________________
अनुसन्धान-५८
हे ! 'ज्ञानकलानिधान !' 'ज्ञानं' केवलज्ञानं । 'कला' लिखनादिकाद्याः सप्ततिसंख्याकास्तेषां 'निधानं' निधिस्तस्य सम्बोधनम् । ज्ञानं च कलाश्च ज्ञानकला द्वन्द्वः । ज्ञानकलानां निधानं 'ज्ञानकलानिधानं' तत्पुरुषस्तस्य सम्बोधनम् । 'चिरं' चिरकालं 'जय' ।
सर्वोत्कर्षेण वर्तस्वेति क्रियासण्टङ्कस्त्वमिति शेषः ! त्वं किम्भूतो ? 'मङ्गलकेलिसद्म !' मङ्गलानि कल्याणानि । तेषां 'केलिसद्म' क्रीडागृहं । केलेः सद्म केलिसद्म तत्पुरुषः । मङ्गलानां केलिसद्म 'मङ्गलकेलिसद्म' तत्पुरुषः । कासां? 'श्रेयःश्रियां' । श्रेयो मोक्षस्तस्य । श्रियो लक्ष्म्यस्तासां, श्रेयसः श्रियः श्रेयःश्रियस्तत्पुरुषस्तासां मुक्तिलक्ष्मीकल्याणक्रीडनमन्दिरमित्यर्थः इति प्रथमवृत्तार्थः ॥१॥
टबार्थ : श्री गुरुभ्यो नमः ॥ - श्रीसद्गुरुभ्यो नमः ।
श्रेयःश्रियां - कल्याणलक्ष्मी, मङ्गलकेलिसद्म - मङ्गलीक क्रीडाघर, नरेन्द्र-देवेन्द्र - राजा-इन्द्र, नतांघ्रिपद्म - प्रणमित पदकमल, सर्वज्ञ - वीतराग, सर्वातिशयप्रधान - चोत्रीस अतिशयप्रधान, चिरं जय ज्ञानकलानिधान - चिरकाल जयवंता वर्तो शास्त्र बहुत्तरि कलाथानक.
जगत्त्रयाधार ! कृपावतार ! दुर्वारसंसारविकारवैद्य ।
श्रीवीतराग ! त्वयि मुग्ध भावाद्विज्ञ ! प्रभो ! विज्ञपयामि किञ्चित् ॥२॥ ॥ जग० ॥ व्याख्या ॥ हे ! 'जगत्रआ(या)धार !' जगतां भुवनानां त्रयं स्वर्गमर्त्य-पाताल लक्षणं, तस्याधारः स्थानं; रक्षकत्वात्तस्य सम्बोधनम् । जगतां त्रयं 'जगत्त्रयं' तत्पुरुषः । जगत्त्रयस्याधारो 'जगत्त्रयाधार'स्तत्पुरुषस्तस्य सम्बोधनम् ।
हे 'कृपावतार !' कृपायां दयायामवतारः प्रवेशो यस्य सः 'कृपावतारः'। प्रवेशस्तूपदेशद्वारेण भवत्यथवा कृपाया अवतारो यस्मिन्निति बहुव्रीहिस्तस्य सम्बोधनम् । हे 'दुर्वारसंसारविकारवैद्य' ! दुर्वारो वारयितुमशक्यो यः संसारविकारो रोग-वियोग-जरा-मरणादिलक्षणो भयविकारस्तस्य चिकित्सा कारित्वाद्वैद्य इव वैद्यस्तस्य सम्बोधनम् । दुःखेन वार्यते इति 'दुर्वार'स्तत्पुरुषः। संसारस्य विकारः 'संसारविकार'स्तत्पुरुषः । दुर्वारश्चासौ संसारविकारश्च ‘दुर्वारसंसारविकारः' कर्मधारयः । दुर्वारसंसारविकारस्य वैद्यो 'दुर्वारसंसारविकार-वैद्य'स्तत्पुरुषस्तस्य