 'हे जिनेश !' जिनाः केवलिनः तेषामीशः स्वामी, जिनानामीशो जिनेशस्तत्पुरुषस्तस्य सम्बोधनम् । मया 'स्पृहार्त्तिः' वाञ्छापीडा प्राप्त्यऽध्यवसाय इति यावत् । स्पृहाया अर्तिः स्पृहार्तिस्तत्पुरुषः । 'चक्रे' कृता, केषु ? 'कामधेनु-कल्पद्रु-चिन्तामणिषु' कमधेनुः कामगवी, कल्पद्रुर्देवतरुः, चिन्तामणि-श्चिन्तारत्नं; तिषु(तेषु), कामस्य पूरिका धेनुः कामधेनुस्तत्पुरुषः, कल्पश्चासौ द्रुश्च कल्पद्रुः कर्मधारयः, चिन्तायाः पूरको मणिश्चिन्तामणिमध्यपदलोपी तत्पुरुषः । कामधेनुश्च कल्पद्रुश्च चिन्तामणिश्च कामधेनुकल्पद्रुचिन्तामणयो द्वन्द्वस्तेषु । किं लक्षणेषु कामधेनु-कल्पद्रु-चिन्तामणिषु? 'असत्स्वपि' अविद्यमानेष्वपि, न
Page #14
--------------------------------------------------------------------------
________________
२८
अनुसन्धान-५८
सन्तोऽसन्तस्तेषु तत्पुरुषः । पुन जैनधर्मे' जिनोक्ततत्त्वे, जिनस्यायं जैनो, जैनश्चासौ धर्मश्च जैनधर्मः कर्मधारयस्तस्मिन् । स्पृहार्त्तिजिनधर्मकरणलक्षणा चिन्ता न चक्रे। जिनधर्मे किंलक्षणे? 'स्फुटशर्मदेऽपि' प्रकटसौख्यकारकेऽपि । स्फुटं च तत् शर्म च स्फुटशर्म कर्मधारयः, स्फुटशर्म ददातीति स्फुटशर्मदस्तस्मिन् । हे जिनेश ! 'मे' मम 'विमूढभावं' विशेषेण मन्दत्वं; मूढस्य भावो मूढभावस्तत्पुरुषः । विशेषेण मूढभावो विमूढभावस्तत्पुरुषस्तं पश्य विलोकयेत्येकोविंशतितमवृत्तार्थः ॥१९॥
टबार्थ : चक्रे मया - कीधी में छइं; सत्स्वपि कामधेनुकल्पद्रु चिन्तामणिषु स्पृहार्त्तिः - ते कामधेनु कल्पद्रुम वृक्ष चिन्तामणि विषय वांछा पीडइ; न जैनधर्मे स्फुटशर्मदेपि - न जिनधर्मनें विर्षे प्रगट मोक्ष देणहार; जिनेश ! मे पश्य विमूढभावं - हे ठाकुर ! मुझनइं पश्य देखि मूर्खपणऊ ॥१९॥
सद्भोगलीला न च रोगकीला, धनागमो नो निधनागमश्च । दारा न कारा नरकस्य चित्ते, व्यचिन्ति नित्यं मयकाऽधमेन ॥२०॥
॥ सद्भो० ॥ व्याख्या ॥ हे पुरुषोत्तम ! 'मयका' मया, "नित्यं' निरन्तरं, 'सद्भोगलीला' प्रधानभोगक्रीडा, सन्तश्च ते भोगाश्च सद्भोगाः कर्मधारयः, सद्भोगानां लीला सद्भोगलीला तत्पुरुषः । 'चित्ते' चेतसि, 'व्यचिन्ति' विचारिता । च पुनः 'रोगकीलाः' गदशङ्कवो, रोगा एव कीला लोहोपकरणविशेषाः खीला इति लोकोक्तिः । कीलाशब्दः पुंस्त्रीलिङ्गे । रोगा एव कीला रोगकीलाः कर्मधारयः । नव्यचिन्तिषत मयका । 'धनागमो' धनप्राप्तिर्धनस्यागमो धनागमस्तत्पुरुषः, व्यचिन्ति च पुन निधनागमो' मरणागमो, निधनस्यागमो निधनागमस्तत्पुरुषः, न व्यचिन्ति नो मखेधि(?) मयका ‘दाराः' कलत्रं चित्ते व्यचिन्तिषत । 'दार' शब्दो बहुवचनान्तः पुल्लिङ्गश्च ज्ञेयः । पुनर्नरकस्य कारा गुप्तिगृहं चित्ते न व्यचिन्ति । यतो मयका किंलक्षणेनाऽधमेन पापेन अव्ययसर्वादेरकं चेति तद्धितसूत्रेणाऽक् प्रत्यये रूपसिद्धिरिति विंशतितमवृत्तार्थः ॥२०॥
