________________
१८
अनुसन्धान-५८
सानुशयस्तवाग्रे - आपणा चित्तनुं अभिप्राय तुझ आगलई ।
दत्तं न दानं परिशीलितं तु, न शालि शीलं न तपोभितप्तम्। शुभो न भावोभ्यभवद् भवेऽस्मिन्, विभो ! मया भ्रान्तमहो मुधैव ॥४॥
॥ दत्तं० ॥ व्याख्या ॥ 'हे विभो !' हे स्वामिन् ! 'मया दानं न दत्तं' कृपणत्वेन पात्रे धनं न नियोजितम् । तथा तु पुनर्मया 'शीलं' ब्रह्मचर्यं न 'परिशीलितं' न पालितं । शीलम् किंविशिष्टं ? 'शालि' मनोज्ञं तथा मया 'तपो' बाह्याभ्यन्तररूपं द्वादशविधम् 'नाभितप्तं' न कृतं । तथा 'भावोपि नाऽभवत्' न जातो भावः । किंविशिष्टः ? 'शुभः' प्रशस्योऽतो 'अहो' इति खेदे; 'मुधैव' वृथैव मया 'श्रान्त' मटितं; क्व भवे ? किंलक्षणेऽस्मिन् प्रत्यक्षे? ॥ इति चतुर्थ वृत्तार्थः ॥
___टबार्थ : दत्तं न दानं - दान दीधुं नहीं, परिशीलितं तु - न रूडो आचार, न शालि शीलं - न शालि शील, न तपोभितप्तं - न तप कीबूं, शुभो न भावोप्यभवद् - रूडो भाव न कीधो, भवेऽस्मिन् - इणे संसारे, विभो मया - प्रभु में, भ्रान्तं - भम्यो, अहो मुधैन(व)-फोकट संसार ।। दग्धोऽग्निना क्रोधमयेन दु(द)ष्टो, दुष्टेन लोभाख्यमहोरगेण । ग्रस्तोभिमानाजगरेण माया,-जालेन बद्धोऽस्मि कथं भजे त्वाम् ॥५॥
॥ दग्धो० ॥ व्याख्या ॥ हे नाथ ! 'त्वा-(त्वां)' भवन्तं 'कथं भजे ?' सेवेऽहमिति शेषः । ऽहं किंलक्षणो ? 'दग्धो'-ऽभितप्तः । केनाग्निना वह्निना, अग्निना किंलक्षणेन? 'क्रोधमयेन' क्रोधस्वरूपेण । क्रोधस्य विकारः क्रोधमयस्तेन क्रोधाग्निनेत्यर्थः । पुनरहं किंलक्षणो ? 'दष्टो' दत्तडङ्कः । केन ? 'लोभाख्यमहोरगेण' लोभाभिधमहासर्पण । लोभ इति आख्या यस्य लोभाख्यो बहुव्रीहिः । उरसा गच्छतीति उरगस्तत्पुरुषः । महांश्चासावुरगश्च महोरगः कर्मधारयः। लोभाख्यश्चासौ महोरगश्च लोभाख्यमहोरगः कर्मधारयस्तेन लोभाख्यमहोरगेण । किंलक्षणेन ? 'दुष्टेन' निर्दयेन । पुनः ऽहं किंविशिष्टो?'ग्रस्तः' कवलीकृतः ।
केनाऽभिमानाजगरेण' अभिमानो ऽहंकारः स एवाजगरो बृहत्तरप्रमाणकायः सर्पजातिविशेषस्तेन । अभिमान एवाजगरोऽभिमानाजगरः कर्मधारयस्तेन । पुनरहं किं लक्षणो ? 'बद्धो' नियन्त्रितः । केन ? 'मायाजालेन' माया शाठ्यं तदेव जालं मत्स्यबन्धनं तेन; मायैव जालं मायाजालं कर्मधारयस्तेनेति पञ्चमवृत्तार्थः ॥