टबार्थ : सद्भोगलीला न च रोगकीला - रूडा भोग चितवा न रोगपीडा चितवी; धनागमो नो निधनागमश्च - लक्ष्मीनो धनागम चींतवो न निर्धन पणउ; दारा न कारा नरकस्य चित्ते - स्त्री मन चिंतवी गोतहरूं मन धरूं नही; व्यचिन्ति नित्यं मयकाधमेन - चिंतवू निरंतर में अधमई ॥२०॥
Page #15
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
स्थितं न साधोर्हदि साधुवृत्त्या, परोपकारान्न यशोऽर्जितं च । कृतं न तीर्थोद्धरणादि कृत्यं, मया मुधा हारितमेव जन्म ॥२१॥
॥ स्थितं० ।। व्याख्या ॥ हे जगत्प्रभो ! मया 'जन्मा'ऽवतारो 'मुधा' वृथा 'हारितं' निर्गमितं । एवेति निश्चये तदर्शयति; मया साधोरुत्तमस्य 'हृदि' हृदये 'न स्थितं' नाश्रितं; कस्मात् ? 'साधुवृत्तात्' शोभनाचारतः । साधु च तद्वृत्तं च साधुवृत्तं तस्मात् । साधुवृत्त्या इत्यपि क्वापि पाठः । तत्र साधुः शोभनवृत्तिः सदाचरणरूपा प्रवृत्तिस्तया । च पुनर्मया 'यशः' प्रसिद्धा(द्धं) ख्यातिरूपं 'नार्जितं' नोपार्जितम् । कस्मात् ? 'परोपकारात्' अन्योपकृतितः । परेषामुपकारः परोपकारस्तस्मात्तत्पुरुषः । तथा मया ‘कृत्यं' कार्य, न कृतं न विहितं; कृत्यं किंलक्षणम् ? 'तीर्थोद्धरणादि' पतितजिनमन्दिरोद्धारप्रवृत्तिः । तीर्थानामुद्धरण(णं) तीर्थोद्धरणं तत्पुरुषः । तीर्थोद्धरणमादिर्यस्य तत्तीर्थोद्धरणादि बहुव्रीहिरित्येकविंशतितमवृत्तार्थः ॥२१॥
टबार्थ : स्थितं न साधोर्हदि साधुवृत्तान् (त्) - न हूओ ते साधो हीया साधू वृत्त आचार करी; परोपकारान्न यशोज्जितं च - परोपकारी(रि) यश नोपार्यो; कृतं न तीर्थोद्धरणादि कृत्यं - न कीधओ तीर्थ उद्धरणादिक करणी; मया मुधा हारितमेव जन्म - मै वृथा हारो जनम ॥२१॥
वैराग्यरङ्गो न गुरूदितेषु, न दुर्जनानां वचनेषु शान्तिः । नाध्यात्मलेशो मम कोपि देव !, तार्यः कथङ्कारमयं भवाब्धिः ॥२२॥
॥ वैरा० ॥ व्याख्या ॥ 'हे देव !' मया 'कथड्कार'मिति 'कथंकथमादिषु स्वार्थे कृञ्' इति कृदन्तसूत्रेण रूपसिद्धिः । 'अयं भवाब्धि'रसौ संसारसमुद्रः । भव एवाब्धिः कर्मधारयः । 'तार्य'स्तरणीयः यस्मात् सुकृतं विना संसारार्णवस्तरीतुं न शक्यते तत्तु मया नाचरितं तद्दर्शयति । मे 'वैराग्यरङ्गो' वैराग्यवासना; वैराग्यस्य रङ्गो वैराग्यरङ्गस्तत्पुरुषः नाजनि । केषु सत्सु ? 'गुरूदितेषु' सत्सु । गुरुभाषितेषु गुरुभाषितश्रवणे वैराग्यरङ्गो भवति । यदुक्तं;
"धर्माख्याने स्मशाने च, रोगिणां या मतिर्भवेत् । यदि सा निश्चला बुद्धिः, को न मुच्येत बन्धनात् ॥१॥"
मम तु स नाभूत् । गुरुभिरुदितानि गुरूदितानि तत्पुरुषस्तेषु । तथा 'दुर्जनानां' असज्जनानां; दुष्टाश्च ते जनाश्च दुर्जनाः कर्मधारयस्तेषां 'वचनेषु'
Page #16
--------------------------------------------------------------------------
________________
अनुसन्धान- ५८
वाक्येषु शान्तिरुपशमो मा भूत् । तथा मम 'कोप्यध्यात्मलेशः ' पठनपाठनाष्टाङ्गयोगलवः, आत्मानमधिकृत्य यद्वर्त्तते तदध्यात्ममव्ययीभावः, ऽध्यात्मस्य लेशोऽध्यात्मलेशस्तत्पुरुषो नाभवदिति द्वाविंशतितमवृत्तार्थः ॥२२॥
टबार्थ : वैराग्यरङ्गो न गुरूदितेषु - संवेगरंग न हूओ गुरुवचननई विष; न दुर्जनानां वचनेषु शान्ति: न दुष्टजन बोलितनें विषं शांति नाध्यात्मलेशो मम कोपि देवः अध्यात्मलेश हूओ नही हे देव !; तार्यः कथङ्कारमयं भवाब्धिः तर किम संसारसमुद्र ||२२||
३०
-
पूर्वे भवेऽकारि मया न पुण्य, मागामिजन्मन्यपि नो करिष्ये । यदीदृशोऽहं मम तेन नष्टा, भूतोद्भवद्भाविभवत्रयीश ! ॥२३॥
॥ पूर्वे० ॥ व्याख्या ॥ हे नेतर्मया ' पूर्वे' अतिक्रान्ते 'भवे' जन्मनि 'पुण्यं' सुकृतं ‘नाऽकारि' न निरमायि । कथमेतद् ज्ञायते ? उच्यते - तादृग् सौख्याऽप्राप्तितो ज्ञातम् । तथा 'आगामि जन्मनि' भाव्यऽवतारेपि, आगमिष्यतीत्येवंशीलमागामि तत्पुरुष:, आगामि च तज्जन्म चागामिजन्म कर्मधारयस्तस्मिन् । 'पुण्यं नो' नैव 'करिष्ये' विधास्ये । कथमेतद् ज्ञातं ? उच्यते; वर्त्तमानभवस्वरूपं तु 'दत्तं न दानं परिशीलितं तु' इत्यादिना प्रतिपादितं, अस्मिन् जन्मनि पुण्याऽकरणादग्रेऽप्पहं न करिष्ये । यतः पुण्येन पुण्यं वर्धते, पापेन पापमिति । यदिति यस्मात् ईदृश इति पुण्योपार्जनविवर्जितोऽहमस्मीति शेषः । तेन कारणेन मम 'भूतोद्भवद्भाविभवत्रयी' भूतोऽतिक्रान्तः, उद्भवन् वर्त्तमानो भव:, आगामी, ईदृशा ये भवास्तेषां त्रयी-त्रिकं; भूतश्चोद्भवंश्च भावी च भूतोद्भवद्भाविनो द्वन्द्वः । भूतोद्भवद्भाविनश्च ते भवाश्च भूतोद्भवद्भाविभवाः कर्मधारयः; भूतोद्भवद्भाविभवानां त्रयी भूतोद्भवद्भाविभवत्रयी तत्पुरुष इति त्रयोविंशतितमवृत्तार्थः ॥२३॥
बार्थ : पूर्वे भवेऽकारि मया न पुण्यं - पूर्वभवई मई पुण न कीधऊ; आगामिजन्मन्यपि आवतइं भवइं पण नही; नो करिष्ये - करीस; यदीदृशोऽहं जो एहवो छं तो; मम तेन नष्टा माहरा नाठा; भूतोद्भवद्भाविभवत्रयीश – अतीत अनागत वर्त्तमांन भवत्रयी हे नाथ ! ॥२३॥
-
किं वा मुधाऽहं बहुधा सुधाभुक् - पूज्य ! त्वदग्रे चरितं स्वकीयं । जल्पामि यस्मात् त्रिजगत्स्वरूप - निरूपकस्त्वं कियदेतदत्र ॥२४॥
Page #17
--------------------------------------------------------------------------
________________
फेब्रुआरी २०१२
॥ किं वा० ॥ व्याख्या ॥ 'हे सुधाभुक्पूज्य !' हे देवाचार्य्य(देवार्च्य) ! सुधां भुञ्जते इति सुधाभुज - स्तत्पुरुषः, सुधाभुग्भिः पूज्य सुधाभुक्पूज्यस्तत्पुरुषस्तस्य सम्बोधनं वेति पक्षान्तरे । 'त्वदग्रे' भवत्पुरतः; तवाग्रे त्वदग्रे तत्पुरुषः । ‘स्वकीयमात्मीयं; स्वकस्येदं स्वकीयं, चरितं - चरित्रं, मुधा वृथा बहुधा नानाप्रकारेण, बहव: प्रकारा अस्येति बहुधा । ऽहं किं जल्पामि - कथयामि ? यस्मात्कारणात्त्वं वर्त्तसे । त्वं किंलक्षणः ? ' त्रिजगत्स्वरूपनिरूपकः' त्रिभुवनलक्षणकथकः; त्रयाणां जगतां समाहारस्त्रिजगत् द्विगुः; त्रिजगतः स्वरूपं त्रिजगत्स्वरूपं तत्पुरुषः; त्रिजगत्स्वरूपस्य निरूपकत्रिजगत्स्वरूपनिरूपकस्तत्पुरुषः तस्मादत्रेति त्वयि विषये एतदिति मदीयचरित्रं; कियदिति कियत्प्रमाणमस्ति ? यस्मात् सर्वेषां त्रिभुवनजनानां स्वरूपं त्वं जानासीति चतुर्विंशतितमवृत्तार्थः ॥२४॥
३१
टबार्थ : किंवा मुधाऽहं बहुधा सुधाभुक् - सुं वा अथवा घणुं अमृतभुक्; पूज्य त्वदग्रे - हे पूज्य तुझ आगल; चरितं स्वकीयं चरित्र आपणुं; जल्पामि यस्मात्त्रिजगत्स्वरूपं – कहुं जेह भणी त्रिजगत्स्वरूप; निरूपकस्त्वं कियदेद(त)दत्र प्ररूपक तुं केतलो संसारमाह ॥२४॥
-
दीनोद्धारधुरन्धरस्त्वदपरो नास्ते मदन्य: कृपा
पात्रं नात्र जने जिनेश्वर ! तथाप्येतां न याचे श्रियम् । किंत्वर्हन्निदमेव केवलमहो सद्बोधिरत्नं शिवं, श्रीरत्नाकर ! मङ्गलैकनिलय ! श्रेयस्करं प्रार्थये ॥२५॥ ॥ इतिश्रीसाधारणजिनस्तवनं रत्नाकरसूरिविरचितम् ॥
॥ दीनो० ॥ व्याख्या ॥ ' हे जिनेश्वर !' हे केवलीश ! जिनानामीश्वरो जिनेश्वरस्तत्पुरुषस्तस्य सम्बोधनं, 'त्वदपरो' भवदन्य:, त्वत् अपरस्त्वदपरस्तत्पुरुषः त्वदिति पृथग्पदं वा पुरुषो 'नास्ते' न वर्त्तते पुरुषः । किं लक्षणो ? ‘दीनोद्धारधुरन्धरो' दुःस्थितोद्धरणतत्परः । दीनानामुद्धारो दीनोद्धारस्तत्पुरुषः, धुरन्धरतीति धुरन्धरस्तत्पुरुषः, दीनोद्धारधुरन्धरो दीनोद्धारधुरन्धरस्तत्पुरुषः, ऽत्र इह, 'जने' लोको (के) 'मदन्यो' मद्भिन्नो मत् अन्यो मदन्यस्तत्पुरुषः । मदिति पृथग्पदं वा । पुरुषो नास्ति न वर्त्तते पुरुषः । किंलक्षणम् ‘कृपापात्रं’ दयास्थानं ? कृपायाः पात्रं कृपापात्रं तत्पुरुषः । यद्यप्येतदस्ति ‘तथापि एतां’ गजवाजिकोशादिकां जगव् (त्) प्रसिद्धां श्रियं' लक्ष्मीं न ययाचे
Page #18
--------------------------------------------------------------------------
________________ अनुसन्धान-५८ न प्रार्थयामि / तु पुनः किमिति विशेषार्थे / 'हे अर्हन् !' हे भगवन् ! 'हे शिवश्रीरत्नाकर !' हे मोक्षलक्ष्मीसमुद्रा (द्र!) शिवस्य श्रीः शिवश्रीस्तत्पुरुषः, रत्नानामाकरो रत्नाकरस्तत्पुरुषः / शिवश्रियो रत्नाकरः शिवश्रीरत्नाकरस्तत्पुरुषस्तस्य सम्बोधनम् / 'हे मङ्गलैकनिलय !' हे भद्रैक मन्दिर ! एकश्चासौनिलयः(च) कर्मधारयः, मङ्गलानामेकनिलयो मङ्गलैकनिलयस्तत्पुरुषस्तस्य सम्बोधनम् / इदं 'सद्बोधिरत्न' प्रधानजिनधर्मप्राप्तिचिन्तामणिः, बोधिरेव रत्नं बोधिरत्नं कर्मधारयः; सच्च तद्बोधिरत्नं च सद्बोधिरत्नं कर्मधारयः / पुनद्वि(ढेि)तीयाज्ञापनाय तदिति / सदिति पृथक् पदं वा बोधिरत्नस्य विशेषणीभूतम् / सद्बोधिरत्नं किंविशिष्टम् ? 'श्रेयस्करं' मोक्षकारकम् / श्रेयः करोतीति श्रेयस्करं तत्पुरुषः / पुनर्द्वितीयाज्ञापनाय तदिति / 'अहो' इति सम्बोधने, 'एवेति निश्चये / 'प्रार्थये' याचे / कथम् ? केवलमद्वितीयं, 'शिवश्री रत्नाकरे'ति सम्बोधनं कथयता स्तोत्रका स्वनामाऽसूचि श्रीरत्नाकरसूरिरिति पञ्चविंशतितमवृत्तार्थः // 25 / / श्रीमत्तपागणगणना-ङ्गणदिनमणिविजयसेनसूरीणां / शिष्याणुना विरचिता, वृत्तिरियं कनककुशलेन // 1 // ससूत्रवृत्तेर्ग्रन्थाग्रं, श्लोकसङ्ख्या शतत्रयी / प्रत्यऽक्षरं गणनया, सञ्जाताऽस्मिन् स्तवोत्तमे // 2 // अङ्कतोपि 300 इतिश्री साधारणजिनवरस्तवनम् // टबार्थ : दीनोद्धारधुरन्धर - दीनभव उधरवा धोरी; स्त्वदपरो- तुं थकी अनेरो; नास्ते मदन्य - कोई नथी परोपकारी; कृपापात्रं नात्र - अनेरुं कृपा- पात्र नथी; जने जिनेश्वर तथाप्येतां न याचे श्रियं - हे जिनेश्वर ! तो पिण एतुं न वार्छ लक्ष्मी; किन्त्वर्हन्निदमेव केवलं - किसुं तु पुन एह जिने केवल; महो ! सद्बोधिरत्नं शिव - रूहू बोधबीज मोक्षश्री; श्रीरत्नाकरमङ्गलैकनिलयः - हे रत्नाकर ! हे मङ्गलीक निलय; श्रेयस्करं प्रार्थये - कल्याण करो वांछऊ // 25 // इतिश्री साधारणजिनस्तोत्रसम्पूर्णः - इति श्री सर्वजिनेश्वरस्तुतिरूप स्तोत्र सम्पूर्णः / संवत् 1810 ना वर्षे कार्त्तिकशुदि 5 दिनई बूधवारइं - ग्रन्थाग्रंथ 101, संवत 1810 वर्षे कालि शूद 5 बूधवारइं, लिखितं संघवी फतेचंद सूरसंघ श्री पालणपुरमधइं शुभं भवतु / श्रीरस्तुः / /